०८ स्नान-विधिः

रत्नाकरे मार्कण्डेयः –

भूमिष्ठम् उद्धृतात् पुण्यं ततः प्रसवणोदकम्।
ततो ऽपि सारसं पुण्यं तस्मान्नादेयम् उच्यते॥
तीर्थ-तोयं ततः पुण्यं गोदावर्यास् तु सर्वशः॥

पाद्मे च –

जलं शुद्धम् अशुद्धं वा विष्णु-वास्तु समीपतः।
विष्णु-गङ्गा-समं तोयं महा-पातक-नाशनम्॥
देवेन सह तत्-काले निमज्जन्ति हि ये नराः।
ते निर्धूया शुभं सर्वं महापातकम् अप्य् अथ॥
यान्ति ध्रुवं सुदुष्प्रापं स्थानम् आचन्द्र-तारकम्॥

स्नानार्थं नदी-तरण-निषेधः

व्यासः –

न मेहेत जल-द्रोण्यां स्नातुञ् च न नदीन् तरेत्।
नातिक्रामेद् वृथा सिन्धुं नानुष्ठातुं नदीं तरेत्॥

सिन्धुर्नदी - अस्नात्वा अनाचम्य वा न लङ्घयेद् इत्य् अर्थः।

भरद्वाजः –

शिशु-व्रत-त्रयं कृच्छ्रं गायत्र्या अयुतं जपेत्॥
आह्लपनं महा-नद्यां तुल्यम् एतच्चतुष्टयम्॥
उद्भूत्वा भूधरे ऽम्भोधिं प्रविशत्य् अम्बु सन्ततिः।
या सा महा-नदी-ज्ञेया सर्व-पाप-प्रणाशिनी॥

परकीय-जलाशयेषु स्नान-निषेधः

रत्नाकरे –

अनूत्सृष्टेषु न स्नायात् तथैवासंस्कृतेषु च।

सर्व-सत्त्वोद्देशेन-कृतम् अनूत्सृष्टम्।

[[62]]

असंस्कृतम् अप्रतिष्ठितम्। मनुः –

अलाभे देव-खातानां सरितां सरसाम् अपि।
उद्धृत्य चतुरः पिण्डान् पारक्ये स्नानम् आचरेत्॥
त्रीन् पिण्डान् अथ वोद्धृत्य स्नायाद् आपत्सु नो सदा॥

इदम् अनुत्सृष्ट-विषयम्। उत्सृष्टे तु पिंडान् उद्धरणे ऽपि सदोषः।

षट्त्रिंशन्मते –

आपस् स्वभावतो मेध्याः किम् पुनर् वह्नि-सयुताः।
तस्मात् सन्तः प्रशंसन्ति स्नानम् उष्णेन वारिणा॥

तद्-आतुर-विषयम्। तथा यमः –

आदित्य-किरणैः पूतं पुरः पूतन् तु वह्निना।
अम्नातम् आतुर-स्नाने प्रशस्तन् तु शृतोदकम्॥

उष्णोदक-स्नानम्

(उष्णोदक-स्नान-निषेधः, क्वचित् तदनुज्ञा, क्वचित् तदपवादः)

वृद्ध-मुनुः –

मृते जन्मनि सङ्क्रान्त्यां श्राद्धे जन्म-दिने तथा। अस्पृश्य-स्पर्शने नैव न स्नायाद् उष्ण-वारिणा॥
सरोहत्या-कृतं पापं प्राप्नोत्येव न संशयः।

एतेनोक्तेषु मरणादिषु तीर्थाभावे ऽपि न क्वाप्युष्णोदकैः स्नायात्; सरोदकैर् उद्धृतैः कूपोदकैः स्नायाद्

इत्य् उक्तं भवति।

किञ्च भावहीनस्य पुण्य-क्षेत्र-वास पुण्य-तीर्थ-स्नानादिकं च निष्फलम् एव; तथा सात्वते –

गङ्गादि तीर्थेषु वसन्ति मत्स्या
देवालये पक्षि-सङ्घाश् च नित्यम्।
भावोज्झितास् तेन फलं भजन्ति
तीर्थानि देवायतनाश् च पुण्याः॥

व्यासः –

मत्स्य-कच्छप-मण्डूकास् तोये मग्नादिवा निशम्।
न तेषां हि स्नान-फलं तथैव विधिवर्जितम्॥

शाण्डिल्यः –

स्नानन् तु न घटैः कार्यं न स्याद् द्रव्य-विवर्जितैः॥
आर-नालं न सेवेत कदाचिद् भगवत्-परः।
सुरा-कल्पं हि तज्ज्ञेयं तस्माद् यत्नेन वर्जयेत्॥

आर-नालं - काडि।

ग्रहादि-सेवित-देवतान्तर-संसर्गः अभ्र-जल-क्षार-जलादि-व्यतिरिक्ते ज्ञाते नद्यादौ शक्त-नित्यं वारुण-स्नान कुर्यात्, अशक्तस् तु दिव्यादिकं गौण-स्नानं कुर्यात्,

[[63]]

तत्राग्नेयन् तु पाशुपत-मात्र-विषयम्, वैदिकैस् तु त्याज्यम् एव। तथा अधर्व-शिखायाम् – पाशुपत-व्रतं विधाय “अग्निरि"ति भस्मेत्यादिना तस्यैव तद्विधानात्। तस्य जटा-धारणेन स्नातुम् अशक्यत्वाच्च। अन्यस्य तु विप्रस्य

विरुद्धं वर्जयेत् कर्म॥ प्रेत-धूमन् तद् इतरम्॥ केश-भस्म-तुषाङ्गार-कपालेषु च संस्थितिम्॥ न पर्ण-लोष्टाश्मादिभिर् मूत्र-पुरीषापकर्षणं कुर्यात्॥ न तु भस्म-केश-तुष-कपाला मेध्याव् अधितिष्ठेद्

इति योग-याज्ञवल्क्य-गौतमादिभिर् भस्म-वर्जनत्व-स्मरणात् स्पर्शे तु

दीपाग्निं दीप-तैलञ् च भस्मचास्थि रजस्वलाम्।
एतानि ब्राह्मणः स्पृष्ट्वा सवासा जलम् आविशेद्

इति स्नान-विधानाच्च हस्तौ मुक्त्वा देह-स्पर्शे स्नानमेवेति न चोद्यावकाशः।

स्नान-भेदाः

योग-याज्ञवल्क्यः –

शं न आपस् तु द्रुपद आपोहिष्ठाघमर्षणम्।
एतैश् च पञ्चभिर् मन्त्रैर् मन्त्र-स्नानम् उदाहृतम्॥
भुवि मूर्ध्नि तथा ऽऽकाशे मूर्ध्न्याकाशे तथा भुवि।
आकाशे भुवि मूर्ध्नि स्यान् मन्त्र-स्नानं तथा परम्॥
स्नानम् अब्दैवतैर् मन्त्रैर् जले मज्जन-गाहनैः।
तर्पणं पितृ-देवानां स्नानं वारुणम् उच्यते॥

अनेन गौण-स्नानेषु तर्पणं न भवतीति गम्यते।

प्रशस्त-पर्वताग्रादौ जातया श्वेत-मृत्स्नया।
उच्चार्य केशवादीवि नामान्य् अङ्गे यथा क्रमम्॥
ललाटादौ यद् विधानम् ऊर्ध्व-पुण्ड्रस्य तद् भवेत्।
पार्थिवं स्नानम् अब्लिङ्गैर् मन्त्रैर् विप्र-करेरितैः॥
अम्भोभिः प्रोक्षणं कुर्यात् तन्मन्त्र-स्नानम् इष्यते॥

अश्वत्थ-स्तवे –

अश्वत्थस्य जले यत्र छाया भवति कुत्रचित्।
तत्-प्रयोग-समं तीर्थं तत्र सन्निहितो हरिः॥

देवलः –

नदीषु न नदीं ब्रूयात् पर्वतेषु न पर्वतम्।
नान्यं प्रशंसेत् तत्रस्थः तीर्थेष्व् आयतनेषु च॥

[[64]]

श्री-रङ्ग-महात्म्ये –

नद्यां स्नात्वा नदीम् अन्यां न प्रशंसेत कर्हिचित्। चन्द्र-पुष्करणीं गङ्गां सर्वत्र परिकीर्तयेत्॥

प्रयाग-तीर्थ-विषये श्रुतिः –

सितासिते सरितौ यत्र सङ्गते तत्राप्लुतासो दिवम् उत्पतन्ति। ये वै तत् त्वां विसृजन्ति धीरास् ते जनसो[[??]] अमृतत्त्वं भजन्ते॥
[[TODO: परिष्कार्यम्]]

समुद्र-स्नान-विधिः

पराशरः –

सेतुुं दृष्ट्वा समुद्रस्य ब्रह्म-हत्यां न्यपोहति।
यजन्तं वा ऽश्व-मेधेन राजानं पृथिवी-पतिम्॥

तत्र सङ्ग्रह-श्लोकः –

पाषाण-मन्त्रं प्रथमं पुरस्ताद्
आवाहनं तत्र नमस्क्रिया च।
अर्घ्यं तथा प्रार्थनम् अभ्यनुज्ञा
स्नानञ् च कुर्याद्(अथ)दश-तर्पणञ् च॥

क्रमेण मन्त्रोदाहरणम्।

पिप्पलाद-समुत्पन्ने कृत्ये लोक-भयङ्करि।
पाषाणं ते मया दत्तं आहारार्थं प्रकल्पितम्॥
विश्वाची च घृताची च विश्वयोने विशां पते।
सान्निध्यं कुरु मे देव सागरे लवणाम्भसि॥
नमस्ते विश्व-गुप्ताय नमो विष्णु-वपां पते।
नमो जलधि-रूपाय नदीनां पतये नमः॥
सर्व-रत्नमय-श्रीमन् सर्व-रत्नाकराकर।
सर्व-रत्न-प्रदातस् त्वं गृहाणार्घ्यं महो दधे॥
पृथिव्यां यानि तीर्थानि प्राविशंस्त्वां महो दधे।
स्नातस्य मे फलं देहि सर्वस्मात् त्राहि चाऽंहसः।
समस्त-जगदाधार-शङ्ख-चक्र-गदाधर।
अनुज्ञां देहि मे देव युष्मत्-तीर्थ-निषेवणे॥
वेदादयो वेद-वसिष्ठ-योनिः सरित्
पतिस् सागर-रत्न-योनिः।
अग्निश् च मे तेज इला च तेजो
रेतोधा विष्णुर् (यज्ञम्) अमृतस्य नाभिः॥

[[65]]

इदं ते ऽन्याभिर् असमानम् अद्भिर् याः काश् च सिन्धुं प्रविशान्त्य् आपः। सर्पो जीर्णाम् इव त्वचं जहाति पापं शरीरात् सशिरस्को ऽभ्युपेत्य॥ [[TODO: परिष्कार्यम्]]

इदं द्वयं स्नान-मन्त्रः ॥ तर्पण-मन्त्रः –

पिप्पिलादं कविं कण्वं कृतान्तं जीवितेश्वरम्।
मन्युञ् च कालरात्रिञ् च विद्याञ् चाहर्गणेश्वरम्॥

ततो देवर्षि-तर्पणादि-समानम्।

पापाण-सङ्ख्या सेतु-माहात्म्ये –

पाषाण-सप्तकं दद्याद् एकं वा विप्र-सत्तम।
पाषाण-दानात् सफलं स्नानं भवति नान्यथा॥

अत्र विशेषम् आह भरद्वाजः –

दर्भाक्षत-तिलैस् सार्थं गत्वा तीरं महो दधेः।
प्रणम्य दण्डवद् भूमौ दत्त्वा पुष्पाक्षताञ्जलिम्॥
दद्याद् एतैस् त्रीभिर् मन्त्रैः प्रणमेद् दण्डवद् बुधः।
नमस्ते सर्व-तोयेश नमो गम्भीर-मूर्तये॥ नमो मेघ-निनादाय नमस् ते परमात्मने।
विविधाघौघ-नाशाय सुधागर्भाय ते नमः॥
महा-नद्य् अधिनाथाय महा-रत्नोद्भवाय ते।
महा-प्राण्य् अधिवासाय महा-वारिधये नमः॥
समुद्रस् सागरो ऽंभो-धिः पारावारो ऽमृतोद्भवः॥
नामधेयैश् चतुर्थ्य् अन्तैः प्रणवादि नमो ऽन्तकैः।
एतैर् मन्त्रैर् नमस्कृत्य वगुणं प्रणमेत् ततः॥
इमम्मेवरुणेत्यादि द्वाभ्याञ् च वरुणं स्तुवन्।
मुहूर्त-द्वितयं तत्र संसेव्यासीत कोविदः॥
मुहूर्तम् अथवा तत्र ततस् स्नानम् उपक्रमेत्।
तिलान् पुष्पाणि दर्भांश् च दत्त्वा स्नायाद् यथा-विधि॥

ततः पाषाणमन्त्रादि समानम्।

[[66]]

समुद्र-स्नान-निषेधः

अश्वत्थश् चोदधिश् चैव न स्प्रष्टव्यौ कदाचन।
मन्द-वारे स्पृशेत् पूर्वम् अपरं पर्वणि स्पृणेत्॥

रत्नाकरे –

पर्वणि स्नपनं शस्तं सर्वेषां लवणाम्बुधौ।
सागरेषु तथा ऽन्येषु शुभमाप्लवनं स्मृतम्॥
सौरारवारयोर् अब्धौ पर्वणोर् उभयोर् अपि।
सन्तान-कामी न स्नानं कुर्यात् तु ग्रहणं विना॥
विद्धे पर्वणि न स्नायाच्चतुर्दश्यां महो दधौ।
नाचेद् भौमयुता स्नायात् ताम् अतिक्रम्य पर्वणि॥

अस्यापवाद स्कान्दे सेतु-माहात्ये –

सर्वत्र सागरः पुण्यस् सदा पर्वणि पर्वणि।
सेतौ सिन्ध्व् अब्धि संयोगे गङ्गा-सागर-सङ्गमे॥
नित्य-स्नानं हि निर्दिष्टं गो-कर्णे पुरुषोत्तमे।
नापर्वणि सरिन्नाथं स्पृशेद् अन्यत्र कर्हिचित्॥
सेतौ च पद्मनाभे च गो-कर्ण पुरुषोत्तमे।
उदन्वद् अम्भसि स्नानं सार्वकालिकम् ईप्सितम्॥
शुक्राङ्गारक-सौराणां वारेषु लवणाम्बुधौ।
सन्तान-कामी न स्नायात् सेतोर् अन्यत्र कर्हिचित्॥
अकृत-प्रेतकार्यो वा गर्भिणी-पतिर् एव वा।
न स्नायाद् उदधौ विद्वान् सेतोर् अन्यत्र कर्हिचित्॥
न कालापेक्षणं सेतौ नित्य-स्नानं प्रशस्यते।
वार-तित्थर्क्ष-नियमास् सेतोर् अन्यत्र हि द्विजाः॥

इति। तत्रैव मृत-पित्रादीन् उद्दिश्य स्नान-प्रकारः –

उद्दिश्य जीवतः स्नायान्न तु स्नायान्मृतान् प्रति।
कुशैः प्रतिकृतिं कृत्वा स्नापयेत् तीर्थ-वारिभिः॥
इमं मन्त्रं समुच्चार्य प्रसन्नेन्द्रिय-मानसः॥
कुशो ऽसि त्वं पवित्रो ऽसि विष्णुना विधृतः पुरा।
त्वयिस्नाते स च स्नातो यस्यै तद्ग्रन्थि-बन्धनम्॥

[[67]]

सेतु-स्नान-प्रकारः

रघुवीर-पद-न्यास-पवित्री-कृत-पांसवे।
दश-कण्ठ-शिरश् छेद हेतवे सेतवे नमः॥

इति पूर्वं सेतुं नमस्कुर्यात्। देवलः –

महा-दानेषु यज्ञादौ प्रायश्चित्तेषु कर्मसु।
कन्या-दाने नदी-स्नाने महा-सङ्कल्पम् आचरेत्॥

मरीचिः –

कन्या-दाने नदी-स्नाने तुला-स्नानादिषु द्विजः।
प्रायश्चित्तेषु यज्ञादौ व्रतादिषु विशेषतः॥
प्रायश्चित्तेषु सर्वत्र महा-सङ्कल्पम् उच्चरन्।
कृत्वा यत्कुरुते सम्यक् तद् आनन्त्याय कल्प्यते॥

द्विज-ग्रहणाच्छूद्रस्य निषेधः।

पिप्पलाद + प्रकल्पितम्

इति पाषाण-दानम्।

विश्वाची च + लवणाम्भसि

इत्य् आवाहनम्।

नमस्ते नमः समुद्राय वयुनाय सिन्धूनां पतये नमः॥
नदीनां सर्वासां पित्रे जुहुता विश्व-कर्मणे विश्वाहामर्त्यं हविः [[TODO: परिष्कार्यम्]]

इति च नमस्कृत्य।

सर्व-रत्नमय श्रीमन् + महो दधे॥

इति फल-पुष्पाक्षत-पञ्च-रत्नादि-सहितम् अर्घ्यं दत्त्वा॥

प्राच्यां दिशि तु सुग्रीवं दक्षिणस्यां नलं स्मरेत्।
प्रतीच्यां मैन्दनामानम् उदीच्यां द्विविदं तथा॥
रामञ् च लक्ष्मणञ् चैव सीताम् अपि यशस्विनीम्।
अङ्गदं वायु-तनयं स्मरेन् मध्ये विभीषणम्॥

इति प्रागादि दिक्षु सुग्रीवादीन् ध्यात्वा -

पृथिव्यां यानि तीर्थानि प्राविशंस् त्वां महो दधे।
स्नातस्य मे फलं देहि सर्वस्मात् त्राहि माऽंहसः॥

समस्त जगद् आधार॥ हिरण्यशृङ्गम्

इति द्वाभ्यां नारायणं स्मरेत्।

ध्यायन् नारायणं देवं स्नानादिषु च कर्मसु।
ब्रह्म-लोकम् अवाप्नोति जायते नेह वै पुनः॥
सर्वेषाम् अपि पापानां प्रायश्चित्तं भवेत् ततः॥

इति।

प्रह्लादं नारदं व्यासम् अम्बरीषं शुकं तथा।
अन्यांश् च भगवद्-भक्तांश् चिन्तयेद् एक-मानसः॥

अत्र सङ्ग्रह-कारः –

प्रह्लाद-नारद-पराशर-पुण्डरीक
व्यासाम्बरीष-शुक-शौनक-भीष्म-दाल्भ्यान्।
रुक्माङ्गदार्जुन-वसिष्ठ-विभीषणाद्यान्
पुण्यान् इमान् परम-भागवतान् स्मरामि॥

[[68]]

इति भगवद्-भक्तान् ध्यात्वा - अथ

वेदादयो + अमृतस्य नाभिः॥ इदन्ते ऽन्याभिः + अभ्युपेत्य॥

इति द्वाभ्यां प्रथमं स्नायात्। अथ “समुद्राय वयुनाये"ति नमस्कुर्यात् पुनर् द्विजः॥

सर्व-तीर्थ-मयं शुद्धं नदीनां पतिम् अम्बुधिम्॥

अथ

द्वौ समुद्रौ विततावजूर्यौ पर्या वर्तेते जठरेवपादाः। तयोः पश्यन्तौ अतियन्त्यन्यम् अपश्यन्तस् सेतुनातियन्त्यन्यम्॥ द्वौ समुद्राव् [[TODO: परिष्कार्यम्]]

इति पुनः प्रोच्चार्य स्नानम् आचरेत्॥

ब्रह्माण्डोदर-तीर्थानि कर-स्पृष्टानि तेन वै।
तेन सत्येन मे सेतौ तीर्थं देहि दिवाकर॥

इति प्रार्थ्य -

प्राच्यां दिशि तु सुग्रीवम्

इत्यादि क्रम-योगतः।

स्मृत्वा भूयो द्विजस् सेतौ तृतीयं स्नानम् आचरेत्॥

त्रि-प्रकारं स्नात्वा -

देवी पट्टण-मार्गेण प्रव्रजेद् यदि मानवः।
तदा तु नव-पाषाण-मध्ये सेतौ विमुक्तिदे॥
स्नानम् अम्बु-निधौ कुर्यात् सर्व-पापापनुत्तये।
दर्भ-शय्या पदव्याचेद् गच्छेत् सेतुं विमुक्तिदं*॥

अथ तर्पणम् -

पिप्पलादं + अहर् गणेश्वरम्

इति दश॥

वसिष्ठं वामदेवञ् च पराशरम् उमा-पतिम्।
वाल्मीकिं नारदञ् चैव वालखिल्यान् मुनींस् तथा॥
नलं नीलं गवाक्षञ् च गवयं गन्ध-मादनम्।
मैदञ् च द्विविदञ् चैव शरभं ऋषभं तथा॥
सुग्रीवञ् च हनूमन्तं वेग-दर्शिनम् एव च।
रामञ् च लक्ष्मणञ् चैव सीताञ् चैव यशस्विनीम्॥
त्रिः कृत्वा तर्पयेद् एतान् मन्त्रान् उक्त्वा यथा-क्रमम्।
एतांश् च तर्पयेद् विद्वान् दर्भाक्षत-तिलैस् सह

इति (पाठान्तरम्)

विप्रांश् च तत्-तन्नामानि चतुर्थ्य् अन्तानि वै द्विजः॥
देवान् ऋषीन् पितॄंश् चैव तर्पयेच्च तिलोदकैः।
द्वितीयान्तानि नामानि चोक्त्वावा तर्पयेद् द्विजः॥
तर्पयेत् सपवित्रस् तु जले स्थित्वा प्रसन्न-धीः।
तर्पणात् सर्व-तीर्थेषु स्नानस्य फलम् आप्नुयात्॥
एवम् एतां स्तर्पयित्वा नमस्कृत्योत्तरेज्जलात्॥

[[69]]

इत्य् उक्त-प्रकारेण स्नात्वा गन्ध-मादनं गच्छेत्।

सेतु-रूपं गिरिं तं तु प्रार्थयेद् गन्ध-माधनम्[[??]]।
क्षमा-धरं महा-पुण्यं सर्व-देव-नमस्कृतम्॥
विष्ण्वादयो ऽपि यं देवास् सेवन्ते श्रद्धया सह।
तं भवन्तम् अहं पद्भ्याम् आक्रमामि नगोत्तम॥
क्षमस्व पाद-घातं मे दयया पाप-चेतसः।
त्वन्-मूर्धनि कृता वासं केशवं दर्शयस्व मे॥
प्रार्थयित्वा नरस्त्व् एवं सेतु-रूपं नगोत्तमम्।
ततो मृदु-पदं गच्छेत् पावनं गन्ध-मादनम्॥

एवं गन्ध-मादनं गत्वा धनुष्कोटिम् अपि गच्छेत्। तत्र,

रघु-वीर-पद-न्यास-पवित्री-कृत-पांसवे।
दश-कण्ठ-शिरश्-छेद-हेतवे सेतवे नमः॥
केतवे राम-चन्द्रस्य मोक्ष-मार्गैक-हेतवे।
सीताया मानसाम्भोज-भानवे सेतवे नमः॥
साष्टाङ्गं प्रणिपत्य् आदौ मन्त्रेणानेन वै द्विजः॥

इति प्रणिपत्य धनुष्कोटिं गत्वा पूर्वोक्त-प्रकारेण स्नानं कुर्यात्।

सङ्क्रमण-स्नान-क्रमः

वृद्ध-वसिष्ठः –

अयने द्वे द्वे विषुवे चतस्त्रष् षड् अशीतयः।
विष्णु-पद्यश् चतस्रस् तु सङ्क्रान्त्यो द्वादश-स्मृताः॥

अयने द्वे- मकर-कर्कटौ, विषुवे द्वे - तुला-मेषौ, षड् अशीतयः - मिथुन-कन्या-धनुर् मीनाः, विष्णु-पद्यः - वृष-सिंह-वृश्चिक-कुम्भाः,

अहस् सङ्क्रमणे पुण्यम् अहः कृत्स्नं प्रकीर्तितम्।
रात्रौ सङ्क्रमणे पुण्यं दीनार्थं स्नान-दानयोः॥
पूर्णे चैवार्धरात्रे तु यदा सङ्क्रमते रविः।
तदा दिन-द्वयं पुण्यं मुक्त्वा मकर-कर्कटौ॥
यद्य् अस्तमनवेलेयां मकरं याति भास्करः।
प्रदोषे वा ऽर्ध-रात्रे वा स्नानं

[[70]]

[[सम्पादक-टिप्पनी - अपि च मूले एव “७१” पृष्ठ सङ्ख्या नास्ति!!??]]

[[??]] चार्य स्नायान् मौनं समाश्रितः।
मकरस्थे रवौ माधे यत्र क्वापि बहिर् जले॥
निष्कामैर् वा सकामैर् वा स्नातव्यं हरि-तुष्टये।
अवैष्णवो हतो विप्रो हतं श्राद्धम् अदक्षिणम्॥
अब्रह्मण्य-हतं क्षत्रम् अनाचार-हतं कुलम्।
आदीप्ताग्नौ हतो होमस् स्वार्थे पाक-क्रिया-हता॥
जीवनार्थं हतं तीर्थं जीवनार्थं हितं व्रतम्।
सन्दिग्ध-विहतो मन्त्रो व्यग्र-चित्तो हतो द्विजः॥
अनायास-हतं सर्वं यत्-कृतं पार-लौकिकम्।
मनुष्याणां तथा जन्म माघ-स्नानं विना हतम्॥
मकरस्थे रवौ यो हि न स्नात्य् अनुदिते रवौ।
कथं पापैः प्रमुच्येत कथं वा ऽमृतम् अश्नुयात्।

इदं ब्राह्मणादि-विषयम्।

माघ-मासे रटन्त्य् आपः किञ्चिद् अभ्युदिते रवौ।
ब्रह्म-घ्नं वा सुरापं वा कं पतन्तं पुनीमहे॥

पतन्तं = स्न्यास्यन्तम्, इदं स्त्री-शूद्रादि विषयम्।

माघ-स्नानम्

शोचन्ति सर्व-पापानि माघ-मास समागमे।
नाशकालो ऽयम् अस्माकं यदि स्नास्यति वारिणि॥
ब्रह्महा हेम-हारी वा सुरापी गुरु-तल्पगः।
माघ-स्नायी विपापस् स्यात् तत्-संयोगी च पञ्चमः॥
सन्देहो नात्र कर्तव्यो माघ-स्नाने नराधिप।
प्रायश्चित्तं परञ् चैतन् मघ-स्नानम् अनुत्तमम्॥
सर्वे ऽधिकारिणो ह्यत्र विष्णु-भक्तौ यथा नृप॥

इति। अनेन माघ-स्नानं नित्यं नैमित्तिकं काम्यञ् च भवति। तथा वैदिक-सार्वभौमैर् अपि प्रतिपादितम्। एवम् एव वैशाखादि स्नानम् अपि द्रष्टव्यम्। ग्रन्थ-विस्तर-भयान् न लिख्यते।

[[72]]

तैलाभ्यङ्ग-विधिः

रत्नाकरे –

द्वितीयाद्याश् चतस्रश् च प्रशस्तास् सप्तमी तथा।
दशमी द्वादशी चैव त्रयोदश्य् अपि पूजिताः॥
इन्दोर् बुधस्य सौरेश् च वारे ऽभ्यङ्गः प्रशस्यते॥

भानु-भौम-गुरुवारेषु पाते पर्वसु षष्ठी प्रतिपद्-एकादशीषु उत्तरा-फल्गुनी ज्येष्ठ-श्रवणार्द्रा जन्मर्क्ष-श्राद्ध-व्रत-क्षौराहेषु च नाभ्यङ्गः। अस्यापवादः -

द्रव्यान्तर-युतं तैलं न दूष्येद् ग्रहणं विना।
तुलसी-दल-सम्मिश्रं ग्रहणे ऽपि न दुष्यति॥

इदम् आपद्विषयम्। पुराणे –

तिथि-नक्षत्र-वारेषु निषिद्धेष्व् अपि राशिषु।
तैलम् आज्येन संसृष्टम् अद्भिर् वा शुद्धिम् आप्नुयात्॥
सार्षपं गन्धवत् तैलं यत्-तैलं पुष्प-वासितम्॥
द्रव्यान्तर-युतं तैलं न कदाचन दुष्यति॥
दशम्यां तैलम् अस्पृष्ट्वा यस् स्नायाद् अविचक्षणः।
चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशो बलम्॥

यत् त्व् इदं वचनं

दशमी पुत्र-नाशाय स्व-नाशाय त्रयोदशी।
तृतीयो भय-नाशाय तेलाभ्यङ्गं विवर्जयेत्

इति तत्-क्षत्रियादि विषम्। तथा जाबालिः –

त्रयोदश्यां तृतीयायां दशम्याञ् चैव सर्वदा।
शूद्र-विट्-क्षत्रियाः स्नानं न कुर्युस् तैल-संस्कृतम्॥

रत्नावल्याम् –

सुरया लिप्त-देहो ऽपि प्रायश्चित्तीयते द्विजः।
प्रातर् अभ्यक्त-देहस्य निष्कृतिर् न विधीयते॥

अयं दोषो नरक-चतुर्दशी-व्यतिरिक्त-विषयः। तस्यान्तु पाद्मे -

प्रत्यूष आश्वयुग्दर्शे चतुर्दश्याम् इनोदये।
स्नानम् अभ्यज्य कर्तव्यं सरैर् नरक-भीरुभिः॥

इदं काम्यम्। व्यासः –

पादाभ्यङ्गं शिरो ऽभ्यङ्गं तथा देह-विमर्दनम्।
श्रेयस्-कामी तु राजेन्द्र-शूद्र-हस्तैर् न कारयेत् ॥

वैद्य-शास्त्रे –

हेमन्ते नाडिका-युग्मं शिशिरे नाडिका-त्रयम्।
वसन्ते नाडीकाः पञ्च ग्रीष्मे षण्णाडिकाः स्मृताः॥
वर्षा-काले शरत्-काले सद्यस् स्नानं विधीयते॥

[[73]]

स्नान-निषेधः

सुहृद्-बन्धून् अरनुव्रज्य देवता वा ऽर्चयित्वा
माङ्गल्यं निवर्त्य
तीर्थोत्सवयोः भुक्त्य्-अनन्तरं रात्रौ च न स्नायात्।

दिवाहृतैर् जलैः स्नानं निशि कुर्यान् निमित्ततः।
अभावे धा(न्य)म्न इत्यादि मन्त्रै रात्रौ जलं हरेत्॥

सङ्ग्रहे –

पितरं मातरं वापि भ्रातरं सुहृदं गुरुम्।
निमज्जेत् तु यम् उद्दिश्य द्वादशांशं लभेत सः॥
तत्-प्रार्थितेर् अष्टमांशं लभेत् स्नान-फलं नरः।
पृथिव्यां यानि तीर्थानि तानि सर्वाणि सागरे।
सागरे यानि तानि स्युः पादे विप्रस्य दक्षिणे॥

नैमित्तिक-स्नानम्

चंडाल-सूतिकोदकी-पतित-शव-खर-श्वानादि-स्पर्शने तत्-स्पृष्ट-स्पर्शने च
शूद्रादि-स्पर्शने
काक-कुक्कुट-गृध्र-विड्-वराह-उष्ट्र-वृक-गो-मायु-वानर मानुषास्थि-रक्त-विष्ठा–
मूत्र-पुरीष-रेतो-मज्जा-रथ्या-कर्दम-तोयादि-स्पर्शने भोजने
बिडाल-पुच्छ-स्पर्शने च
शावे शव-गृह-गमने
आतुर-व्यञ्जन-शवानुगमनादिषु च
स्नानं कर्तव्यम्।

स्मृत्यन्तरे मज्जन-सङ्ख्या –

वृषल-चाण्डालादि-स्पर्शे

वृषलं चान्त्यजातिञ् च चण्डालं पतितं तथा।
आर्तवाभिप्लुतां नारीं स्पृष्ट्वा स्नानं समाचरेत्॥
एकञ् च दशकञ् चैव द्वादशं विंशतिं तथा।
द्वात्रिंशच् च क्रमेणैव स्नानं कृत्वा विशुध्यति॥

एतत्-तत्-तत्-गात्र-स्पर्शे; अन्यथा भरद्वाजः –

अस्पृश्य-स्पर्शने चैव त्रयोदश-निमज्य च।
आचम्य प्रयतः पश्चात् स्नानं विधिवद् आचरेत्॥

वृद्धमनुः –

चण्डालादेस् तु संस्पर्शे वारुणं स्नानम् आचरेत्।
इतराणि तु चत्वारि यथा-योगं स्मृतानि हि॥

[[74]]

हारीतः -

रजस्वलां सूतिकां वा चण्डालं पतितं तथा।
पाषण्डिनं विकर्मस्थं शैवं स्पृष्ट्वा ह्यकामतः॥
गो-मयेनानुलिप्ताङ्गस् सवासा जलम् आविशेत्। गायत्र्य् अष्ट-शतं जप्त्वा घृतं प्राश्य विशुध्यति॥
स्पृष्ट्वा तु कामतः स्नात्वा चरेत् सान्तपनव्रतम्॥

श्वपाकादि-छाया-स्पर्शे

स्मृति-रत्ने –

छायाम् अन्त्य-श्वपाकादेः स्पृष्ट्वा स्नानं समाचरेत्।
चत्वारिंशत् पदाद् ऊर्ध्वं छाया-दोषो न विद्यते॥

अखण्डादर्मे –

तृण-काष्ठादि-खातेन कुड्येनान्तरिते तथा।
गो-वाल-व्यजने वापि स्नानं तत्र न विद्यते॥

शिशोः रजस्वलादि-स्पर्शे

पराशरः –

शिशोर् अभ्युक्षणं प्रोक्तं
बालस्याचमनीयकम्।
रजस्वलादि-संस्पर्शे
स्नानम् एव कुमारके॥
शिशुर् आदन्त-जननाद्
आचौलाद् बालकः स्मृतः।
कुमारकस् तु विज्ञेयो
बुधैर् आमौञ्जि बन्धनात्॥

विवाह-यात्रादिषु भगवद्-उत्सवादिषु च स्पृष्टि-दोषाभावः

बृहस्पतिः –

तीर्थे विवाहे यात्रायां सङ्ग्रामे देश-विप्लवे।
ग्राम-दाहे प्रवासे च सृष्टि-दोषो न विद्यते॥

पाद्मे –

विष्ण्व्-आलय-समीपस्थान् विष्णु-सेवार्थम् आगतान्।
अन्त्यजान् पतितान् वा ऽपि स्पृष्ट्वा न स्नानम् आचरेत्॥

“विष्णु-सेवार्थम्” इति विशेषणात् स्व-कार्यार्थम् आगत-विष्ण्व्-आलय-समीपस्थ-चंडालादि-स्पर्शे स्नानं भवत्य् एव। पाद्मे –

विष्ण्व्-आलयान्तिक-स्थानां तत्-सेवार्थम् उपेयुषाम्।
स्पर्शस् सर्वापगास्नानाद् अतिरिक्ततमो मतः॥
उत्सवे वासुदेवस्य यः स्नाति स्पर्श-शङ्कया।
स्वर्गस्थाः पितरस् तस्य पतन्ति नरके क्षणात्॥

पुनस्-स्नान-निमित्तम्

शवानुगमने क्षौरे पुनस् स्नानं विधीयते।
आर्द्र-वस्त्रं परित्यज्य शुष्क-वस्त्रेण मज्जनम्॥

इत्य् उक्तं पुनस्-स्नानम् एव तर्पणम्। सर्वत्र स्नान-द्वय-प्राप्तौ

स्नाने चैव तु सर्वत्र तर्पयेत् पितृ-देवता

[[75]]

इत्य् आदिकम् अपि न विरुध्यते।

आमलक-स्नान-निषेधः

अथामलक-स्नान-निषेधः –

आदित्य-वारे सङ्क्रान्त्यां नवम्यां पर्वणोर्द[[??]] द्वितीयायाञ् च सप्तम्यां प्रातः काले ऽपि सर्वदा॥
नरो नामलकैस् स्नायाद् अलक्ष्म्या परिगृह्यते॥

शङ्खः –

अमावास्या तु सोमेन भानु-वारेण सप्तमी।
चतुर्थी भूमि-पुत्रेण सोम-पुत्रेण चाष्टमी॥
चतस्रस् तिथयो ह्येतास् सूर्य-ग्रहण[[??]]-सन्निभाः।
अमा-सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कलं नाम सहस्रार्क-ग्रहोपमाः॥

मृत्तिका-स्नान–तिल-तर्पण-निषेधः

चन्द्रिकायाम् –

भानु-वारे भृगोर् वारे भौम-नन्दाम-भानु च।
मृदा स्नानं पिण्ड-दानं वर्जयेत् तिल-तर्पणम्॥

पुराणे –

पक्षयोर् उभयो राजन् सप्तम्यां निशि सन्ध्ययोः।
विद्या-पुत्र-कलत्रार्थी तिलान् पञ्चसु वर्जयेत्॥

चन्द्रिकायाम् –

अर्के शुक्रे त्रयोदश्यां सप्तम्यां निशि सन्ध्ययोः।
तर्पयेत् तिल-सम्मिश्रं तत्-तोयं रुधिरं भवेत्॥

पुराणे –

भार्गवे भानु-वारे च जन्मर्क्षे च तथा दिने।
पूर्व-स्नानं न कुर्वीत तिलैः कृष्णैश् च तर्पणम्॥

अयं निषेधो नित्य-स्नानाङ्ग-तर्पणे, न दर्शादौ। तथा गार्ग्यः –

उपरागे पितुश् श्राद्धे पातेऽमायाञ् च सङ्क्रमे।
निषिद्धे वा ऽपि सर्वत्र तिलैस् तर्पणम् आचरेत्।
तीर्थे तिथि विशेषे च प्रेत-कार्ये तथाब्दिके।
निषिद्धे ऽपि दिने कुर्यात् तिलैः कृष्णैश् च तर्पणम्॥
तिथि-वार-समायोगान् निषेधो ऽयम् उदाहृतः।
ऋषिभिस् तर्पणे नित्ये निमित्ते न तु बाध्यते॥

निमित्ते - “ग्रहणाब्दिक-दर्शादि-निमित्त” इत्य् अर्थः। अतश् शुक्र-वारादि-योगे ऽपि तिलैर् एव तर्पणं कुर्याद् वाक्षत-युक्तैः, दोषाभावात्।

[[76]]

प्रातस्स्नान-विधिः

प्रातर् आचमनं कृत्वा शौचं कृत्वा यथा-विधि।
दन्त-शौचं ततः कृत्वा प्रातः स्नानं समाचरेत्॥
अस्नात्वा नाचरेत् कर्म जप-होमादि किञ्चन।
लाला-स्वेद-समाकीर्णश् शयनाद् उत्थितः पुमान्॥
प्रातस् सङ्क्षेपतः स्नानं होमार्थन् तु विधीयते।
तन्-मन्त्र-विधि-निष्पाद्यं मध्याह्ने तत् सुविस्तरम्॥

याज्ञवल्क्यः –

यावद् देवान् ऋषींश् चैव पितॄन् वै यो न तर्पयेत्।
तावन् न पीडयेद् वस्त्रं ये न स्नातो भवेन् नरः॥

पुराणे –

अप्रायत्यं निहत्यैव स्नानेनैकेन मानवः।
स्नाने न तु द्वितीयेन निर्मलत्वं ध्रुवं भवेत्॥
तृतीयेनात्र तृप्तिस् स्यान्निमज्जन-फलं त्व् इदम्।

स्नान-प्रयोगः

पादौ पाणी प्रक्षाल्य द्विराचम्य प्राणायाम-त्रयं कृत्वा स-पवित्र-हस्तः तिथि-वारादिकं स्मृत्वा

श्री-भगवद्-आज्ञया भवत्-प्रीत्यर्थं प्रातस् स्नानङ् करिष्य

इति सङ्कल्प्य॥

भगवान् एव स्व-नियाम्येत्य् आरभ्य + प्रातः स्नानं मया कारयति

इति सात्विक-त्यागं कुर्यात्। तथा श्री-पञ्च-रात्र-रक्षायां वेदान्ताचार्यैः सर्व-कर्मणाम् आद्यन्तयोः “स्व-नियाम्ये"त्यादि सात्विक-त्यागानुसन्धानस्य विहितत्वात्।

समस्त-जगद्-आधार-शङ्ख-चक्र-गदा-धर।
देहि देव ममानुज्ञां युष्मत् तीर्थ-निषेवणे

इति भगवन्तम् नुज्ञाप्य अपः प्रविश्य त्रिर् निमज्य

उदुत्तमं वरुण-पाशं + आयुः प्रमोषीः

इति वरुण-सूक्तं जपित्वा - अनन्तरं

हिरण्य-शृङ्गं + पुनः पुनः”

इति जलम् अवगाह्य वरुणं प्रार्थ्य -

[[77]]

सुमित्रा न आप ओषधयस् सन्त्व् [[TODO: परिष्कार्यम्]]

इत्य् आत्मनम् अभिषिच्य

दुर्मित्रास्तस्मै भूयासुर्यो ऽस्मान् द्वेष्टि यञ् च वयं द्विष्म [[TODO: परिष्कार्यम्]]

इति त्रिर् मृत्तिका-स्थाने जलाञ्जलिम् उत्सृज्य –

नमो ऽग्नये + नमो ऽद्भ्यः [[TODO: परिष्कार्यम्]]

इति तीर्थ-रूपिणं भगवन्तं नमस्कृत्य

यदपां + गच्छताद् [[TODO: परिष्कार्यम्]]

इत्य् अमेध्याशं दक्षिणतो निरस्य “अत्याशनाद् अतीपाना”दिति द्वाभ्यां पाणिना त्रिरालोड्य मध्ये चतुरश्रं तीर्थ-पीठम् उल्लिख्य तत्र स्वाराध्यं भगवन्तं गन्धादिभिर् अभ्यर्च्य अञ्जलिना पीठाद् बहिर् जलम् आदाय

आवाहयामि त्वां देवि स्नानार्थम् इह सुन्दरि।
एहि गङ्गे नमस् तुभ्यं सर्व-तीर्थ-समन्विते

इति तद्-वाम-पादाङ्गुष्ठ-जां गङ्गाम् आवाह्य -

विष्णु-पादाब्ज सम्भूते गङ्गे त्रि-पथ-गामिनि।
धर्म-द्रवेति विख्याते पापं मे हर जाह्नवि॥

इति गङ्गां प्रार्थ्य

विष्णु-वाम-पादाङ्गुष्ठ-नख-स्रोतो विनिस्सृते।
तद्-भक्ति-विघ्न-रूपात् त्वं गङ्गेमां मोचयैनसः

इति मन्त्रेणार्घ्यं दत्त्वा -

नन्दिनी नलिनी सीता मालती च मलापहा।
विष्णु-पादाब्ज-सम्भूता गङ्गा त्रि-पथ-गामिनी॥
भागीरथी भोगवती जाह्नवी त्रि-दशेश्वरी

इति द्वादश-नामान्य् उक्त्वा -

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जले ऽस्मिन् सन्निधिं कुरु

इति सान्निध्यं प्रार्थ्य। “इमं मे गङ्गे” इति सर्व-तीर्थानि स्मृत्वा

पुष्कराद् यानि तीर्थानि गङ्गाद्यास् सरितस् तथा।
आगच्छन्तु महा-भागास् स्नान-काले सदा मम

इत्य् उक्त्वा - (नृ-सिंह-बीजं विलिख्य - मूल-मन्त्रेण सप्त-कृत्वो ऽभिमन्त्र्य) नद्यां प्रवाहाभिमुखो ऽन्यत्रादित्याभिमुख “आपो अस्मा"निति निमज्ज्य “आपोहिष्ठे”ति तिसृभिर् “हिरण्यवर्णे"ति चतसृभिः “पवमानस् सुवर्जन” इत्य् अनुवाकेन पुंसूक्तेन चात्मानं प्रोक्ष्य नारायणं स्मरेत्।

[[78]]

तथा व्यासः –

आपो नारा इति प्रोक्तास् ता एवास्यायनं पुनः। तस्मान् नारायणं देवं स्नान-कालादिषु स्मरेत्।

ततो ऋतं चेत्य् अघ-मर्षण-सूक्तं त्रिष् षड्-अष्टौ द्वादश-वारं वा जपित्वा दक्षिणेन पाणिना जलम् आदाय “आर्द्रञ् ज्वलती”ति प्राश्य पुनस् त्रिर् निजमज्जेत्।

अघ-मर्षण-सूक्तस्य अघ-मर्षण-ऋषिः अनुष्टुप्-छन्दः भौम[[??]] ऽधिदेवता अघ-मर्षण-सूक्त-जपे विनियोगः।

“ऋतञ् च सत्यञ च + शिशाधि [[TODO: परिष्कार्यम्]]

इत्य् अञ्जलिना जलं गृहीत्वा शिरस्य् अभिषिच्य -

आर्द्रञ् ज्वलति + जुहोमि स्वाहा” [[TODO: परिष्कार्यम्]]

इत्य् अपः प्राश्य ।

अकार्य कार्यवकीर्णी + पुनात्वघमर्षणः [[TODO: परिष्कार्यम्]]

इति शिरसि प्रोक्ष्य। द्विर् आचम्य देवान् ऋषीन् पितॄंश् च प्राङ्मुख उदङ्मुखो दक्षिणामुखः कटि-दघ्न-जलस्थः तत्-तत्-तीर्थेनैव गृहीत्वा तत्-तत्-तिर्थेन तर्पयेत् ।

स्नानाङ्ग-तर्पणम्

तत्-प्रकारः

ब्रह्मादयो ये देवास् तान् देवांस् तर्पयामि, सर्वान् देवांस् तर्पयामि, सर्व-देव-गणांस् तर्पयामि,सर्व-देप-पत्नीस् तर्पयामि,सर्व-देव-गण-पत्नीस् तर्पयामि, कृष्ण-द्वैपायनादयो ये ऋषयस् तान् ऋषींस् तर्पयामि,सर्वान् ऋषींस् तर्पयामि,सर्व-ऋषि-गणांस् तर्पयामि, सर्व-ऋषि-पत्नीस् तर्पयामि,सर्व-ऋषि-गणपत्नीस् तर्पयामि॥

प्राचीनावीति॥ ।

सोमः पितृमान् यमोङ्गिरस्वान् अग्नि-कव्य-वाहनादयो ये पितरः तान् पितॄंस् तर्पयामि, सर्वान् पितॄंस् तर्पयामि, सर्व-पितृ-गणांस् तर्पयामि, सर्व-पितृ-पत्नीस् तर्पयामि, सर्व-पितृ-गण-पत्नीस् तर्पयामि॥

अत्र केचित् प्रकारान्तरम् आहुः;

ब्रह्मादयो ये देवास् तान् देवांस् तर्पयामि, भूर्देवांस् तर्पयामि, भुवर्देवांस् तर्पयामि, सुवर्देवांस् तर्पयामि, ॐ भूर् भुवस् सुवर् देवांस् तर्पयामि॥

एवं ऋषि-तर्पणं पितृ-तर्पणञ् चेति।

[[79]]

तथा रत्नाकरे –

सन्तर्पयेच् च तिसृभिस् तिसृभिश् च तिलाक्षतैः।
केनलैस् तन्डुलैर्देवान् ऋषींस् तु तिल-तण्डुलैः॥
पितॄन् साक्षात्[[??]]तिलैर् एव तर्पयेद् द्विज-सत्तमः।

अथ

अकार्यवकीर्णिस्ते नो भ्रूणहा गुरु-तल्पगः। वरुणोपा मघमर्षणस्तस्मात्पापात् प्रमुच्यते [[TODO: परिष्कार्यम्]]

इति तीरं गत्वा शुष्क-वस्त्रेण दक्षिणस्यः कुक्कुटासनस्थस् स्वशिरः परिमार्ज्य,

शुचीवोहव्या मरुतश् शुचीनां शुचिँ हिनोम्यध्वरँ शुचिभ्यः। ऋतेन सत्यमृतसाप आयन्। शुचिजन्मानश् शुचयः पावकाः [[TODO: परिष्कार्यम्]]

इति शुद्धाम्बरं प्रोक्ष्य –

प्रणवादिकं वायु-बीजम् उच्चार्य वायुवे नम इति मूल-मन्त्र-शिरस्केन मन्त्रेण वायु-मुद्रां प्रदर्श्य “चण्ड-वायुनाशोषया"मिति विशोष्य एवम् अग्नि-बीजम् “अग्नये नम” इति मूल-मन्त्र-शिरस्केन चक्र-मुद्रां प्रदर्श्य

आदित्य-मण्डलान्तर्गत-रक्त-पद्म-स्थितेन अग्निना दाहयामि

इति दग्ध्वा एवमेवामृत-बीजम् “अमृताय नम” इति मूल-मन्त्र-शिरस्केन सुरभि-मुद्रां प्रदर्श्य

चन्द्र-मंडलान्तर्गत-श्वेत-पद्म-स्थितेनामृतेन प्लावयामि

इति प्लावयेत्। एवम् एव सर्वं स्व-शरीर-वर्जं शोषणादिभिर् विशोधयेत्। अथ

वस्त्र-धारण-विधिः

देवस्यत्वासवितुः प्रसवे। अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे [[TODO: परिष्कार्यम्]]

इति वस्त्रम् आदाय

उदुत्यं जातवेदसं देवं वहन्ति केतवः। दृशेविश्वायसूर्यम् [[TODO: परिष्कार्यम्]]

इति भानवे प्रदर्श्य

अवधूतँ रक्षाऽवधूता अरातय” [[TODO: परिष्कार्यम्]]

इति निर्धूय

आवहन्ती वितन्वाना कुर्वाणाचीरमात्मनः। वासाँसि मम गावश्च अन्नपाने च सर्वदा [[TODO: परिष्कार्यम्]]

इति परिधाय स्नान-वस्त्रम् ऊर्ध्वम् उद्धृत्य तीरे निक्षिप्य कौपीनम् उत्तरीयञ् च बिभृयात्।

[[80]]

अत्र पराशरः –

कटि-सूत्रन् तु कौपीनम् उपवीतं पवित्रकम्।
शिखा-छिद्रोर्ध्व-पुड्रञ् च शुक्ल-वस्त्र-द्वयं तथा॥
कुण्डले चाङ्गुलीयादि गृह-स्थस्य विशिष्यते॥

सङ्ग्रहे –

अधौतं कारुधौतञ् च कर्म-काले विवर्जयेत्।
चण्डाल-निर्मितं वासस् सर्वदा परिवर्जयेत्॥

तत्त्रैव –

तामसं वस्त्रम् एकञ् च राजसं वसन-द्वयम्।
कौपीन-सहितं यत् तत्-सात्विकं मुनिभिः स्मृतम्॥
अन्तर् वासस् तु कौपीनम् उपवीतं पवित्रकम्।
शिखा-छिद्रोर्ध्व-पुण्ड्रञ् च शुद्धं वैदिक-लक्षणम्॥
स-कौपीनं धौत-वस्त्र-द्वयञ् च कटि-बन्धनम्।
व्यति-स्यूतं विधृत्यैव कर्म-कुर्वीत वैष्णवः॥
त्रिभिर् वा पञ्चभिर् वा ऽपि कार्पासैर् एव तन्तुभिः।
कटि-सूत्रं व्यति-स्यूतं धारयेद् वैष्णवोत्तमः।
त्रि-सूत्रं त्रिगुणीकृत्य पञ्चभिस् सप्तभिस् तु वा[[??]]।
कटि-सूत्रं व्यति-स्यूतं धारयेन्नान्यथा कृतम्॥

अन्यथा कृतं व्यति-स्यूतं न धारयेद्

इत्य् अर्थः। व्यासः –

स्नानं कृत्वा ऽऽर्द्र-वस्त्रन् तु ऊर्ध्वम् उद्धारये द्विजः।
स्नान-वस्त्रम् अधस्ताच् चेत् पुनस् स्नानेन शुद्ध्यति॥

वसिष्ठः –

सोत्तरीयं स-कौपीनं धौत-वस्त्रन् तु धारयेत्॥

शाण्डिल्यः –

अन्तर् आच्छाद्य कौपीनं वाससी परिधाय च॥

हारीतः –

धौत-वस्त्रं सोत्तरीयं कौपीनञ् च धरेत् सितम्॥

मात्स्ये –

एवं स्नात्वा ततः पश्चाद् आचम्य तु विधानतः।
उत्थाय वाससी शुक्ले शुद्धे तु परिधापयेत्॥

व्याघ्रः –

ततो वस्त्र-द्वयं शुद्धं गृहीत्वा द्विर् उपस्पृशेत्॥

शाण्डिल्यः –

चतुर् निमज्य विधिवद् आचम्यादाय वाससः।
खण्ड-द्वयं शिरोङ्गञ् च प्रत्येकं परिमार्जयेत्॥
अन्तर् आच्छाद्य कौपीनं वाससी परिधापयेत्।
उत्तरीयं सदा दध्यात् तद् विना नाचरेत् क्रियाः॥

भरद्वाजः –

मार्जयेद् वस्त्र-शेषेण नोत्तरीयेण वै शिरः।
स्नातो साङ्गानि संमृज्यात् स्नान-शाट्या न पाणिना॥
न च निर्धुनुयात् केशान् न तिष्ठन् परिमार्जयेत्।
मार्जयेद् वस्त्र-खंडेन नान्यथा मार्जयेत् क्वचित्॥
यदि प्रमादान् मृज्येत नरकं न व्रजत्य् अधः॥

[[81]]

चंद्रिकायाम् –

नोत्तरीयम् अधः कुर्यान् नोपर्याधस्-स्थम् अम्बरम्।
नान्तर् वासो विना जातु निवसेद् वसनं बुधः॥
न चानुलिम्पेद् अस्नात्वा स्नात्वा वा सो न निर्धुनेत्।
आर्द्र एव तु वासांसि स्नात्वा सेवेत मानवः॥

उत्तरीयम् अधो वस्त्रार्थं न कुर्याद् अधो वस्त्रम् अपि न जातूत्तरीयार्थं कुर्याद्

इत्य् अर्थः। जाबालिः –

स्नात्वा निरस्य वस्त्रन् तु जङ्घे शोध्ये मृदम्भसा।
अपवित्रीकृते ते तु कौपीन-स्राव-वारिणा॥

योग-याज्ञवल्क्यः –

स्नात्वैवं वाससी धौते अच्छिन्ने परिधापयेत्।
प्रक्षाल्योरू मृदा ऽद्भिश् च हस्तौ प्रक्षालयेत् ततः॥

“अच्छिन्ने” इति शक्त-विषयम्। प्रकृष्टञ् च शक्त-विषये।

न जीर्ण-मलवद् वासा भवेच् च विभवे सति

इत्यादि स्मृतेः।

भृगुः –

ब्राह्मणस्य सितं वस्त्रं नृपते रक्तम् उल्बणम्।
पीतं वैश्यस्य शूद्रस्य नीलं मलवद् इष्यते॥

प्रजापतिः –

क्षौमं वासः प्रशंसन्ति तर्पणे सदशं तथा।
काषायं धातु-रक्तं वा नोल्बणं तत्र कर्हिचित्॥

जातुकर्णः –

काषायं कृष्ण-वस्त्रं वा मलिनं केश-दूषितम्।
छिन्नाग्रं चोपवस्त्रञ् च कुत्सितं धर्मतो विदुः॥

देवलः —

स्वयं धौतेन कर्तव्या क्रिया धर्म्या विपश्चिता।
न तु नेजक-धौतेन न हतेन न कुत्रचित्॥

न हतेनेति समस्त-पदम्। भृगुः –

अधौतं कारुधौतञ् च कर्म-काले विवर्जयेत्।
दिवा कीर्ति-कृतं (चण्डाल-निर्मितं) वासस् सर्वदा परिवर्जयेत्॥

अहत-वास-लक्षणम्

अहतस्य लक्षणम् आह पुलस्त्यः –

ईषद् धौतं नवं श्वेतं सदशं यन् न धारितम्।
अहतं तद् विजानीयात् सर्व-कर्मसु पावनम्॥

सत्यतपाः –

अहतं यन्त्र-निर्मुक्तम् उक्तं वासस् स्वयम्भुवा।
शस्तं तन् माङ्गलिक्येषु तावत् कालं न सर्वदा॥

[[82]]

एक-वस्त्र-धारण-निषेधः

माधवीये पराशरः –

होम-देवार्चनाद्यासु क्रियासु पठने तथा।
नैक-वस्त्रः प्रवर्तेत द्विजश् चाचमने जपे।

बोधायनः –

कीर्तन्यमुत्तरं वासः पञ्चस्व् एतेषु कर्मसु।
स्वाध्यायोत्सर्ग-दानेषु भुक्त्य्-आचमनयोस् तथा॥

अकच्छः पुच्छ-कच्छो वा द्वि-कच्छः कटि-वेष्टितः।
यावद् आस्ते द्विजस् तावच् छूद्र एव न संशयः॥

नग्न-स्वरूप-निरूपणम्

भृगुः –

विकच्छो ऽनुत्तरीयश् च नग्नश् चावस्त्र एव च।
श्रौतं स्मार्तं तथा कर्म ननग्नश् चिन्तयेद् अपि॥

नग्न-लक्षणम् आह स एव -

नग्नो मलिन-वस्त्रस् स्यान् नग्नश् छार्द्र-पटः स्मृतः।
नग्नस् तु दग्ध-वस्त्रस् स्यान् नग्नस् स्यूत-पटस् तथा॥
अकच्छः पुच्छ-कच्चो वा (पा॥ तिर्यक् कच्छोर्ध्व-कच्छकः) द्वि-कच्छः कटि-वेष्टितः।
कौपीनं केवलञ् चैव (पा॥ कटि-सूत्रे बद्ध-कच्छो) नग्नः पञ्च-विधः स्मृतः॥

चन्द्रिकायाम् –

होम-देवार्चनाद्यासु क्रियासु पठने तथा।
नैक-वस्त्रः प्रवर्तेत द्विज-आचमने जपे॥

गोभिलः –

एक-वस्त्रो न भुञ्जीत न कुर्याद् देवतार्चनम्।
न चार्चयेद् द्विजा नग्नौ कुर्याद् एवं विधो नरः॥

एक-वस्त्र-लक्षणम्; गोभिलः –

सव्याद् अंसाद् भ्रष्ट-पटं कटि-देश भृताम्बरम्।
एक-वस्त्रन् तु तं विद्याद् दैवे पित्र्ये च वर्जयेत्॥
मुक्त-कच्छो यदा कुर्यात् कर्म कार्यं क्वचिन् नरः। वृथा भवति तत्-सर्वं गुह्यास्थान-प्रदर्शनात्॥

धौत-वस्त्राभावे क्षौमादि-धारणानुज्ञा

वसिष्ठः –

अभावे धौत-वस्त्रस्य शाण-क्षौमाविकानि च।
कुतपं योग-पट्टञ् च विवासास् तु न वै भवेत्॥

कुतपो नेपालकं बलः,: धारयेद् इति शेषः। उशनाः –

स्नात्वा ऽनुपहतं सूक्ष्मं परिदध्याद् यथा-विधि।
अभावे पूर्व-वस्त्रं वा संप्रोक्ष्य[[??]] प्रणवेन तु॥

[[83]]

स्मृति-रत्नावल्याम् –

सप्त-वाताहतं वस्त्रं शुष्कवत् प्रतिपादितम्।
आर्द्रं वा ऽपि द्वि-जातीनाम् आदृतं गौतमादिभिः॥

याज्ञवल्क्यः –

जप्ये होमे तथा दाने दैवे पीत्र्ये च कर्मणि।
बध्नीयान्नासुरीं कक्ष्यां शेष-काले यथेच्छया॥

तल्लक्षणम् –

परिधानाद् बहिः कक्ष्या निबद्धा ह्यासुरी भवेत्।
धर्म्ये कर्मणि विद्वद्भिर् वर्जनीया प्रयत्नतः॥

स्कन्द-देशे अर्द्र-वस्त्र-धारण-निषेधः

स्कन्धे कवाटे पाषाणे आर्द्र-वस्त्रं न निक्षिपेत्।
निक्षिपेद् यदि मूढात्मा न स्नान-फलभाग् भवेत्॥

स्मृति-रत्ने –

निपीडितं धौत-वस्त्रं यदा स्कन्धे विनिक्षिपेत्।
तद् आसुरं भवेत् कर्म पुनस् स्नानं विशोधनम्॥

अथ मृद्भिर् अद्भिः पाणी प्रक्षाल्य स्नान-शाटीं त्रिभिर् मृद्भिस् संशोध्य तां पाषाणादौ षोडश-प्रहारैर् अधिकैर् वा संस्कृत्य चतुर्गुणी कृत्य निवीती दक्षिणास्यो तीरस्थः

ये के चास्मत् कुले जाता अपुत्रा गोत्र-जा मृताः।
ते गृह्णन् तु मया दत्तं वस्त्र-निष्पीडनोदकम्

इति तीरे स्थले निष्पीड्य वाम-प्रकोष्ठे निक्षिप्य द्विर् आचामेत्। रत्नाकरे –

धौतं चतुर्-गुणी-कृत्य पीडयित्वा जलाद् बहिः।
वाम-प्रकोष्ठे निक्षिप्य द्विर् आचम्य विशुद्ध्यति॥
प्रातस् सन्ध्याम् उपासीत वस्त्र-संशोध-पूर्वकम्।
उपास्य मध्यमां सन्ध्यां वस्त्र-निष्पीडनं परम्॥

भरद्वाजः –

प्रातः स्नातुम् अशक्तश् चेत् कापिलं स्नानम् आचरेत्।
नाभेर् अधः प्रविश्याप्सु कटिं प्रक्षाल्य मृज्-जलैः॥
आर्द्रेण कर्पटेनाङ्ग-मार्जनं कापिलं स्मृतम्।
तत्राप्य् असामर्थ्ययुतो मन्त्रैस् स्नायात् तु पावनैः॥

स्नान-प्रयोजन-निरूपणम्

रत्नाकरे –

स्नास्यतो वरुणश् शोभां जुह्वतो ऽग्नि श्रियं हरेत्।
भुञ्जतो मृत्युर् आयुष्यं तस्मान् मौनं त्रिषु स्मृतम्॥

[[84]]

मन्त्र-स्नान-प्रकारः

वामने –

[[??]] स्नात्वा तु विधिना मानवं स्नानम् आचरेत्॥
ख-स्थितं पुण्डरीकाक्षं मन्त्र-मूर्तिं हरिं स्मरेत्॥
अनन्तादित्य-सङ्काशं वासुदेवं चतुर्-भुजम्॥
शङ्ख-चक्र-गदा-पद्म-धारिणं वन-मालिनम्।
श्यामलं शान्त-हृदयं प्रसन्न-वदनं शुभम्॥
दिव्य-चन्दन-लिप्ताङ्गं चारुहासं शुभेक्षणम्।
वन-माला-परिवृतं नारदादिभिर् अर्चितम्॥
किरीट-हारिणं देवं सुवर्ण-मकुटोज्वलम्।
सुवर्ण-कङ्कणैर् दीप्तं किङ्किणीभिर् विराजितम्॥
गरुत्मता विनतया स्तूयमानम् अहर्-निशम्।
अनेक-रत्न संछन्नं स्फुरन्-मकर-कुण्डलम्॥
ध्वज-वज्राङ्कुशैर् लक्ष्य-पाद-पद्मं सुनिर्मलम्।
तत्-पादोदक-जां गङ्गां निपतन्तीं स्व-मूर्धनि॥
चिन्तयेद् ब्रह्म-रन्ध्रेण प्रविशन्तीं स्वकां तनुम्।
तया संक्षाळयेद् देहं बाह्यम् आभ्यन्तरं मलम्॥
तत्-क्षणाद् विरजो मर्त्यो जायते स्फटिकोपमः॥
इमं मानसिकं स्नानं प्रोक्तं हरि-हरादिभिः।
इदं स्नान-वरं मन्त्रात् सहस्राद् अधिकं स्मृतम्॥
सार्थ-त्रि-कोटि-तीर्थेषु स्नानात् कोटि गुणाधिकम्।
रजस्-तमो मोह-जातान् जाग्रत्-स्वप्न-सुषुप्तिजान्॥
वाङ्-मनः कर्मजान् दोषान् न वै तान् नवभिर् दहेत्।
यो नित्यम् आचरेत् तं तु स वै नारायणः स्मृतः॥
ज्ञानपूते[[??]] ज्ञान-जले राग-द्वेष-मलापहे।
यः स्नाति मानसे तीर्थे नयाति परमं पदम्॥

इति।

स्नान-तर्पणे स्नान-वस्त्र-निष्पीडने च प्रपन्न-विषये विशेषः

अत्र वङ्गीश्वरः – स्नान-तर्पणे स्नान-वस्त्र-निष्पीडने च प्रपन्नं प्रतिविशेषम् आह॥ तद् यथा – स्नान-तर्पणम् ऊर्ध्व-पुंड्रानन्तरं कार्यम्।

धृतोर्ध्व-पुण्ड्रो देवर्षीन्[[??]] पितॄन् संतर्प्य मन्त्रत

इति तद् अविरुद्धम् –

[[85]]

शुचि-वस्त्र-धरस् स्नातः परिधायां परं शुचि।
तेषाम् एव हि तीर्थेन कुर्याद् उदक-तर्पणम्

इति श्री-विष्णु-पुराण-वचने। “अम्भस्-स्थ एव तर्पये”दित्य् आदि वचनानाम् अवैष्णव-विषयत्वात्;

योगो दानं तपो होमस् स्वाध्यायः पितृ-तर्पणम्।
भस्मी भवति तत्-सर्वम् ऊर्ध्व-पुण्ड्रं विना कृतम्

इति मन्वादिभिश् श्री-पाञ्च-रात्रे च बहुधा प्रतिपादित्वात् परमैकान्तिना न किञ्चित् कर्मापि ऊर्ध्व-पुण्ड्रं विना कार्यम् इति। तथा वस्त्र-निप्पीडनम् अपि प्रपन्नेन सन्ध्यावन्दनानन्तरम् आधार-शक्त्यादि-तर्पण-पूर्वकं भगवदात्मक-देवर्षि-पितृ-तर्पणं कृत्वा कार्यम्। तत

आधार-शक्त्यादीन् तर्पयित्वा स्व-नामभिः। नमोन्तैः प्रणवोपेतैर् निष्पीड्य स्नान-शाटिकाम्

इति। तथैव श्री-भाष्य-कारैर् अपि नित्ये प्रतिपादितम् – “अथ परमैकान्तिना”मित्यारभ्य

अष्टोत्तर-शतं मूल-मन्त्रम् आवृत्य परिक्रम्य नमस्कृत्य

इत्यन्तेन स्नानादि सन्ध्यावन्दनम् उक्त्वा,

अथ आधार-शक्त्यादि पृथिव्यन्तं तर्पयित्वा श्री-वैकुण्ठादि पार्षदांस् तर्पयित्वा देवान् ऋषीन् पितॄन् भगवदात्मकान् ध्यात्वा सन्तर्प्य शुचौ देशे वस्त्रं सम्पीड्य आचम्यावाहित-तीर्थ-गणानात्मनि समाहृत्य

इति। एतदप्य् अविरुद्धम् एव;

निराशाः पितरो यान्ति स्नान-वस्त्रे निपीडिते।
तस्मान् न पीडयेद् वस्त्रम् अकृत्वा पितृ-तर्पणम्

इति स्मरणच् च। यत् त्व् इदं वचनं

प्रातस् सन्ध्याम् उपासीत वस्त्र-संशोध-पूर्वकम्।
उपास्य मध्यमां सन्ध्यां वस्त्र-निष्पीडनं परम्

इति तद्-अप्रपन्न-विषयम्। तप्य सन्ध्यावन्दनानन्तरम् आधार-शक्त्यादि-पूर्वक-देवर्षि-पितृ-तर्पण-स्वाभाव्यात्। प्रपन्नस्य तु तस्यावश्यकर्तव्यत्वाद् अप्रपन्नेनापि सङ्क्रान्त्यादि-नैमित्तिक-नित्यादि-तर्पण-प्राप्तौ

सन्ध्यावन्दनानन्तरं पितृ-तर्पणं कृत्वैव वस्त्र-निष्पीडनं कार्यम्

इति वैदिक सार्वभौमैस् सुधी-विलोचने सम्यक् प्रतिपादितम्। एवम् एव “तद् उभयम् अपि प्रपन्नेन कार्यम्” इति श्री-पञ्च-रात्र-रक्ष्यायां वेदान्ताचार्यैस् सम्यक् प्रतिपादितम्। तस्माद् “एतद् उभयं प्रपन्नैक-विषयम्” इति न चोद्यावकाशः,

[[86]]