१० तुलसी-पद्माक्ष-मणि-मालिका-धारणम्

नारदीये –

कण्ठे तु धारयेद् यस् तु तुलसीं सततं नरः।
तत्-काष्ठं वा ऽपि राजेन्द्र तस्य नास्त्य् उपपातकम्॥

पुराणे –

शान्तये पुष्टये मुक्त्त्यै तुलसी-काष्ठ-जो मणिः।
सर्व-सिद्धि-प्रदः पाद्मो-मणिर् धार्यः श्रियै बुधैः॥
तुलसी-काष्ठ-मालां वै पद्माक्ष-मणि-मालिकाम्।
कण्ठादि-नाभि-पर्यन्तं धारयेद् वैष्णवोत्तमुः॥
अष्टोत्तर-शतं मालां मानेन स्कन्ध-लम्बिताम्।
तुलसी-पद्म-मणिभिर् धारयेद् उपवीतवत्॥

विष्णु-मन्दिरे –

धारयन्ति पवित्राणि ये भक्ताः श्रद्धया ऽन्विताः।
ते हि निर्धूत पाप्मानो मोदन्ते दीवि देववत्॥