०९ ऊर्ध्व-पुण्ड्र-विधिः

इदं शृति-स्मृति-शत-सिद्धम्। आत्र तावन्महोपनिषदि –

धृतोर्ध्र-पुण्ड्रः पकमिशितारं नारायणं
साङ्ख्य-योगाभिगम्यम्।
ज्ञात्वा विमुच्येत नरस् समस्तैस्
संसारपाशैर् इह चेति विष्णुम्॥

कठ-शाखायाम् –

धृतोर्ध्व-पुण्ड्रः कृत-चक्र-धारी
विष्णुं परं ध्यायति यो महात्मा।
स्वरेण मन्त्रेण हृदि स्थितेन
परात्परं यन्महतो महान्तम्॥

अथर्वणे –

हरेः पादाकृतिम् आत्मनो हिताय मध्ये च्छिद्रम् ऊर्ध्व-पुङ्क्रं यो धारयति स परस्य प्रियो भवति स पुण्यभाग् भवति स विष्णुुं भजति।

नासादि-केश-पर्यन्तम् ऊर्ध्व-पुण्ड्रं धारयेत्।
तस्माद् द्वि-रेखं भवति तं देवकी-पुत्रस् समाश्रितः॥

ब्रह्माण्डे –

गृह-स्थो ब्रह्म-चारी च वानप्रस्थस् तथा यतिः।
अवश्यं धारयेत् पुण्यं ऊर्ध्व-पुण्ड्रं सुशोभनम्॥

ब्रह्माण्डे पञ्च-मृत्तिकां भगवान् आह –

पर्वताग्रे नदी-तीरे मम क्षेत्रे विशेषतः।
सिन्धु-तीरे च वल्मीके तुलसी-मूल-संश्रिते॥
मृद एतास् तु सङ्ग्राह्या वर्ज्याश् चान्यत्र मृत्तिकाः॥

पञ्चस्व् अपि मम क्षेत्रे इत्य् अन्वयः।

अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमा ऽऽयुष्करी भवेत्।
अनामिका ऽन्नदा नित्यं मुक्तिदा च प्रदेशिनी॥
एतैर् अङ्गुलि-भेदैस् तु कारयेन् न नखं स्पृशेत्॥

हारीतः –

त्रि-पुण्ड्र-धारणाद् विप्रः पतत्य् एव न संशयः॥

[[87]]

श्री-पराशर-धर्म-शास्त्रे उत्तर-खण्डे चतुर्दशे ऽध्याये –

कपाल केश-भस्मास्थि-शुक्ति-पाषाण-धारिणम्।
त्रि-पुण्ड्र-धारिणं विप्रं चण्डालम् इव सन्त्यजेत्॥

पाद्मे उत्तर-खण्डे एक-त्रिंशाध्याये –

ललाटे केशवं ध्यायेन् नारायणम् अथोदरे।
वक्षस्-स्थले माधवं तु गोविन्दं कंठ-कूबरे॥
विष्णुञ् च दक्षिणे कुक्षौ बाहुके मधुसूदनम्।
त्रिविक्रमं स्कन्ध-देशे वामनं वाम-पार्श्वके॥
श्री-धरं बाहु-मध्ये तु हृषीकेशं तु तद्-भुजे।
पृष्ठे तु पद्मनाभञ्च त्रिके दामोदरं न्यसेत्॥
तत्-प्रक्षालन तोयेन वासुदेवञ् च मूर्धनि।
ललाटे भुज-युग्मे तु पृष्ठयोः कण्ठ-कूबरे॥
धारयेद् ऊर्ध्व-पुण्ड्राणि च तुरङ्गुलम् आयतम्।
कुक्षौ तत्-पार्श्वयोः प्रोक्तम् आयतन् तु दशाङ्गुलम्॥
बाह्वोर् वक्ष-स्थले पुण्ड्रम् अष्टाङ्गुलम् उदाहृतम्।
एवं द्वादश-पुण्ड्राणि ब्राह्मणस् सततं धरेत्॥
तत्-तत्-पुण्ड्रे तु तन्-मूर्तिं ध्यात्वा मन्त्रेण धारयेत्।
अन्तरालेषु सर्वेषु हरिद्रां धारयेच्छ्रियम्॥
चत्वारि भू-भुजां प्रोक्तं पुण्ड्रौ द्वौ तु विशां स्मृतम्।
एक-पुण्ड्रं तु नारीणां शूद्राणाञ् च विधीयते॥
ललाटे हृदि बाह्वोश् च चतुः पुण्ड्राणि धारयेत्।
ललाटे हृदये द्वे तु फालेत्व् एकं विधीयते॥
ऊर्ध्व-पुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम्।
ललाटादि-क्रमेणैव धारणन् तु विधीयते॥
मूर्तयो वासुदेवाद्याश् चतुः पुण्ड्रेषु धारयेत्।
द्वौ च गोविन्द-कृष्णौ तु एकं नारायणं धरेत्॥
एवं पुण्ड्र-विधिः प्रोक्तस् सर्वेषां गिरि-जे मया।
अश्वत्थ-पत्र-सङ्काशं वेणु-पत्राकृतिं तथा॥
पद्म-कुट्मल-सङ्काशं मोहनं त्रितयं स्मृतम्।
महा-भागवत-शुद्धः पुड्रं हरि-पदाकृति॥
दण्डाकारन् तु वा देवि धारयेद् ऊर्ध्व-पुण्ड्रकम्॥

[[88]]

सच्-चरित्र-रक्षायाम् –

द्व्य्-अङ्गुलं त्र्य्-अङ्गुलं वा ऽपि सान्तरालं प्रकल्पयेत्।
पार्श्वौ वाङ्गुलि-मात्रौ तु ऊर्ध्व-पुण्ड्रस्य लक्षणम्॥

भरद्वाज-संहितायाम् –

ऊर्ध्व-पुड्रान्तरालस्थान् चक्रादीन् धारयेत् सदा।
बहिष्कृता ह्य् अतिक्रुद्धाः पापात् प्रच्यावयन्ति ते॥
प्रातर् मध्यन्दिने सायम् ऊर्ध्व-पुण्ड्रन् तु केशवः।
अकृतैर् वा ऽपि सुकृतैस् तैस् तैः प्रीणाति कर्मभिः॥
प्रभाते दिव्य-लोकस्थं मध्याह्ने चार्क-मध्यगम्।
तोषयत्य् ऊर्ध्व-पुण्ड्रेण सायं स्वात्म-गतं हरिम्॥

ऊर्ध्व-पुण्ड्रान्तराले हरिद्रा-धारण-विधिः

सच्-चरित्र-रक्षायाम्-

ऊर्ध्व-पुण्ड्रेषु सर्वेषु हरिद्रां धारयेच्छुभाम्।
अभिषिक्तं तु यच्-चूर्णं विष्णु-बिम्बे तु यो नरः॥
हारिद्रं धारयेद्यस् तु सो ऽश्व-मेध-फलं लभेत्॥

संङ्ग्रहे –

ऊर्ध्व-पुण्ड्रस्यान्तराले हरिद्रां यो न धारयेत्।
स वैष्णवो ललाटे तु श्रियं मां च व्यपोहति॥

हारीतः –

श्रीर् लक्ष्मीः कमला पद्मा पद्मिनी कमलालया।
रमा वृषाकपी धन्या वृद्धिर् यज्ञा तथेन्दिरा॥
शक्तयः केशवादीनां सम्प्रोक्ताः परमे पदे।

ब्रह्मरात्रे –

श्री-देवी-प्रथमं नाम द्वितीयम् अमृतोद्भवा।
तृतीयं कमला-प्रोक्ता चतुर्थं शान्त-शोभिनी॥
पञ्चमं विष्णु-पत्नी च षष्ठन् तु वैष्णवी तथा।
सप्तमं तु वरारोहा अष्टमं हरि-वल्लभा॥
नवमं शार्ङ्गिणी-प्रोक्तं दशमं देव-देवकी।
एकादशं महा-लक्ष्मीः द्वादशं सुर-सुन्दरी॥

तत्रैव –

न सुवर्णादिभिः कार्यं दारुभिर् मृद्भिर् एव वा।
नालिकेर-फलेनैव चषकं पुण्ड्र-धारणे॥
नालिकेरार्ध-भागेन कमठाकृतिना बुधः।
द्वि-नेत्रेणैव कुर्वीत पात्रं वै पुण्ड्र-धारणे॥
आदाय वैष्णवं दारु कृत्वा कूर्माकृतिं नरः।
दिग्-गजान् अथ शेषञ् च तस्योपरि यथा-क्रमम्॥
तत्र पात्रञ् च विन्यस्य ऊर्ध्व-पुण्ड्राणि धारयेत्।
कृत्वा करण्डं बिल्वस्य
फलं पक्व-मनोहरम्॥
हारिद्रं पूरयेच्चूर्णं
लक्ष्मी-रूपम् अनुत्तमम्।
फलाद् अन्यत्र बिल्वस्य
यच्चूर्णं पूरयेच् छ्रियः॥
अवैष्णवस् स विज्ञेयस्
तं कुप्यति हरि-प्रिया॥

[[89]]

उर्ध्व-पुण्ड्र-मृद्-घर्षण-मन्त्रस्य आदिवराह ऋषिः अनुष्टुप्-छन्दः श्री-भूमिर् देवता। अकारो बीजं यकारश् शक्तिः ऊर्ध्व-पुण्ड्र-मृद्-घर्षणार्थे विनियोगः॥

ऊर्ध्व-पुण्ड्र-मिश्र-प्राण-प्रतिष्ठा-मन्त्रस्य प्रजा-पति ऋषिः गायत्री-छन्दः श्री-नृ-सिंहो देवता। क्षं बीजं उकारश् शक्तिः ऊर्ध्व-पुण्ड्र-मिश्र-प्राण-प्रतिष्टार्थे विनियोगः॥

ऊर्ध्व-पुण्ड्र-धारण-मन्त्रस्य दूर्वास-भागरि-गौरुमण्डि-गौकुल-रूपवन्य[[??]]-गार्ग्य-सोवकर्ष-कण्व-कुधिनि-शालि-होत्र-मुनय ऋषयः गायत्र्य्-उष्णिग्-अनुष्टुप्-जगती-पङ्क्ति-व्याहृतयः शक्वरी-बृहद्रथन्तरं विराट्-जगती-विष्टरपङ्क्त्ययश् छन्दाँसि केशवादि-वासुदेवान्तास् त्रयोदश-मूर्तयो देवताः। ॐ बीजं मं शक्तिः ऊर्ध्व-पुण्ड्र-धारणे विनियोगः।

न्यासः –

ॐ वृद्धोल्काय स्वाहा
ॐ महोल्काय स्वाहा
ॐ वीरोल्काय स्वाहा
ॐ दशोल्काय स्वाहा
ॐ शतोल्काय स्वाहा
ॐ सहस्रोल्काय स्वाहा॥

अथ ध्यानम् –

अर्कौघाभं किरीटान्वित-मकर-लसत् कुण्डलं दीप्त-राजत्-
केयूरं कौस्तुभाभाशबल-रुचि-हरं दिव्य-पीताम्बरञ् च।
नानारत्नांशुभिन्नाभरण-शत-युतं श्री-धराश्लिष्ट-पार्श्वं
वन्दे दोश्-शङ्ख-चक्राम्बुज-परशु-गदं विश्व-वन्द्यं मुकुन्दम्॥

ऊर्ध्व-पुण्ड्र-धारण-प्रयोगः

अथ प्रयोगः – अस्त्र-मन्त्रेण वाम-हस्तं संशोध्य प्रणवेन जलं निधाय

उद्धृतासि वराहेण कृष्णेन शत-बाहुना

इति मृदम् आदाय

गन्ध-द्वारां दुराधर्षां नित्य-पुष्टां करीषिणीम्। ईश्वरीँ सर्व-भूतानां तामिहोपह्वयेश्रियम् [[TODO: परिष्कार्यम्]]

[[90]]

इति सेचयित्वा अस्त्र-मन्त्रेण दश-दिक्षु रक्षां कृत्वा प्रणव-मूलाभ्याम् अभिमन्त्र्य नृ-सिंह-बीजं विलिख्य॥ “ॐ भगवान् पवित्रम्” इति जलं निक्षिप्य तर्जन्या मृदं जलं चैकीकृत्य भगवत्-पाद-द्वयं स्मरन् “विष्णोर् नु कम्” इति मन्त्रेण पञ्चोपनिषदैः मूलेन द्वादशाक्षरेण सप्त-वैष्णव-मन्त्रैश् चाभिमन्त्र्य॥

सप्त-वैष्णव-मन्त्राः –

तदस्य प्रियम्। प्रतद्विष्णुः। परो मात्रया। विचक्रमे। त्रिर्देवः। अतो देवा। इदं विष्णुः। [[TODO: परिष्कार्यम्]]

अथ प्रणवेन तर्जन्या मृदम् आदाय मूर्ध्नि विन्यसेत्; “ॐ केशवाय नम” इत्यादिभिः द्वादशोर्ध्व-पुण्ड्राः धृत्वा शेषं द्वादशाक्षरेण मूर्ध्नि विन्यसेत्। अथ “ॐ केशवाय नम” इत्यादिभिष् षडङ्ग-न्यासं कर-न्यासं च कुर्यात्॥

ऊर्ध्व-पुण्ड्र-ध्यानम्

चतुश् चक्रं नमस्यामि केशवं कनक-प्रभम्।
नारायणं घन-श्यामं चतुश् शङ्खं नमाम्यहम्॥
माधवं मणि-भङ्गाभं चिन्तयामि चतुर् गदम्।
चन्द्र-भासं चतुश् शार्ङ्गं गोविन्दम् अभिसंश्रये॥
विष्णुं चतुर्-हलं वन्दे पद्म-किञ्जल्क-सन्निभम्।
चतुर्-मुसलम् अब्जाभं संश्रये मधुसूदनम्॥
अग्नि-वर्णं चतुः खडं भावयामि त्रिविक्रमम्।
वामनं बाल-सूर्याभं चतुर्-वज्रं विभावये॥
श्री-धरं पुण्डरीकाभं चतुः-पट्टं समाश्रये।
चतुर्-मुद्गरम् अभ्येमि हृषी-केशं तटित्-प्रभम्॥
पञ्चायुधं पद्मनाभं प्रणमाम्य् अर्क-रोचिषम्।
दामोदरं चतुः पाशम् इन्द्र-कोप-निभं भजे॥
वासुदेवम् उपासे ऽहं पूर्णेन्द्व्-अयुत-सन्निभम्॥

इति ध्यात्वा; “ॐ केशवाय नम” इत्यादिभिर् अञ्जलिं कुर्यात्।

[[91]]