१५ अभ्युक्षण-विधिः

वृद्ध-मनुः –

ततस् सम्यक् द्विर् आचम्य
अभ्युक्षणम् उदाहरेत्।
नवीना ऽभ्युक्षणञ् जातु
विधिज्ञः किञ्चिद् आचरेत्॥

प्रोक्षण-रहिते गृह इति शेषः। अभ्युक्षणं - प्रोक्षणार्थं जलम्, शाट्यायनिः -

अब्जं हिरण्मयं रौप्यं
दारवं मृण्मयं दृढम्।
ताम्रं पत्र-पुटं पुण्यं
पात्रम् अभ्युक्षणाय वै।

पुण्य-ग्रहणान् न निषिद्ध-पात्र-निषेधः।

शैवाल-वालुका दूर्वा तृण-पर्णायसैर् अपि।
अभ्युक्षणं न गृह्णीयाद् आपस्तम्बो ऽब्रवीन् मुनिः॥

पर्णम् अत्र एरण्डादि।

नालिका भिन्न-पात्रेण कांस्य-पात्रेण चैव हि।
प्राण्य्-अङ्गं फलजेनापि कुर्वन् नाभ्युक्षणं ततः॥

नालिका - वेणुमयी, प्राण्य्-अङ्गं - शङ्ख-शुक्त्यादि, फलजं - नालिकेरादि, यमः -

पात्राद् विरहितं तोयम् उद्धृतं सव्य-पाणिना।
न तेन प्रोक्षणं कुर्याद् वस्त्र-निष्पीडनेन च।

शाट्यायनिः –

नाहरेद् एक-वस्त्रस् तु नावृतो न च कन्यका।
न पाणिना नव-स्त्रेण तोयम् अभ्युक्षणाय वै॥

प्रचेताः –

नाहरेद् एक-जातिस् तु न शिशुर् न च कन्यका।
नानुपेतोनैक-वस्त्रस् तोयम् अभ्युक्षणाय वै ॥

एक-जातिश् शूद्रः। पुलस्त्यः –

तेन द्रव्याण्य् अशेषाणि प्रोक्ष्याचम्य पुनर् गृहे।
ततः कर्माणि कुर्वीत सत्क्रियाश् च द्विजोत्तमः॥

[[124]]