शङ्खः –
सन्ध्यादि-नित्य-लोपे तु दिनम् एकम् अभोजनम्।
दिन-द्वये त्रि-रात्रं स्यात् कृच्छ्रार्धन् तु दिन-त्रये॥
दशाहे कृच्छ्रम् एकं स्याद् ऊर्ध्वं चान्द्रायणं भवेत्।
चान्द्रायणं पराकञ् च मासाद् ऊर्ध्वं विधीयते॥
ततो ऽप्य् एवं प्रकल्प्यं स्याद् व्यासस्य वचनं यथा॥
अग्नि-कार्य-परिभ्रष्टास् सन्ध्योपासन वर्जिताः।
वेदञ् च ये ऽनधीयानास् ते सर्वे वृषलाः स्मृताः॥
गायत्र्य्-अष्ट-शतञ् चैव प्राणायाम-त्रयं तथा।
प्रायश्चित्तम् इदं प्रोक्तं नियमातिक्रमे कृते॥
पुलस्त्यः –
अकाले चेत् कृतं कर्म कालं प्राप्य पुनः क्रिया।
कालातीतन् तु यत् कुर्याद् अकृतं तद् विनिर्दिशेत्॥
संवर्तः –
विधिना ऽपि कृता सन्ध्या कालातीता ऽफला भवेत्।
अयम् एहि दृष्टान्तो वन्ध्या स्त्री मैथुनं यथा॥
मनुः –
वेदोदितं स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः।
तद्धि कुर्वन् यथा-शक्ति प्राप्नोति परमां गतिम्॥
एवं सन्ध्याम् उपास्याधार-शक्त्यादीन् प्रणवादिनमोन्तान् तत्-तन्-मन्त्रेण तर्पयित्वा देवान् ऋषीन् पितॄन् भगवद्-आत्मकान् ध्यात्वा सन्तर्प्य द्विर् आचम्यावाहित-तीर्थ-मन्त्रांश् च आत्मनि समारोप्य अभ्य् उक्षणम् आदाय स्व-गृहं प्रविशेत्॥
[[120]]
अत्र वङ्गीश्वरः –
गायत्री-जप-पर्यन्तं मन्त्राचमन-पूर्वकम्।
साध्यं कर्माखिलं साधु समाप्य च यथा-विधि॥
ततः स्व-कर्म-भोक्तारम् आदित्यान्तर् अवस्थितम्।
उपस्थाय स्वकैर् मन्त्रैर् नारायणम् अतन्द्रितः॥
तत आधार-शक्त्यादीन् तर्पयित्वा स्व-नामभिः।
नमो ऽन्तैः प्रणवोपेतैर् निष्पीड्य स्नान-शाटिकाम्॥
आवाहितांश् च गङ्गाद्यांस् तत्-तन्-मन्त्र-गणांस् तथा।
अनुज्ञाप्य समारोप्य स्वात्मन्य् एव समाहितः॥
इति। तथा हारीतः –
ततस् सन्तर्पयेद् विष्णुं मन्त्र-रत्नेन मन्त्रवित्।
शत-वारं सहस्रं वा तुलसी-मिश्रितैर् जलैः॥
वैकुण्ठ-पार्षदं पश्चात् तर्पयेच् च यथा-विधि।
अनन्त-विहगेशादि देवतानाम् अनुक्रमात्॥
एकैकम् अञ्जलिं दत्वा पश्चाद् आचमनं चरेत्॥
वसिष्ठः –
तर्पयेन् मन्त्र-रत्नेन भक्त्या देवं जनार्दनम्।
तदीयांस् तर्पयेत् पश्चान् नित्यान् मुक्तांश् च देवताः॥
आनृशंस्येव भावेन देवादीन् अपि तर्पयेत्।
निष्पीड्य स्नान-वस्त्रन् तु पुनर् आचमनं चरेत्॥
[[121]]