भरद्वाजः –
एनं सन्ध्याम् उपास्याथ
पितराव् अग्रजान् गुरून्।
त्रि-वर्ष-पूर्वान् शिष्टांश् च
पार्श्वस्थान् अभिवादयेत्॥
अत्राभिवादने उच्छिष्ट-सूतकाशौचादि-युक्तं धावन्तं धन-गर्वितं वृक्षारूढम् अशौच-स्थं भारम् उद्वहन्तं दूरस्थं तैलाभ्यक्तं विकर्मस्थं पतितम् अवैष्णवं कर्म-चण्डालञ् च नाभिवादयेत्॥
[[117]]
अवैष्णव-नमस्काराद्
अवमानाच् च केशवे।
वैष्णवे परिवादाच् च
पतत्य् एव न संशयः॥
अत्र स्मृति-दर्पणे -
पिता च माता च पितामहश् च ज्येष्ठः पितृव्यः श्वशुरस् तथर्त्विक्॥
मातामहाध्यापक-मातुलाश् च मान्यास् स्युर् एते क्रमशो ऽभिवाद्याः॥
स्व-नाम-पूर्वं परिकीर्त्य पश्चाद् भो शब्दम् उच्चार्य गुरोस् तु शिष्यः।
व्यत्यस्य पाणिं परिलभ्य पादौ पिधाय कर्णाव् अभिवादयीत॥
समित्-कुशान्य् अम्ब-कृतान्नम् आज्यम्
पुष्पाणि धृत्वा च तथा वसन्तम्।
विमुक्त-केशञ् च जपञ् च होमं
कुर्वाणम् अभ्यक्त-शिरस् तमस्सु॥
तिष्ठन्तम् अश्नन्तम् अथैक-हस्ताद्
उपानहौ च प्रतिमुच्य हृष्टम्।
आवेष्ट्य वस्त्रेण शिरः प्रसुप्तं
न चाभिवाद्येत् पतितं शवञ्च॥
ऋत्विक्-पितृव्य-श्वशुर-मातुलानां यवीयसाम्।
प्रवयाः प्रथमं कुर्यात् प्रत्युत्थानाभिभाषणम्॥
आयुष्मान् भव सौम्येति वाच्यो विप्रो ऽभिवादने।
अकारश् चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः॥
क्षत्र-वैश्याभिवादेन प्रायश्चित्तं कथं भवेत्।
ब्राह्मणानां दशाष्टौ वा अभिवाद्य विशुद्ध्यति॥
अभिवाद्य द्विजश् शूद्रं सचेल-स्नानम् आचरेत्।
ब्राह्मणानां शतं सम्यग् अभिवाद्य विशुद्ध्यति॥
अर्चयेत् पुण्डरीकाक्षं देवं वापि त्रिलोचनम्।
ब्राह्मणं वा महा-भागम् अभिवाद्य विशुद्ध्यति॥
अन्यत्र –
उदक्यां सूतिकां नारीं भर्तृघ्नीं गर्भ-घातिनीम्।
अभिवाद्य द्विजो मोहाद् अहो रात्रेण शुद्ध्यति॥
[[118]]
यति-विषय-विशेषः
यति-धर्म-समुच्चये –
स्व-धर्म-स्थान् यतीन् वृद्धान् देवांश् च प्रणमेद् यतिः।
नान्यम् आश्रमिणं किञ्चित् प्रशस्तम् अपि तं नमेत्॥
तथा ऽन्यत्रापि –
अष्टादश-कला-युक्तान् ब्रह्म-ज्ञानेन मण्डितान्।
वान-प्रस्थ-गृह-स्थादीन् नरमस्येद्[[??]] यतिः क्वचित्॥
पूर्व-गौरव-सम्मूढान् पितरं मातरं गुरुम्।
अङ्गुल्या ऽपि च सम्भाव्य कुम्भी-पाके पतेद् यतिः॥
श्रेयो (भिक्षु) भीप्सु र्गृह-स्थानां न कुर्यात् प्रतिवन्दनम्।
नाशिषो ना प्रयुञ्जीत नारायण-पदं वदेत्॥
वरं स्वर्णापहरणं वरं भार्या-परिग्रहः।
वरं राजानुसरणं गृह-स्थ प्रतिवन्दनात्॥
पचन्तम् अपचो दृष्ट्वा ब्रह्म-ज्ञान-युतं शुचिम्॥
प्रत्युत्थानादिकं किञ्चिन् न कुर्याच् च कदाचन॥
सङ्ग्रहे –
यतेः प्रतिनमस्कारं मनसा यो ऽभिवाञ्छति।
श्वान-योनि-शतं प्राप्य कल्पान्तं नरकं व्रजेत्॥
यतिभ्यो वन्दनं पूजां गृह-स्थो यदि वाञ्छति।
चण्डालत्वम् अवाप्नोति मृतो निरयम् आप्नुयात्॥
वारेहे –
एक-हस्त-प्रणामाच् च एकस्माच् च प्रदक्षिणात्।
यतेर् एक-नमस्काराद्धन्ति पुण्यं पुराकृतम्॥
सङ्ग्रहे –
त्रि-दण्ड-धारिणं भिक्षुं नमस्कार-त्रयेण च।
अर्घ्याद्यैस् तोषयेद् विद्वान् ब्रह्म-भावेन सर्वदा॥
अनेक-सप्त-तन्तुर् वा वेद-वेदाङ्ग-पारगः।
यतेर् दर्शन-मात्रेण नमस्कार-त्रयं चरेत्॥
विष्णोर् यतेस् तु मनुना मूलेन महतापि यः।
नमस्कार-त्रयं कुर्याच्छाश्वतीं मुक्तिम् आप्नुयात्॥
श्री-पाञ्च-रात्र-रक्षायाम् –
देवता-प्रतिमां दृष्ट्वा यतिञ् चापि त्रि-दण्डिनम्।
नमस्कारम् अकुर्वाण उपवासेन शुद्ध्यति॥
[[119]]
इदं पातित्यादि-दोष-रहित-विषयम्। तद्-युक्तस्य तु दर्शनस्यैव दोष-स्मरणान् नमस्कारादिकं त्याज्यम् एव। तथा यति-धर्म-समुच्चये –
भूमिर् गावो हिरण्यं वा यतेर् यस्य परिग्रहः।
तादृशं कश्मलं स्पृ(दृ)ष्ट्वा सवासा जलम् आविशेत्॥
यतिर् द्वयेन पतति ब्रह्म-ज्ञान-युतो ऽपि सन्।
धी-पूर्व-रेतोत्सर्गेण तथा धातु-परिग्रहात्॥
यति-हस्त-गतं द्रव्यं यो गृह्णाति नरः क्वचित्।
स मूडो नरकं याति तेन पापेन कर्मणा॥
रात्र्य्-अध्वानञ् च यानन्द-स्त्री-कथा लौल्यम् एव च।
मञ्चकं शुक्ल-वस्त्रञ् च यतीनां पतनं हि षट्॥