११ सन्ध्योपासन-विधिः

पितामहः –

अनागतां तु ये पूर्वमम् अनतीतां तं पश्चिमाम्।
सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणाः स्मृताः॥

योग-यागवल्क्यः –

ब्रह्मणोपास्यते सन्ध्या विष्णुना शङ्करेण च ।
तस्माद् उपासयेद् देवीं श्रेयस्-कामो द्विजोत्तमः॥

सन्ध्या-काल-निरूपणम्

पितामहः –

नक्षत्र-ज्योतिर् आरभ्य सूर्यस्योदय-दर्शनात्।
प्रातस् सन्ध्येति तां प्राहुः श्रुतयो मुनिसत्तमाः॥

सङ्ग्रहे –

उदयात् प्राक्तनी सन्ध्या घटिका-त्रयम् इष्यते।
सायं सन्ध्या त्रि-घटिका अस्ताद् उपरि भास्वतः॥

रहस्याम्नाय ब्राह्मणे –

आसूर्योदयात् पूर्वोत्तराशाभिमुखस् त्व् अपरोत्तराशाभिमुख आ नक्षत्रोदयाद्

इति व्यवस्थाम् आह। दक्षः –

रात्र्य् अन्तयामनाडीद्वे सन्ध्यायाः काल उच्यते।
दर्शनाद् रवि-रेखायास् तदन्तो मुनिभिः स्मृतः॥

तद् एवं प्राग् उदयाद् घटिका-द्वयात्मक-सन्ध्या-काल इति श्रुति-स्मृति-शत-सिद्धत्वात्

[[92]]

तदुहवा एते ब्रह्मावादिनः पूर्वाभिमुखास् सन्ध्यायां गायत्रिया ऽभिमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति [[TODO: परिष्कार्यम्]]

इति विशिष्ट-विधिपरे श्रुति-वाक्ये सन्ध्यायाम् एवार्घ्य-दानादि-श्रुतेः “ऊर्ध्वं त्रिसन्ध्ययोः क्षिपेत्” इति स्मृतेश् च

उदयात् प्राग् एवार्घ्यं देयम्

इति सिद्धम्। एवञ् च सति

उद्यन्तम् अस्तं यन्तम् आदित्यम् अभिध्यायन् कुर्वन् ब्राह्मणो विद्वांत्सकलं भद्रम् अश्नुते॥ अथोपतिष्ठेद् आदित्यम् उदयन्तं दिवाकरम्

इत्यादि श्रुति-स्मृतिभ्यः; उदयो मुख्यम्; उदस्यानन्तरं तु गौणम् इति विवेकः [[??]] र्यनुज्ञाने ऽपि राष्ट्र-क्षोभ-जलालाभाशक्तयो ह्यत्रापि[[??]]धावे ऽपि सर्वदा तद् अनुष्ठाने सन्ध्याति-क्रम-दोषो दुर्वार इत्यलम्।

अत्र श्रुतिः –

ब्रह्मवादिनो वदन्ति॥ [[TODO: परिष्कार्यम्]]

सन्ध्या-शब्दार्थ-निर्णयः

तस्माद् ब्राह्मणो ऽहोरात्र-संयोगे सन्ध्याम् उपास्ते कस्मात् प्रातस् तिष्ठन् ब्राह्मणस् सायम् आसीनस् सन्ध्याम् उपास्ते। का सन्ध्या कश् च सन्ध्या-कालः किञ् च सन्ध्यायस् सन्ध्यात्वं देवाश् चासुराश् चा स्पर्धन्त ते ऽसुरा आदित्यम् अभिद्रवन् आदित्यो ऽभिभेत् तस्य हृदयं कूर्म-रूपेणातिष्ठत्। स प्रजापतिम् उपाधावत्। तस्य प्रजापतिर् एतद्-भेषजम् अपश्यत्। ऋतञ् च सत्यञ् च ब्रह्मचोङ्कारञ् च त्रिपदां गायत्रीं ब्राह्मण-मुखम् उपश्यत् तस्माद् ब्राह्मणो ऽहोरात्र-संयोग-सन्ध्याम् उपास्ते स ज्योतिर् ज्योतिषो दर्शनात् सो ऽस्य सन्ध्या-कालः। सा सन्ध्या तत्-सन्ध्यायास् सन्ध्यात्वं यत्-सायम् उपासीनस् सन्ध्याम् उपास्ते तया वीर-स्थानं जयति यत्-प्रातस् तिष्ठन् स तया स्वर्गं लोकं जयति। अथ यदपः प्रयुङ्क्ते ताविपृषो वज्री भूत्वा असुरान् अपघ्नन्ति

इति। इति सन्ध्या-शब्दार्थ-निर्णयः।

[[93]]

प्रातर्-आदि-सन्ध्या-प्रयोगः

अथ पादौ हस्तौ प्रक्षाल्य द्विर् आचम्य सङ्कल्प्य। अत्र सङ्ग्रहे –

एवं धृतोर्ध्व-पुण्ड्रस् स सन्ध्या-वन्दनम् आचरेत्।
निधाय दक्षिणं पादं जले वामं तथा स्थले॥
अन्तर्-जानु-करश् शुद्धस् सपवित्र-करो द्विजः।
प्राणानायम्य सङ्कल्प्य विलख्यं विलिखेज्जले॥
अग्नि-कोणं विलिख्यान्तश् शक्ति-बीजं लिखेत् ततः।
कोणोपरि लिखेत् तिस्रो व्याहृतीर् अभिमन्त्र्य तत्॥
आपोहिष्ठेति तिसृभिः प्रणवेन स्व-मूर्धनि।
व्याहृतीभिश् च गायत्र्या प्रोक्षयेच्छुद्ध-मानसः॥

जले त्रिकोणं विलिख्य ह्रीङ्कारम् अन्तः कोणेषु प्रणवं दण्डेषु तिस्रो व्याहृतीः प्रागादिक्रमेण विलिख्य प्रणवेन संवेष्ट्य शोषणादिकं कृत्वा अस्त्र-मन्त्रेण रक्षां कृत्वा गायत्र्या त्रिर् अभिमन्त्र्य सुरभि-मुद्रां प्रदर्श्य मूल-मन्त्रेण सप्त-कृत्वो ऽभिमन्त्र्य।

आपोहिष्ठेति मन्त्रस्य सिन्धु-द्वीप ऋषिः। गायत्रीच्छन्दः आपो देवता अं बीजं आं शक्तिः श्वेतो वर्णः प्रोक्षणे विनियोगः।

प्रणवेन प्रथमं ततस् सप्तभिर् व्याहृतिभिस् ततो गायत्र्या तत आपोहिष्ठेत्यादि सप्तभिः -

आपोहिष्ठामयोभुवः। तान ऊर्जे दधातन। महेरणाय चक्षसे। योवश्शिवतमोरसः। तस्य भाजयते हनः। उशतीरिव मातरः। तस्मा अरङ्गमामव [[TODO: परिष्कार्यम्]]

इत्य् एतैर् मन्त्रैः ब्रह्म-तीर्थेनादाय देव-तीर्थेन शिरसि प्रोक्ष्य, “यस्य क्षयाय जिन्वथ” इति पाद-द्वये, “आपो जनयथाचनः” इति पुनश् शिरिसि प्रोक्ष्य “ॐ भूर् भुवस् सुवर्” इत्य् आत्मानं परिषिच्य।

आपोहिष्ठादि-मन्त्राणां व्याख्यास् सन्ति सहस्रशः।
त्रय्य्-अन्तार्थानुसारेण व्याख्यानं क्रियते मया॥

[[94]]

आपोहिष्ठादि-मन्त्राणां पञ्चरात्रादि-सच्चास्त्रेषु परमात्मा नारायण इत्य् अभिधानाद् अत्रत्य देवता-शब्दास् सर्वे परमात्मनो नारायणस्यैव वाचकाः, अतो ऽन्यपरतया प्रतीयमानानाम् अपि शब्दानां नाम-रूप-व्याकरण-श्रुत्या परमात्म-परत्वं वेदान्तेषु निर्णीतम्।

आपोहिष्ठादि-मन्त्राणाम् अर्थः

“आपो हिष्टा मयो भुवः” - हे आपः यूयं मयो भुवः स्थाहि, सर्वस्य प्राणि-जातस्य मयो हि सुखं, सुख-भूमयो हि; “यद्वै शिवं तन्मयः” इति। “ता न ऊर्जे दधातन” - एवं सुख-भूमित्वात्, ताः - यूयम्, नः - आस्माकं, उर्जे, ऊर्जम् अन्नं, दधातन - ददत, “दधातन” इति दधतेर्दानवाचिनो लोट् परस्मैपदं मध्यम-पुरुष-बहु-वचनम्। “महे रणाय चक्षसे” - महे - महते, रणाय- रमणीयाय, चक्षसे - चक्षुषे, “अस्मद्-उक्तान्न-प्रार्थनं किमर्थम्” इत्य् अक्षायाम् “इन्द्रिय-प्रकाशन-सिद्ध्यर्थम्” इति गम्यते; इन्द्रियाणाम् अन्नेन हि महत्त्वं रमणीयत्वञ् च। यद्य् अप्य् अन्न-मयं हि सोम्यं मन इत्य् अन्नस्य मनः पोषकत्वम् एव, तथाप्य् अत्रान्न-शब्देन इन्द्रिय-पोषका विषया उपलक्ष्यन्ते॥ “योवश् शिवतमो रसः”, शिवतमः - पुण्यतमः, संसार-भेषज-भूतो रस-विशेषः, तस्य भाजयत - तं रसं सेवयत, यद्वा रस-शब्दः परमात्म-परः

रसो वै सः॥ रसग् ह्येवायं लब्ध्वानन्दी भवति [[TODO: परिष्कार्यम्]]

इति श्रुतेः। “उशतीर् इव मातरः” - उशतीः - स्नेह-युक्ताः, मातरः स्व-दारकान् स्तन्येव पोषयन्ति तद्वत् यूयम् अस्मान् स्व-शेष-भूतान् युष्मदीय-रस-विशेषेण पोषयत इति भावः। तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ - हे अपः यूयं, यस्य रसस्य, क्षयाय - निवासाय, जिन्वथ - प्रीताभवत, स्वानुभवोपि ब्रह्मणः प्रियतम एव। तस्मात्; तस्मै - तस्य रसस्य सिद्ध्यर्थं, अरं - अलं, पर्याप्तिं, गमाम-गच्छेम,

[[95]]

यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद् विजानाति स भूम [[TODO: परिष्कार्यम्]]

इति श्रुतेः ॥ “आपो जनयथाचनः” - हे आपः! नः - आस्माकं पूर्वोक्तं रसं दत्त्वा, अस्मान्, जनयथ, वयञ् च तेनैव रसेन जाताः स्मः नान्यथा, ब्रह्म-विद्यात एव हि सज्-जन्म सत्ता च जीवस्य,

स हि विद्यातस् तं जनयति १६
तच्छ्रेष्ठं जन्म १७

अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुरिति

इत्यादिकम् अत्र भाव्यम्। अत्राप्-शब्देन परमात्माभिधीयते, बहुवचनैर् उक्तिस् तु शब्द-साधुत्वाय, “दाराःकलत्रम्” इत्यादिवत्। एतैः प्रोक्ष्य॥

सूर्यश्चेत्य् अनुवाकस्य अग्नि ऋषिः गायत्री छन्दः सूर्यो देवता। सुं बीजं दिं शक्तिः श्वेतो वर्णः अन्तः करण शुद्ध्यर्थे अपां प्राशने विनियोगः,

सूर्यश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः। पापेभ्यो रक्षन्ताम्। यद्रात्र्यापापमकार्षम्। मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना। रात्रिस्तदवलुम्पतु यत्किञ्च दुरितं मयि। इदमहं माममृतयोनौ सूर्येज्योतिषि जुहोमि स्वाहा॥ [[TODO: परिष्कार्यम्]]

सूर्यश्चेति मन्त्रस्यार्थः

“सुष्टु ईरयति प्रेरयती"ति सूर्यः परमात्मा। मन्युः क्रोधः, मन्यु-पतयो - रागादयः, एते सर्वे, मा - मां, मन्यु-कृतेभ्यः पापेभ्यो रक्षन्ताम् - अत्र मन्यु-शब्देन रागादयो लक्ष्यन्ते तन्मूलत्वात् सर्व-पापानाम् रात्र्या - रात्र्यां, मनसा वाचा हस्ताभ्यां पद्म्याम् उदरेण शिश्ना - शिश्नेन, यत्-पापम् अकार्षं तत्-पापं, रात्रिर् - भगवान्, अवलुम्पतु - नाशयतु, रा दाने त्रैङ् रक्षणे; यत् किञ्च दुरितं मयि - प्रारब्ध-रूपं वर्तते तद् अपि नाशयतु, तत्-पुरुषानुगुण्येन प्रारब्धं कर्म-मानसिद्धम्। ननु साधनानुष्ठानम् अन्तरेण कथम् एवं प्रति-बन्धक-निवृत्तिर् इति शङ्कायाम् अनुष्ठान-प्रकारम् आह - अहम् इत्य् आदिना - अहं - अनन्यगतित्वाकिञ्चन्यादियुक्तः, अमृत-योनौ - मोक्ष-कारण-भूते ज्योतिषि - निरुपाधिक-ज्योती-रूपे, सूर्ये - परमात्मनि,मां जुहोमि - आत्मानं भगवत्-पादयोस् समर्पयामीत्य् अर्थः। स्वाहेति समर्पण-मन्त्रः। जगत्-कारण-भूते मोक्ष-प्रदे भगवति न्यस्त-भरस्य समस्त-प्रति-बन्धक-निवृत्ति-पूर्वकं स्वानुभवं प्रयच्छति भगवान् इति हृदयम्। इति जलं प्राश्य सकृद् आचम्य ॥

[[96]]

दधिक्रावण्ण इति मन्त्रस्य वामदेव ऋषिः अनुष्टुप्-छन्दः विश्वेदेवा दधिक्रावावा देवता; निं बीजं मं शक्तिः श्वेतो वर्णः प्रोक्षणे विनियोगः।

दधिक्रावण्णो अकारिषम्। जिष्णोर् अश्वस्य वाजिनः। सुरभिनो मुखाकरत्। प्रण आयूँषितारिषत्॥ [[TODO: परिष्कार्यम्]]

दधिक्रावण्णेत्यादि-मन्त्राणां व्याख्या

“दधत् जगत् क्रामती"ति दधिक्रावा परमात्मा, “दधिक्रावण्ण” इति षष्ठ्य् एक-वचनम्। जिष्णोः - जय-शीलस्य, अश्वस्य - सर्व-लोक-व्याप्तस्य। वाजिनो - वेगवतः, अकारिषं - स्तुतिं कुर्याम्, सुरभिनो मुखाकरत् - स च दधिक्रावा, नः - अस्माकं मुखा - मुखानि, सुरभि - सुरभीणि, करत् - कुर्यात्, अत्र मुख-शब्देन मन उपलक्ष्यते। प्रण आयूँषितारिषत् - नः - अस्माकं, आयूंषि,प्रतारिषत् - प्रकृष्टानि निरुपद्रवाणि कुर्यात्, “व्यवहिताश् चे"ति प्रशब्दस्य उत्तरत्रान्वयः।

इति “आपोहिष्ठे”ति च प्रोक्ष्य प्राणानायम्य

अर्घ्य-प्रदान-मन्त्रस्य ब्रह्मा ऋषिः गायत्री-छन्दः सूर्यो देवता। णिं बीजं यं शक्तिः नः प्रचोदयात् कीलकं अर्घ्य-प्रदाने विनियोगः। ॐ तत्-सवितुः ब्रह्मात्मने आं हृदयाय नमः। वरेण्यं विष्ण्व् आत्मने ईं शिरसे स्वाहा। भर्गो देवस्य रुद्रात्मने उं शिखायै वौषट्। धीमहि सत्यात्मने ऐं कवचाय हुम्। धीयोयोनः विश्व् आत्मने ॐ नेत्राभ्यां वौषट्। प्रचोदयात् प्रकाशात्मने आः अस्त्राय फट्॥

ध्यानम् -

वेद-सारं परं ज्योतिर् मूल-भूतं परात्परम्।
मूले ब्रह्मा च विष्णुश् च मूल-भूतं सदाशिवोम्॥
हृदि स्थं सर्व-लोकस्य मण्डलान्तर् व्यवस्थितम्।
चिन्तयन् परमात्मानं अप ऊर्ध्वं विनिक्षिपेत्॥

एवं ध्यात्वा।

[[97]]

द्रुपदादिवेति मन्त्रस्य गो-कुल-राज-पुत्र ऋषिः अनुष्टुप्-छन्दः द्रुपदा देवता मम पाप-पुरुष-निरसने विनियोगः॥

“द्रुपदे"ति जलम् आदाय आघ्राय वाम-भागे कूले विसृज्य पुनर् जलम् आदाय द्वौ पादौ जले समौ कृत्वा तर्जन्य्-अङ्गुष्ट-संयोग-वर्जं गायत्र्या अर्घ्य-त्रयं दत्त्वा प्राणानायम्य -

यदद्यकच्चेत्यस्य[[??]] मन्त्रस्य सूर्यो ऋषिः गायत्री-छन्दः सूर्यो देवता। प्रायश्चित्तार्घ्ये विनियोगः॥

यदद्यकच्च वृत्रहन्नुदगा अभिसूर्यो (सर्वं) तदिन्द्रतेवशे [[TODO: परिष्कार्यम्]]

इति प्रातः प्रायश्चित्तार्घ्यं दत्त्वा। मध्याह्ने

उत्खेदेत्यस्य मन्त्रस्य हुताशन ऋषि, अनुष्टुप्-छन्दः, हुताशनो देवता॥

उत्खेदभिशृता मघवन् वृषभं नर्यापसम्॥ अस्तारमेति सूर्यस्य हँसश्शुचिषत् [[TODO: परिष्कार्यम्]]

सायाह्ने -

न तस्येत्यस्य मन्त्रस्य वैवस्वत-विश्वमान ऋषि उप्लिक्-छन्दः अग्निर् देवता।

न तस्यमायया च न पुरीशितमर्थ्यः। यो अग्नये ददाश हव्यदातिभिः [[TODO: परिष्कार्यम्]]

एवम् अर्घ्यं दत्त्वा

अस्त्रोपसंहारं कृत्वा

ॐ ऋग्-वेदाय ब्रह्मणे स्वाहा यजुर्-वेदाय विष्णवे स्वाहा साम-वेदाय रुद्राय स्वाहा अथर्वण-वेदाय नमः इतिहास-पुराणाभ्यां नमः अग्नये नमः विष्णवे नमः इन्द्राय नमः

[[98]]

अर्घ्य-प्रदानास्त्रोप-संहार-क्रम-प्रतिपादनम्

अस्त्रोप-संहार-मन्त्रस्य ब्रह्म-भार्गव ऋषिः गायत्री-च्छदः त्रि-मूर्तिर् देवता। ऐं बीजं क्लीं शक्तिः सौं कीलकं अस्त्रोप-संहारे विनियोगः। ॐ अघोरास्त्राय नमः। इन्द्राय नमः। स-शार्ङ्गाय शिरसे स्वाहा। स-शराय शिखायै वौषट्। सास्त्राय कवचाय हुुम् । स-नाराचाय नेत्राभ्यां वौषट्। हुं फट् स्वाहा। अस्त्राय फट्।

अञ्जलिं बध्वा।

परमात्मानम् आत्मानं भावयित्वा द्विजोत्तमः।
आत्मानम् आत्मना ध्यात्वा आत्मानम् उपसंहरेत्॥
आमूलं ब्रह्म-रन्द्रान्तं कोटि-सूर्य-समप्रभम्।
मनसा वायु-रोधेन पश्येद् आत्मा निन्तरम्॥
सो ऽहम् अग्निर् अहं ज्योतिर् अर्क-ज्योतिर् अहं शिवः।
आत्म-ज्योतिर् अहं शुक्लस् स्वर्व-ज्योतिर् असाव् अहम्[[??]]॥

दोंवसा सेजर रोप। त्यादचोप्र नोयोयोधि हिमधी स्यवदे र्गोभ यंणिरेर्वतुवित्सत
वःस्सुवर्भुभूरोम्।

[[सम्पादक-टिप्पनी - स-चतुर्थ-पादो गायत्रीमन्त्रो विपरीतक्रमेण]], यथापेक्षम् परिष्करोतु ।

अवाय व्यावायव्या ॐ औग्वायव्यावायव्यया[[??]] [[TODO: परिष्कार्यम्]]

इति च जपित्वा

प्रातः

हरोऽसि पाप्मानं मे विद्धि । ॐ ऐं सूर्याय नम [[TODO: परिष्कार्यम्]]

इति योनि-मुद्रां प्रदर्श्य। मध्याह्ने

उद्वर्गोऽसि पाप्मानं मे विद्धि ॐ क्लीं सूर्याय नमः॥ [[TODO: परिष्कार्यम्]]

सायाह्ने

संसर्गोऽसि पाप्मानं मे विद्धि ॐ सौं सूर्याय नमः॥ [[TODO: परिष्कार्यम्]]

अथाञ्जलिं बध्वा

हिरण्य-गर्भः + विधेम [[TODO: परिष्कार्यम्]]

इति जपित्वा ! मध्याह्ने - “हँ सश्शुचिषदि"ति जपित्वा॥

उत्तिष्ठ देवि गन्तव्यं पुनर् आगमनाय च।
प्रसीद देवि तुष्टा त्वं प्रविश्य हृदयं मम॥

इति जपित्वा जलं स्पृष्ट्वा पाणिना हृदयमालध्य जलाद् उत्थितां गायत्रीं श्रीं स्व-हृदयं प्रविष्टां ध्यात्वा॥

[[99]]

असावादित्येति मन्त्रस्य ब्रह्मा ऋषिः गायत्री-छन्दः आदित्यो देवता प्रदक्षिणे विनियोगः। प्रदक्षिणं कृत्वा ऽऽचम्य केशवादि-द्वादश-तर्पणं कृत्वा पुनर् आचामेत्।

तथा श्री-पाञ्च-रात्र-रक्षायां

“अथ सन्ध्यायाम् अर्घ्य-त्रयं दत्त्वा प्रदक्षिणं प्रक्रम्य[[??]] मार्ग-शीर्षादि-मासेशान्[[??]] तत्-तन्-मन्त्रेण तर्पयित्वा

इति। मार्ग-शीर्षादि-मासेशाः केशवादयः, यद् वा ज्योतिषे -

कृष्णो ऽनन्तो ऽच्युतश् चक्री वैकुण्ठो ऽथ जनार्दनः।
उपन्द्रो यज्ञ-पुरुषो वासुदेवस् तथा हरिः॥
योगीशः पुण्डरीकाक्षो मास-नामान्य् अनुक्रमात्॥

अनुक्रमात् - मार्ग-शीर्ष-मासाद्य् अनुक्रमाद् इत्य् अर्थः। हारीतः –

द्वादशैव तु मासास् तु केशवाद्यैर् अधिष्ठिताः।
आरभ्य मार्ग-शीर्षं तु यथा-सङ्ख्यं द्विजोत्तमः॥

तथैव वसिष्ठः –

चैत्रादि-द्वादशैर् मासैर् मूर्तिभिर् द्वादशैर् युतम्।
आरभ्य मार्ग-शीर्षं तु केशवाद्यैर् अधिष्ठितम्॥

स्मृत्य्-अर्थ-सारे –

भूमिष्ठम् उदकं स्पृष्ट्वा प्रसव्येन करेण तु।
मार्जनाद्याचरेद् विद्वान् सन्ध्या-कर्मसु सर्वदा॥

चन्द्रिकायाम् –

जानुभ्याम् उपरिष्टात् तु शुष्क-वासाः स्थितो जले।
सन्ध्याम् आचमनं कुर्वन् शुचिस् स्याद् अशुचिस् तु यः॥

तथा -

जानु-मात्रे तद्-ऊर्ध्वं वा जले तिष्ठन् शुचिर् भवेत्॥
वाम-हस्ते जलं कृत्वा ये तु सन्ध्याम् उपासते।
सा सन्ध्या-वृषली-ज्ञेया असुरास् तेन तर्पिताः॥

इतीदं वचनं मृण्मयादि पात्र-विषयम्;

सन्ध्यां तीर्थे हृदेवा ऽपि भाजने कांस्य-सम्भवे।
औदुम्बरे ऽथ सौवर्णे राजते दारु-सम्भवे॥
कृत्वा तु वाम-हस्ते वा सन्ध्योपास्तिं समाचरेत्॥

इति ब्राह्मण-स्मरणात्; सङ्ग्रहे –

द्वौ पादौ तु समौ कृत्वा पूरयेद् उदकाञ्जलिम्।
गो-शृङ्ग-मात्रम् उद्धृत्य जल-मध्ये जलं क्षिपेत्॥

[[100]]

रत्नाकरे –

राष्ट्र-क्षोभे नृपाक्षिप्ते रोगार्ते शाव-सूतके॥
सन्ध्या-वन्दन-विच्छित्तिर् न दोषाय कदाचन॥

सूतकादौ सन्ध्या-विधिः

पुलस्त्यः –

सूतके मृतके चैव सन्ध्या-कर्म न सन्त्यजेत्।
मनसोच्चारयेन् मन्त्रान् प्राणायामम् ऋते द्विजः॥
अर्घ्यं तु प्रक्षिपेद् वाचा पञ्च-यज्ञांस् तु वर्जयेत्।
सन्ध्याम् इष्टिं चरुं होमं यावज्जीवं समाचरेत्।
न त्यजेत् सूतके वा ऽपि त्यजन् गच्छेद् अधो द्विजः॥

भगवत्-सेवा-समये सन्ध्यातिक्रमे दोषाभावः

श्री-वाराहे भगवत्-सेवा-समये सन्ध्यातिक्रमे दोषाभावः कथितः।

यस्मिन् काले विशालाक्षी यस्य यत्-कर्म चोदितम्।
तत्-काले कर्म तत् त्यक्त्वा माम् उपास्ते नरो यदि॥
न दोषस् तत्र देवेश भवत्य् एव न संशयः॥ रथ्याङ्ग ते च देवेशे आस्थानं चास्थिते सति।
मध्ये सन्ध्याम् अनुप्राप्तां दृष्ट्वा वेदार्थ मोहिताः॥
सन्ध्योपास्ति प्रकुर्वन्ति विप्रा विष्णु-पराङ्मुखाः।
श्वान-योनि-शतं प्राप्य चाण्डालीं योनिम् आप्नुयुः॥

सन्ध्या-कालातिक्रम-प्रायश्चित्तम्

बोधायनः॥

तत्र सायम् अतिक्रमे रात्र्य् उपवासः प्रातर् अतिक्रमे अहर् उपवास

इतीदम् अबुद्धि-पूर्व-विषयम्। बुद्धि-पूर्वे तु

वेदोदितानां कृत्यानां कर्मणां समतिक्रमे।
स्नातक-व्रत-लोपे च प्रायश्चित्तम् अभोजनम्

इति मनूक्त-दिनोपवासः कार्यः। रत्नाकरे –

अर्घ्य-प्रदानतः पूर्वम् उदये ऽस्तम ये ऽपि वा।
गायत्र्य् अष्ट-शतं जप्यं प्रायश्चित्तं द्विजातिभिः

इति तद्-उपवासाशक्त-विषयम्। ततश् च - सन्ध्या-वन्दन-हानौ तु॥ “संध्याम् आपदि नोपास्त” इति प्रजापति-संवर्ताद्य्-उक्ताष्ट-सहस्र-जपश् चिर-कालापद्विषय इति मन्तव्यः। मासातिक्रमे कृच्छ्रादिकार्यम्।

[[101]]

जप-विधिः

मनुः –

पूर्वां[[??]] सन्ध्यां जपन् तिष्ठेत् सावित्रीम् आर्क- दर्शनात्।
पश्चिमां तु समासीनस् सम्यग् ऋक्ष-विभावनात्॥
पूर्वां सन्ध्यां जपन् तिष्ठेन्नैशम् एनो व्यपोहति।
पश्चिमां तु समासीनो मलं हन्ति दिवा कृतम्॥
न तु तिष्ठेत यः पूर्वां नोपासीतेति पश्चिमाम्।
स शूद्रवद् बहिष्कार्यस् सर्वस्माद् द्विज-कर्मणः॥

योग-याज्ञवल्क्यः –

जपन्नासीत गायत्रीं प्रत्यगातारकोदयात्।
सन्ध्यां प्राक् प्रातर् एवं हि तिष्ठन् नासूर्य-दर्शनात्॥

‘आसूर्य-दर्शना’दिति स्मरणाद् उदयानन्तरम् आसीने न जपः कार्य इति न भ्रमितव्यम्। तादृश-वचनाभावात्; किञ्च स्मृत्यन्तरे विशेषः –

तथा मध्यम-सन्ध्यायाम् आसीनः प्राङ्मुखो जपेत्।
स्थितो जपेत् सदा-कालम् आदित्याभिमुखो द्विजः॥

जपे पुनर् आदित्याभिमुखश् चेत् सदा-कालम् - प्रातर् मध्याह्नेन्तरा च सर्वस्मिन् काले, स्थित एव गायत्रीं जपेद् इत्य् अर्थः।

प्राणायाम-विधिः

मनु –

दह्यन्ते ध्मायमानानां धातूनां हि यथा-मलाः।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात्॥

कर्म-दीपे –

देवार्चने जपे होमे स्वाध्याये श्राद्ध-कर्मणि।
स्नाने दाने तथा ध्याने प्राणायामास् त्रयस् त्रयः॥
आदाव् अन्ते च गायत्र्याः प्राणायामास् त्रयस् त्रयः।
सन्ध्यायाम् अर्घ्य-दाने च प्राणायामैक उच्यते॥
अङ्गुष्ठानामिकाभ्यान् तु तथैव च कनिष्ठया।
प्राणायामस् तु कर्तव्यो मध्यमां तर्जनीं विना॥
तर्जनी-मध्ययोर् योगं प्राणायामे तु वर्जयेत्।
तर्जनीं मध्यमां स्पृष्ट्वा जपन् शूद्र-समो भवेत्॥

[[102]]

अखण्डादर्शे –

प्रातस् तिष्ठन् प्राणायामेन शुद्ध्यति सायम् आसीनः प्राणायामेन शुद्ध्यति

इति। आतो ऽत्र प्राणायामास् तिष्ठतैव कर्तव्याः। *नारदीये –

अगर्भश् च स-गर्भश् च द्वितीयस् तु तथोर्वरः।
अभिध्यानं विना गर्भस् स-गर्भस् तत् समन्वितः॥

योग-याज्ञवल्क्यः –

शनैर्न नासा-पुटे वायुम् उत्सृजेन् न तु वेगतः।
न कम्पयेच्छरीरन् तु सयोगी परमो मतः॥
इडया वायुम् आपूर्य बाह्यं द्वादश-मात्रकम्।
पूरयित्वोदरं तेन नासाग्र-नयन-द्वयः॥
ध्यायन् विरेचयेत् पश्चान् मन्दं पिङ्गलया पुनः॥

व्यासः –

नाभि-पद्म-स्थितं ध्यायेज् जरेत् तं पूरणेन तु।
नीलोत्पलाभं हृत्-पद्मे कुंभकेन जनार्दनम्॥
ललाट-स्थं शिवं श्वेतं रेचकेनापि चिन्तयेत्॥

याज्ञ-वल्क्यः –

भूर् भुवस् सुवर् महर् जनस् तपस् सत्यं तथेति च।
प्रत्य् ओङ्कार-समायुक्तास् तथा तत्-सवितुः परम्।
ओम् अपो ज्योतिर् इत्येतच्छिरः पश्चात् प्रयोजयेत्॥
त्रिर् आवर्तन-योगात् तु प्राणायामस् तु शब्दितः॥

संवर्तः –

प्रणवेन च संयुक्त-व्याहृतीस् सप्त नित्यशः।
गायत्रीं शिरसा सार्धं मनसा त्रिः पठेद् द्विजः॥

सङ्ग्रहे –

दश-प्रणव-संयुक्तां सप्त-व्याहृति-पूर्विकाम्।
गायत्रीं शिरसा सार्थं मनसा त्रिर् जपेद् द्विजः॥

भरद्वाजः –

समाहित-मनाः प्राणान् आयम्यैव तद्-आकृतिम्।
जपित्वैवं दश-कृत्वः प्राग् गायत्रीं ततो जपेत्॥
जप-क्रमो ऽयम् एव स्यात् सर्व-पाप-प्रणाशः॥

तद्-आकृतिम् - कुम्भक-जपोक्त-रूपाम्। स्मृत्य्-अन्तरे च –

सप्त-व्याहृति-संयुक्तां गायत्रीं शिरसा सह।
दश-वारं जपित्वैव गायत्रीं तु ततो जपेत्॥

[[103]]

भरद्वाजः –

आयात्व् इत्य् अनुवाकेन हृदये वार्क-मण्डले।
देवीम् आवाह्य गायत्रीं ततो ध्यायेद् द्विजोत्तमः॥

पितामहः –

सविता देवता यस्य मुखम् अग्निस् त्रिपात् तथा [[??]]।
विश्वामित्र ऋषिश् छन्दो गायत्री सा विशिष्यते॥

अत्र सविता - परमात्मा, परब्रह्म-शब्द-पर्यायत्वान् न देवता-भेद-भ्रमः कार्यः। अत्र श्रुतिः -

सयश्चायं पुरुषे। यश्चासावादित्ये। स एकः। नारायणः परं ब्रह्म-तत्त्वं नारायणः परः। नारायण परोज्योतिर् आत्मा नारायणः परः॥ [[TODO: परिष्कार्यम्]]

अतो ऽत्र सवितृ-शब्द-वाच्यो विष्णुर् एव। तथा पराशरः –

परमात्मा च सर्वेषाम् आधारः परमेश्वरः।
विष्णु-नामा स वेदेषु वेदान्तेषु च गीयते॥

जप-प्रयोगः

अत्रानुष्ठान-प्रकारस् तु - अथ पाणिना जलम् आदाय प्रणव-व्याहृतिभिर् जप-प्रदेशं प्रोक्ष्य शोषणादिभिर् विशोध्य प्राग् उदङ्मुखस् तिष्ठन्

प्रणवस्य ऋषिर् ब्रह्मा देवी गायत्री छन्दः परमात्मा देवता। शुद्ध-स्पटिको वर्णः सर्व-तत्त्वं तत्त्वं प्राणायामे विनियोगः।

अस्य पितामहः काल-भेदेन देवता-भेदम् आह -

प्रणवस्य ऋषिर् ब्रह्मा देवताग्निस् त्रयी[[??]] त्रिपात्।
छन्दस् तु देवी गायत्री जपादौ विनियुज्यते॥
जप-काले त्रयी-देवो होम-काले हुताशनः।
ध्यान-काले परं ब्रह्म विश्वेदेवास् ततो ऽन्यदा॥

विष्णुं भास्वत्-किरीटाङ्गद-वलय-गला-कल्प-हारोदराङ्घ्रि-
श्रोणी-भूषा-सु-वक्षो-मणि-मकुट-महा-कुण्डलैर् मण्डिताङ्गम्।
हस्तोद्यच्छङ्ख-चक्राम्बु-ज-गदम् अमलं पीत-कौशेय (वीतं) (वासं)
विद्योतद्भासम् उद्यद्दिन-कर-सदृशं पद्म-संस्थं नमामि

इति ध्यात्वा॥

[[104]]

जप्यमन्त्राणां ऋष्यादयः

भूर् आदि-सप्त-व्याहृतीनां अत्रि-भृगु-कुत्स-वसिष्ठ-गौतम-काश्यपाङ्गीरसा ऋषयः गायत्र्य्-उत्ष्णिग्-अनुष्टुप्-बृहती-पङ्ग्ति-त्रिष्टुब्-जगत्यश् छन्दांसि। अग्नि-वाय्व्-अर्क-वागीश-वरुणेन्द्र-विश्वेदेवा देवताः। खं घं चं छं यं तं क्षं बीजानि, ब्राह्मी-स्वाहा-भवानी-नित्या-विलासिनी-प्रभावती-लोलाश् शक्तयः। षड्ज-ऋषभ-गान्धार-मध्यम-पञ्चम-दैवत-निषादा स्वराः, श्वेत-श्याम-पीत-पिशङ्ग-नील-लोहित-नील-कनकानि वर्णाः, प्राणायाम-प्रयोगे विनियोगः॥

न्यासः –

पादयोर् जङ्घयोर् जान्वोस् तथैव जठरे ऽपि च।
कर्ण-मूले मुखे मूर्ध्नि क्रमेण व्याहाृतीर् न्यसेत्॥

एवं पादादि-मूर्धान्तं व्याहृति-न्यास-मुद्रां प्रदर्श्य

पद्म-मुद्रा सौरभेयी शङ्ख-मुद्रा वराह कौ।
वासुदेवात्म-संविच् च सप्त-व्याहृति-मुद्रिकाः॥
स्व-स्वोक्त वर्ण-तनवो रूप-यौवन-संयुताः।
क्षौम-वस्त्र-परीधानास् सर्वाभरण-भूषिताः॥
दिव्य-चन्दन-लिप्ताङ्गा दिव्य-माल्यैर् अलङ्कृताः।
सितोपवीत-हृदयास् सपवित्र-चतुष्कराः॥
उन्निद्र-वदनाम्भोज-प्रभा-मण्डल-मण्डिताः।
जटा-कलाप-पूर्णेन्दु-प्रभा-पूरित-दिङ्मुखाः॥
अभयाक्षत-स्रग्-अप्-पात्र-वर-हस्त-सरोरुहाः।
एवं होम-जपारम्भे ध्येया व्याहृतयो द्विजैः

इति ध्यात्वा॥

गायत्र्या ऋषिर् विश्वामित्रः देवी गायत्री-छन्दः सविता देवता॥ शुद्ध-स्फटिको वर्णः, सर्व-तत्त्वं तत्त्वं, प्राणायामे विनियोगः।

न्यासः –

ॐ तत्-सवितुर् ब्रह्मात्मने हृदयाय नम

इत्यादि षडङ्ग-न्यासः;

मुक्ता-विद्रुम-हेम-नील-धवलच्छायैर् मुखैस् त्रीक्षणैर्
युक्ता मिन्दु-कला-निबद्ध-मकुटां तत्वार्थ-वर्णात्मिकाम्।
गायत्रीं वरदा-भयाङ्कुश-कशां शुभ्रं कपालं गुणं
शङ्खं चक्रम् अथारविन्द-युगलं हस्तैर् न हन्तीं भजे।

इति ध्यात्वा॥

[[105]]

सावित्री शिरसो ब्रह्मा ऋषिः अनुष्टुप्-छन्दः परमात्मा देवता, शुद्ध-स्फटिको वर्णः सर्व-तत्त्वं तत्त्वं प्राणायामे विनियोगः॥

इदं गायत्री-शिरः उभाभ्यां हस्ताभ्यां सर्वाङ्गे व्यापकं न्यस्य, उक्त-प्रकारेण प्राणायाम-त्रयं कृत्वा, कुम्भकोक्त-प्रकारेण दशवारं जपित्वा, पुनस् सकृत् प्राणानायम्य॥

आयात्व् इत्य् अनुवाकस्य वामदेव ऋषिः अनुष्टुब्जगती-छन्दः गायत्री देवता, आवाहने विनियोगः, गायत्र्या ऋषिः विश्वामित्रः देवी गायत्री-छन्दः सविता देवता; अग्नि-मुखा रुद्र-शिखा विष्णु-हृदया ब्रह्म-कवचा साङ्ख्यायन-गायत्री-जपे विनियोगः।

मन्त्र-न्यासादयः

अथ न्यासः –

प्रथमं तु कर-न्यासं देह-न्यासम् अतः परम्।
अङ्ग-न्यासं ततः प्रोक्तम् एतन् न्यास-त्रयं क्रमात्॥

तत्र पूर्व-मन्त्रेण कर-शुद्धिं कृत्वा प्रणवेन करयोर् व्यापकं न्यस्य॥ तत्-प्रकारं भरद्वाज आह -

प्रकोष्ठयोर् बहिः पाण्योस् तलयोस् तल-पृष्ठयोः।
तलयोर् मध्यमे विप्रः केवलं प्रणवं न्यसेत्॥

एवं न्यस्य,

ॐ भूः अङ्गुष्ठाभ्यां नमः। ॐ भुवः तर्जनीभ्यां नमः। ॐ सुवः मध्यमाभ्यां नमः। ॐ तत्-सवितुर् वरेण्यं अनामिकाभ्यां नमः। ॐ भर्गो देवस्य धीमही कनिष्ठिकाभ्यां नमः। ॐ धीयो यो नः प्रचोदयात् कर-तल-कर-पृष्ठाभ्यां नमः।

गायत्र्या शरीरे व्यापक-न्यासं कृत्वा॥

ॐ भूः हृदयाय नमः, ॐ भुवः शिरसे स्वाहा, ॐ सुवः शिखायै वौषट्, ॐ तत्-सवितुर् वरेण्यं कवचाय हुं, ओ भर्गो देवस्य धीमहि नेत्र-त्रयाय वौषट्। ॐ धीयो यो नः प्रचोदयात् अस्त्राय फट्।

अत्र व्यासः –

अङ्गुलीभिश् चतसृभिर् द्वयोर् हृदय-शीर्षयोः।
मुष्टिकाङ्गुष्ठ-शिरसा पश्चिमे तस्य वर्मणः॥
बहिः कराभ्यां दृक्-फाल-मध्ये मध्याङ्गुलैस् त्रिभिः।
अङ्गुष्ठ-तर्जन्य् अग्राभ्यां स शब्दं दिक्षु पार्श्वयोः॥
षडङ्ग-न्यासम् इत्य् उक्तम् इदम् एतत्-प्रकारतः॥

[[106]]

चन्द्रिकायाम् –

अङ्गुष्ठे चैव गोविन्दं तर्जन्यां (मधु-सूदनम्) तु मही-धरम्।
मध्यमायां हृषीकेशम् अनामायां त्रिविक्रमम्॥
कनिष्ठायां न्यसेद् विष्णुं कर-मध्ये तु माधवम्।
यत्कृतञ् च हुतं जप्तं दत्तम् इष्टं विशेषतः॥
हस्त-न्यास-प्रभावेन सर्वं भवति चाक्षयम्॥

गोविन्दाय अङ्गुष्ठाभ्यां नमः, मधुसूदनाय तर्जनीभ्यां नमः, हृषीकेशाय मध्यमाभ्यां नमः, त्रिविक्रमाय अनामिकाभ्यां नमः, विष्णवे कनिष्ठिकाभ्यां नमः, माधवाय कर-तल-कर-पृष्ठाभ्यां नमः;

एवं हस्त-न्यासं कृत्वा॥

चतुर्विंशति-मुद्राः

सुमुखं सम्पुटं चैव विवृतं विस्तृतं तथा।
द्वि-मुखं त्रि-मुखञ् चैव चतुः पञ्च-मुखं तथा॥
षण्-मुखाधोमुखे चैव व्यापकाञ्जलिके तथा।
शकटं यम-पाशञ् च ग्रथितं सम्मुखोन्मुखे।
प्रलम्बं (विलम्बं) मुष्टिकञ् चैव मत्स्यं कूर्म-वराहकौ।
सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा॥
एते मुद्राश् चतुर्-विंशा गायत्र्यां सुप्रतिष्ठिताः।
यदि मुद्रां न जानाति सर्वं तन्-निष्फलं भवेत्॥

मुद्राणाङ् गोप्यत्व-वर्णनञ्च

अत्र महा-जन-समागमे विशेषः –

न जातु दर्शयेन् मुद्रां महा-जन-समागमे।
बिभ्यन्ति देवतास् तस्य विफलञ् च कृतं भवेत्॥
एवं विन्यस्य गायत्रीम् आवाह्य च यथा-विधि।
ध्यात्वोपचारं सकलं कृत्वाथो जपम् आचरेत्॥

एवं षड्-अङ्ग-न्यासम् उक्त्वा अनन्तरं जप-विधानान् नित्य-जपे पुनर् एतावद् एव कार्यम् इति गम्यते। फलाधिक्यापेक्षायां शक्तस्याक्षर-न्यासादयः कार्याः।

[[107]]

गायत्री-ध्यानम्

अथ ध्यानम्;

प्रातर् भजामि गायत्रीं रक्त-पद्मासने स्थिताम्।
रक्ताम्बरां रक्त-वर्णां रक्त-माल्यानुलेपनाम्॥
कौमारीं ब्रह्म-दैवत्यां चतुर्-वक्त्रां चतुर्-भुजाम्।
उदाहरन्तीं ऋग्-वेदं द्वि-नेत्रां हंस-वाहनाम्॥
यष्टिं कमण्डलुञ् चापि स्रुक्-स्रुवाव् अक्षि-मालिकाम्।
बिभ्रन्तीं ब्रह्म-कवचां चतुर्-विंशतिकाक्षराम्॥
अग्नि-मुखीं रुद्र-शिखां श्री-विष्णु-हृदयां शुभाम्।
अकार-मूर्तिकां देवीं सर्वाभरण-भूषिताम्॥

इति ध्यात्वा

तुर्य-गायत्री-विधिश्च

सर्षि-छन्दो-दैवतं तुरीय-पदं न्यस्य; तुरीय-गायत्र्याः अथर्व-पुत्रो विमल ऋषिः। तुरीय-गायत्री-छदः परमात्मा देवता। तस्याष्टाव् एवाक्षराणि चत्वारि पदानि मां प्रापयत्व् इत्य् एताभ्यां सह षट्-पदानीति षड्-अङ्गानि स्युः॥

योनि-मुद्रा सौरभेयी महा-योनिस् तथैव च।
सुरभ्यजा लिङ्ग-मुद्रा महा-मुद्रा नमस् क्रिया॥

ध्यानम् –

यद्देवासुर-पूजितारुण-निभं सामात्य-तारा-गणैः
पुन्नागाम्बुज-नाग-पुष्प-वकुलैर् वास्यैस् सुरैर् अर्पितः। नित्य-ध्यान-समस्त-योग-करणं कालाग्नि-रुद्रोपमं
तत्-संहार-हरं नमामि सततं पाताल-षष्ठं मुखम्॥

इति ध्यात्वा तुरीय-पदं जपित्वा तेन गायत्रीम् उपस्थायाभिमुखी कृत्य तां मानसैर् उपचारैर् अभ्यर्च्य साहम् इति ध्यात्वा गायत्र्य् अर्थम् अनुसन्धाय तथा

ऋषि छन्दो देवताश् च ध्यात्वा मन्त्रार्थम् एव च। अनुष्ठानं ततः कुर्याद्

इति पितामह-वचनात् “जपस्यानन्तरं व्याख्या-स्मर्तव्ये"ति भरद्वाज-वचनाच् च जपाद्यन्तयोर् गायत्र्य् अर्थो ऽनुसन्धेयः। अथ सर्षि-छन्दो-देवताकं मूल-मन्त्रं न्यस्य आदित्य-मण्डले स्वाराध्यं ध्यात्वा उपचारैर् अभ्यर्च्य मूल-मन्त्र-शिरस्कां गायत्रीं जपेत्। तत्र जप-समये दश-वारं गायत्री-जपस्यैकैक-वारं तुर्यं जप्तव्यम्। तुर्य-पादम् उपदेश-लभ्यम्।

[[108]]

प्रणवादीनां व्याख्या

अथ प्रणवादीनां व्याख्यानम्, तत्र प्रणव अकार उकार मकारात्मकः, तत्र अकारः

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृति-लीनस्य यः परस् स महेश्वरः [[TODO: परिष्कार्यम्]]

इति श्रुत्या भगवद्-वाचकः, “अकारो विष्णु-वाचक” इति नियमात्; अत्रत्य-महेश्वर-शब्दो योग-वृत्त्या विष्णु-वाचकः ‘अवरक्षण’ इति धातोर् व्युत्पन्नत्वाद् रक्षण-वाचकः। ‘अकारो वै सर्वावाक्’ इति सर्व-वाचक-कारणत्वाभिधानात् सर्व-वाच्य-कारणम् एव वदतीति कारण-वाचकोयम् अकारः, कारणत्वोपयुक्ता ज्ञान-शक्त्यादयः रक्षकत्वोपयुक्ता वात्सल्यादयश् च अत्रोपलक्ष्यन्ते॥

उकारो लक्ष्मी-वाचकः, अवधारण-वाचकोवा;

तदेवाग्निस् तद्-वायुस् तत्-सूर्यस् तदुचन्द्रमा [[TODO: परिष्कार्यम्]]

इति एव कारस्य स्थाने उकारस्य प्रयोगात्; पञ्च-विंशत्य् अक्षरो मकारः चतुर्-विंशति-तत्वात्मक-प्रधानाद् व्यतिरिक्तं जीवात्मानम् आह - ‘मन अवबोधन’ इति धातोर् व्युत्पन्नस्य मकारस्य ज्ञान-गुणकत्वञ् चार्थः; अयम् अर्थः - मकार-वाच्यो जीवः अकार-वाच्याय नारायणायैव शेष-भूत इति चतुर्थी-लोपो द्रष्टव्यः, आन्यथा

ब्रह्मणेत्वामहस ओमित्यात्मानं युञ्जीत [[TODO: परिष्कार्यम्]]

इति श्रुति-विरोधः।

सप्त-व्याहृतयः क्रमेण भूर् आदि-लोकानां वाचकाः - अथ गायत्री-व्याख्या – अत्र विश्वामित्रः –

देवस्य सवितुस् तस्य धीयो योनः प्रचोदयात्।
भर्गो वरेण्यं तद्-ब्रह्म धीमहीत्य् अर्थ उच्यते॥

अगस्त्यः –

यो देवस् सविता ऽस्माकं धियो धर्मादि-गोचराः।
प्रेरयेत् तस्य यद् भर्गस् तद् वरेण्यम् उपास्महे॥

अनयोर् वचनयोर् भर्गश् शब्दस् तेजः परत्वेन व्याख्यातः; तथा वरद-राजीये नित्य-मन्त्र-व्याख्याने च।

[[109]]

तच्छब्द-श्रुतेर् यच्छब्दो ऽध्याहार्यः; सवितुर् जगतां प्रसवितुः,

सविता वै प्रसवानामीशे। उतशिषे प्रसवस्यत्वमेक [[TODO: परिष्कार्यम्]]

इति श्रुतेः; वरेणीयं - वृणु सम्भक्तौह्य प्रत्ययः। सर्वेषां प्रार्थनीयं, यद् भर्गस् तेजः, भञ्जनाद् भर्गः - प्रकाश-प्रदानेन जगतो बाह्यान्तरतमोभञ्जनत्वात्, भर्जनाद्वा - कालात्मकतया सकल-कर्म-फल-हेतुत्वात्, भरणाद्वा - वृष्टि-दानेन भूतानां भरण-हेतुत्वात् , देवस्य - द्योतमानस्य धीमहीति चिन्तायाम्; देवस्य सवितुर् वरेण्यं यद् भर्गः तद् ध्यायामि - आदित्य-मण्डलान्तर्वर्तिनं परम-पुरुषम् अनुचिन्तयामः,

य एषोन्तरादित्ये हिरण्मयः पुरुषः। अथ य एष एतस्मिन्मण्डले ऽर्चिषि पुरुषः॥ सवितृ-मण्डल-मध्यवर्ती हिरण्मयः [[TODO: परिष्कार्यम्]]

इत्यादि श्रुतेः, ध्येयो यस् सविता, सः - अस्माकं धियः - हानोपादान-विषयाणि ज्ञानानि, प्रचोदयात् - प्रेरयेत्, प्रेरयत्व् इति वा; तस्य सवितुस् तद् भर्गश् चिन्तयाम इति मन्त्र-दीपिकायाम् -

देवस्य सवितुस् तेजो वरेण्यं भर्ग-सञ्ज्ञितम्।
ध्यायेमहीति शब्दोक्तौ धीमहीत्य् अर्थ उच्यते॥
यच्छब्दश् च यदित्य् उक्ते लिङ्ग-व्यत्ययतो भवेत्॥

अथ शिरसः = ओम् इत्य् अनेन परमात्मोच्यते; “ओमित्येकाक्षरं ब्रह्मे”ति वचनात्; पूर्वं व्यस्तस्य प्रणवस्यार्थ उक्तः, अत्र तु समस्तस्य; आपो ज्योतिर् इति पञ्च-भूतानां तत्वान्तराणां चोपलक्षणम् - एतत् सर्वं ब्रह्मेत्य् अर्थः। एतत् सर्वं तत्त्वं ब्रह्मात्मकत्वेनानुसन्धेयम् इति यावत्। अद्यन्तयोः प्रणवयोः ब्रह्मण्य् एव लयः, तस्माद् एवोत्पत्तिर् इति ज्ञापनार्थः। पूर्वं पणवेन जीवस्य भगवच्छेषत्वम् उक्तम्। एवं चेतनाचेतनात्मक-प्रपञ्च-विशिष्टस्य परमात्मन उपासनं गायत्र्या प्रतिपाद्यते।

[[110]]

अथ तुरीयस्य = रजस इति पञ्चम्य् एक-वचने चतुर्थी; अनेन त्रि-गुणात्मिका प्रकृतिर् उच्यते, तस्याः परस् सकल-कारणावस्थायाः प्रकृतेः पर इत्य् अर्थः। ॐ प्रणव-वाच्यः परमात्मा, सावत् – शोभनं मां प्रापयत्व् इति पद-द्वयाध्याहारेण योजना।

आयात्व् इत्यादि = वरदा = समाश्रितानाम् अभीष्ट-फल-प्रदायिनी, देवी - ब्रह्मात्मिका मातृकात्मिका वा, आयातु - अस्मद् अनुग्रहार्थम् आयातु, कीदृशी - अक्षरं ब्रह्म-सम्मितम् - न क्षरतीत्य् अक्षरं, नित्येत्य् अर्थः। ब्रह्म-सम्मितम्, ब्रह्म - वेदः, तत्-सम्मितम् - तत्-तुल्येत्य् अर्थः। सर्व-वेद-तुल्यत्वं सर्व-वेदान्त-सारत्वं गायत्र्याः स्मृतिषु पठ्यते। अत्र लिङ्ग-व्यत्ययश् छान्दसः; गायत्रीम् - प्रथमार्थे द्वितीया, सा ही देवी, छन्दसां – वेदानां, माता, सः - अस्माकं, इदं ब्रह्म - स्तोत्र-रूपं, जुषस्व - गृहाण, ओजोसि - हे देवि इन्द्रियाणां शक्तिर् असि, सहोसि - वेगवतां वेगो ऽसि, बलम् असि - बलवतां बलम् असि, बलं - भरण-सामर्थ्यं, भ्राजः - प्रकाशः, प्रकाशवतां प्रकाशो ऽसि, नामेती प्रसिद्धौ, देवानां प्रसिद्धं धामासि, विश्वम् असि - सर्वम् असि, यद्वा; विश्वं - विष्णुः, विष्णुवत् सर्व-क्रमण-शीलासि, विश्वायुश् - चतुर्-विध-भूत-जातस्य आयुर्-वर्धन-शीलासि, सर्वम् असि सर्वायुः - सर्वेषाम् अनुरक्तानां वस्तूनां निर्वाहिकासि, काल-विशेषावस्थो ऽपि का च; अभिभूः - सर्व-दुरिताभिभावनी, एवम् अक्षरम् इत्यादिना या देवी बहुधा स्तुता ताम् आहूतां गायत्रीं “ओम् इति मन्त्रेणावाहयामि”, “ॐ कार-रूपाम् आवाहयामि"ति वा; इयं देवी गायत्त्र्य् अधिष्ठातृ-देवता; गायत्री-प्रतिपाद्यस् तु परमात्मा नारायण एवेति पूर्वम् एवोक्तम्।

[[111]]

जप-नियमाः

आचम्य प्रयतो नित्यम् उभे सन्ध्ये समाहितः।
शुचौ देशे जपं जप्यम् उपासीत यथा-विधि॥
एतद्-अक्षरम् एताञ् च जपन् व्याहृति-पूर्विकाम्।
सन्ध्ययोर् वेद-विद् विप्रो वेद-पुण्येन युज्यते॥

एतद् अक्षरं - प्रणवः, एतां - गायत्रीं, व्यासः –

प्रणव-व्याहृति-युतां गायत्रीं तु ततो जपेत्॥

एवं मनु-व्यासाभ्याम् उक्तो जप-प्रकारो गृह-स्थ-विषय एव; तथान्यत्र –

प्रणव-व्याहृतीस् तिस्रो गायत्रीञ् च जपेत् क्रमात्॥

क्रमाद् इति क्रम-नियमाच् च, ब्रह्म-चारि-गृह-स्थयोर् एक-प्रणवैव गायत्री ग्राह्या। अत्र स्मृति-सार-समुच्चये –

सम्पुटैका षड्-ओङ्कारा गायत्री त्रि-विधामता।
तत्रैक-प्रणवा ग्राह्या गृह-स्थैर् जप-कर्मणि॥
सम्पुटा च षड्-ओङ्कारा यतीनाम् ऊर्ध्व-रेतसाम्।
गृह-स्थवत् तु जप्तव्या गायत्री ब्रह्म-चारिभिः॥

योग-याज्ञवल्क्यः –

ॐ कारं पूर्वम् उच्चार्य भूर् भुवस् सुव एव च।
गायत्रीं प्रणवञ् चान्ते जप एवम् उदाहृतः॥
एषा सम्पुट-गायत्री सर्व-पाप-प्रणाशिनी॥

मनुः –

तिस्रो व्याहृतयः पूर्वं पृथग् ओङ्कार-संयुताः।
पुनस् संहृत्य चोङ्कारं मन्त्रस्याद्य् अन्तयोस् तथा॥
एतया ज्ञातया नित्यं वाङ्मयं विदितं भवेत्।
उपासितं भवेत् तेन विश्वं भुवन-सप्तकम्॥

एतया - त्रि-रूपया गायत्त्र्या। शौनकः –

कृत्वोत्तानौ करौ प्रातस् सायञ् चाधोमुखौ करौ॥

(आश्वमेधिके –

तस्माद् अष्टाक्षरं मन्त्रं मद्-भक्तैर् वीत-कल्मषैः।
सन्ध्या-काले तु जप्तव्यं सततञ् चात्म-शुद्धये॥
अन्येषाम् अपि विप्राणां किल्बिषं हि प्रणश्यति।
उभे सन्ध्ये ऽप्य् उपासीत तस्माद् विप्रो विशुद्धये॥)
मध्ये स्कन्द-भुजाभ्यान् तु जप एवम् उदाहृतः॥

[[112]]

रत्नाकरे –

अङ्गुलीर् न वियुज्येत किञ्चिद् आकुञ्चिते तले।
अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः॥

स्मृत्यन्तरे – रत्नाकरे –

अधो-हस्तस् तु पैशाचो मध्य-हस्तस् तु राक्षसः।
बद्ध-हस्तस् तु गान्धर्व ऊर्ध्व-हस्तस् तु दैवतम्॥

अतस् स्कन्ध-भुजयोर् मध्ये करौ कृत्वा जपः कार्य इत्य् अर्थः। ब्रह्मा –

मनः प्रह्लादनं शौचं मानं मन्त्रार्थ-चिन्तनम्।
अव्यग्रत्वम् अनिर्वेदो जप-सम्पत्ति-हेतवः॥

भरद्वाजः –

निष्ठीवं जृम्भणं क्रोधं निद्रालस्य-क्षुधा-मदाः।
पतित-श्वान्त्यजा लोका दशैते जप-वैरिणः॥

व्यासः –

न प्रक्रमन् न च हसन् न पार्श्वम् अवलोकयन्।
नापाश्रितो न जल्पंश् च न प्रावृत-शिरास् तथा॥
न पदा पदम् आक्रम्य न चैव हि तथा करौ।
न चा समाहितमना न च संश्रावयन् जपेत्॥

अपाश्रितः - स्तम्भाद्य् आश्रितः।

होमः प्रतिग्रहो दानं भोजनाचमने जपः।
बहीर्-जानु न कार्याणि साङ्गुष्ठानि सदा चरेत्॥

नारदः –

श्व-शूद्र-पतितांश् चैव राज-सभञ् च रजस्वलाम्।
दृष्ट्वा तोयम् उपस्पृश्य भाष्य स्नात्वा पुनर् जपेत्॥

चन्द्रिकायां –

जप-काले न भाषेत व्रत-होमादिकेषु च।
एतेष्व् एवावसक्तन् तु यद्य् आगच्छेद् द्विजोत्तमः॥
अभिवाद्य ततो विप्रं योग-क्षेमञ् च कीर्तयेत्।
धावतस् तिष्ठतश् चैव स्वेच्छया कर्म कुर्वतः॥
सङ्ख्याञ् चैवोपवीतेन जप-होमादि निष्फलम्॥

तिष्ठत इति गायत्री-व्यतिरिक्त-विषयम्। यत् त्व् इदं मानवं अर्द्र-वासास् तु यः कुर्याज्जप-होमौ प्रतिग्रहम्।

सर्वं तद्-राक्षसं विद्यात् बहिर्-जानु च यत् कृतम्॥

एतत् स्थल-विषयम्।

यदि स्यात् क्लिन्न-वासा वै वारि-मध्य-गतो जपेत्।
अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहित

इति व्यास-स्मरणात्।

[[113]]

यत् तु गोबिलोक्तम्[[??]] –

मतीमान् न कदाचित् तु गायत्रीम् उदके जपेत्।
गायत्र्य् अग्नि-मुखी प्रोक्ता तस्माद् उत्तीर्य तां जपेत्॥

इतीदं सर्वदा जले गायत्री-जप-निषेध-परः अतो व्यास-वचनम् आपद्-विषयम्।

शाण्डिल्यः –

प्रदक्षिणे प्रणामे च पूजायां हवने जपे।
न कण्ठावृत-वस्त्रस् स्याद् दर्शने-गुरु-देवयोः॥
आचार्यम् एक-भुक्तञ् च भगवन्-मन्दिरे ऽञ्जलिम्।
अश्वत्थम् अग्निम् अर्कञ् च पृष्ठीकृत्य जपेन् न तु॥

योग-याज्ञ-वल्क्यः

गृहे त्व् एक-गुणं प्रोक्तं नद्य् आदौ द्वि-गुणं भवेत्।
गवां गोष्ठे दश-गुणम् अग्न्य्-आगारे शताधिकम्॥
सिद्ध-क्षेत्रेषु तीर्थेषु देवता-वास्तु-सन्निधौ।
सहस्र-शत-कोटिस् स्याद् अनन्तं विष्णु-सन्निधौ॥

नारदः –

जपस्य गणानां प्राहुः पद्माक्षेर् भक्ति-वर्धनम्।
जपे तु तुलसी-काष्ठैः फलम् अक्षयम् उच्यते॥
अथाङ्गुलीभिर् एवापि जपम् अन्वहम् आचरेत्॥
प्रारभ्यानामिका यास् तु मध्यमे पर्वणि क्रमात्।
तर्जनी-मूल-पर्यन्तं जपेद् दशसु पर्वसु॥
मध्यमाङ्गुलि-मूलेन यत्-पर्व-द्वितीयं भवेत्।
तं वै मेरुं विजानीयाज्जपै तन् नाति लङ्घयेत्॥

पितामहाः –

अच्छिन्न-पादागायत्री ब्रह्म-हत्यां प्रयच्छति।
छिन्न-पादा तु गायत्री ब्रह्म-हत्यां व्यपोहति॥

संवर्तः –

गृहस्थो ब्रह्म-चारी च शतम् अष्टोत्तरं जपेत्।
वान-प्रस्थो यतिश् चैव जपेद् अष्ट-सहस्रकम्॥

अष्टोत्तर-सहस्रम् इत्य् अर्थः। योग-याज्ञ-वल्क्यः –

सहस्र-कृत्वस् सावित्रीं जपेद् अव्यग्र-मानसः।
शत-कृत्वो ऽपि वा सम्यक्प्राणायामवरो यदि॥
सप्त-व्याहृति-पूर्वाञ् चेद् आद्य्-अन्त-प्रणवान्विताम्।
मनसा तु जपेच् चैव दश-कृत्वो वरस् स्मृतः॥

सहस्र-जपवत् साङ्गाष्टोत्तर-शत-जपवच् च सप्त-व्याहृति-पूर्वां शिरसा-युक्तां गायत्रीं जपेद् यदि एष दश-कृत्वो ऽपि जपो मुख्य इत्य् अर्थः। एवं विकल्पः काल-शक्त्याद्य्-अपेक्षया दृष्टव्यः। तथा बोधायनः –

अशक्तस्य प्राणायामेन शत-कृतः प्रणव-व्याहृति-सम्भेद-विशेषेण दश-कृत्वो वा गायत्री-जपस् सहस्र-साम्यो भवेद्

इति।

[[114]]

अथ जपानन्तरं व्याख्याम् अनुसन्धाय त्रिः प्राणानायम्य अष्टौ मुद्राः प्रदर्श्य –

सुरभिं ज्ञान-योनी च मत्स्य-सम्भार-पङ्कजौ।
लिङ्ग-निर्याण-मुद्रे च अष्टौ मुद्राः प्रकीर्तिताः॥

उत्तमेति गायत्रीम् उद्वास्य॥ अत्र पितामहः –

एवं जप्त्वा यथा-शक्ति-सूदिते तु दिवाकरे।
उत्तमेत्य् अनुवाकेन उद्वास्य तु यथा-क्रमम्॥

उत्तम इत्य् अनुवाकस्य वामदेव ऋषिः अनुष्टुप्-छन्दः गायत्री देवता उद्वासने विनियोगः॥

अथ तुरीयम् उपस्थाय

एकपदी द्विपदी त्रिपदी चतुष्पद्यपद नहि पद्यसे नमस्तेस्तु तुरीयाय दर्शिताय पदाय [[TODO: परिष्कार्यम्]]

इत्य् अन्ते तुरीय-पादम् उक्त्वा ‘मा प्राप’दितिवदेत्। मित्रस्येत्यादिना गायत्रीम् उपस्थाय -

मित्रस्यत्यादेर् उपस्थानार्थ-मन्त्रस्य विश्वामित्र ऋषिः गायत्री त्रिष्टुप्-छन्दः मित्रो देवता उपस्थाने विनियोगः

सन्ध्याद्या नमस्कृत्य प्रदक्षिणं प्रक्रम्य अभिवाद्य पुनः प्राच्यादि-दिशो नमस्कृत्य प्रदक्षिणञ् च प्रक्रम्य ‘ध्येयस्सदे’ति रवि-मध्ये भगवन्तं ध्यात्वा ‘शङ्ख-चक्रे’ति प्रार्थ्य दण्डवत् प्रणम्य ‘तद्विष्णो’रित्य् आत्मानं भगवति समर्प्य पुनर् अप्य् अभिवादयेत्। अत्र पितामहः –

परमात्मानम् आत्मानं भावयित्वा द्विजोत्तमः।
आत्मानम् आत्मना ध्यात्वा ह्य् आत्मन्ये नोपसंहरेत्॥

आत्मानं - स्वं, आत्मना - मनसा, आत्मनि - परमात्मनि, उपसंहरेत् - समर्पयेत्। तथा व्यासः –

निवेदयत चात्मानं विष्णाव् अमल-तेजसि।
तद्-आत्मा तन्-मनाश्-शान्तस् तद्विष्णोर् इति मन्त्रतः॥

[[115]]

भरद्वाजः –

कर्ण-युग्मं स्व-हस्ताभ्यां स्पृष्ट्वा जानु-द्वयादिकम्। चरणाङ्गुष्ठ-पर्यन्तं सम्मृज्य तु शनैश् शनैः॥
दक्ष-शोत्र-समं बाहुं दक्षिणं प्रसार्य च।
बाहूपरिशीरोनम्र मुक्तं तदभिवादनम्॥
इत्य् एतद्-भाषणं यत् तत् मन्त्रं स्याद् अभिवादने॥

स्मृत्य्-अर्थ-सारे –

सावित्र्य्-आदि-क्रियास् सर्वा आदित्याभिमुखश् चरेत्।
जप-स्थानान् न निर्गच्छेद् देवता-सन्निधौ क्वचित्॥
प्रदक्षिण-नमस्कारान् न कुर्याद् देवतालये॥

जपोपस्थानम्

हारीतः –

आर्द्र-वासा जले कुर्यात् तर्पणाचमने जपम्।
उपस्थाने च निर्गच्छेद् वर्जयेत् तु प्रदक्षिणम्॥

उत्तम-इत्यादीनां व्याख्यानम्

अथ उत्तम-इत्यादीनां व्याख्यानम्।

हे देवि भूम्यां पर्वत-मूर्धनि उत्तमे शिखरे च, ब्राह्मणेभ्यो ह्य् अनुज्ञानं - ब्राह्मणान् अनुज्ञाय, अनुगृह्य, भूम्यादिषु यत्र पूर्वस्थासि, यथा सुखं - यथा गतं, तत्र गच्छ।

मित्रस्येत्य् अस्य; मित्रः - त्राता, तस्य भगवतः, चर्षणी शब्देन ज्ञानवन्त उच्यन्ते, चर्षणीनां धर्ता धृत् तस्य चर्षणी धृतः देवस्य - क्रीडायत्तस्य भगवतः श्रूयत इति श्रवो यशः, सानसिं - सम्यक् नमस्कार्यं, सत्यं - कालान्तरे ऽपि नाश-रहितं, चित्र-श्रवस्तमं - आश्चर्य-चेष्टानुबन्धितया श्राव्यतमं, भगवतो यशस् स्तौमीत्य् अध्याहृतेन वाक्य-पूरणम्। मित्रो - भगवान्, जनान् प्रजानन् - पूर्व-कर्म प्रकर्षेण जानन् सन्, तद् अनुसारेण उत्तरत्र कर्मसु, यातयति - योजयति, प्रेरयतीत्य् अर्थः। मीत्रो दाधार पृथिवीम् उतद्यां - पृथिवीं द्याञ् च मित्रः खलु दाधार, मित्रः कृष्टीर् अनिमिषाभिचष्टे - कृष्टीः - प्रजाः, अनिमिषा - बुद्धस् सन्, मित्र एव अभिचष्टे - प्रकाशयति,

[[116]]

सत्याय हव्यं घृतवद् विधेम। सत्याय - विकाराय भगवते, घृत-मिश्रम् अन्नं विधेम, घृतवद् इति कायकी-वृत्तिः श्रवस् तौमीति वाचिकी-वृत्तिर् उक्ता। मित्रो जना नित्यादिना तद्गुणानुसन्धाने मानसी-वृत्तिः। एवं करण-त्रयस्यापि साफल्यम् आपादितम्। प्रसमित्रेत्यादि - प्र सः - मित्रः मर्तः - अस्तु - प्रयस्वान् - यः - ते - आदित्य - शिक्षति - व्रतेन इति पचच्छेदः। हे मित्र - आदित्य, योमर्तः - मर्त्यः, प्रतेनयुक्तः, भगवन्तम् अनाराध्य न भक्ष्य इति नियमेन युक्तः, ते - तुभ्यं, शिक्षति - अन्नादिना उपचरतीत्य् अर्थः, प्र - प्रकर्षेण, प्रयस्वान् - पयः - अन्नम्, अन्नादि-सम्पद्य् उक्तः अस्तु - भूयादित्य् अर्थः। यस् तु भगवदाराधनम् अकृत्वा न भोक्ष्य इति नियम-युक्तः करोति तस्य भगवान् पुरुषोत्तमः प्रकृष्टम् अन्नं ब्रह्मानुभवं प्रयच्छतीति हृदयम्। “अहम् अन्नम् अन्नम् अदन्तम् अद्मी” ति श्रुतेः। भगवद्-आराधनस्य अतिक्षुद्रान्नमात्र-फल-कल्पना च नात्यन्तम् उपपन्नम्। न हन्यते न जीयते त्वोतः - त्वा - त्वया, सम्यग् आराधन- प्रीतेन, उतः - रक्षितः, केनापि जन्तुना न हन्यते न जीयते - शब्दादिभिर् जेतुं न शश्यते, अनेन यावद्ब्रह्म-प्राप्ति आध्यात्मिकादि-दुःखेभ्यो भगवान् रक्षतीति भावः, नैनं अँ हो अश्नोत्यन्तितो न दूरात् - अंहः - पापं, दूरस्थं वान्तिकस्थं वा नाप्नोतीत्य् अर्थः।