वृद्ध-शातातपः –
मुखे [[??]]षिते नित्यं भवत्यप्रयतो नरः।
तस्माच्छुष्कम् अथार्द्रं वा भक्षयेद् दन्त-धावने॥
याज्ञवल्क्यः –
कण्टक-क्षीर-वृक्षोत्थं द्वादशाङ्गुलम् अव्रणम्।
कनिष्टिकाग्रवत् स्थूलं पराग्र-कृत-कूर्चकम्॥
दन्त-धावनम् उद्दिष्टं जिह्वा-लेखनिका तथा॥
स्मृति-दर्पणे –
पलाश-कार्पास-विभीतकाश् च
श्लेष्मातकारिष्ट-कपित्थ-दूर्वाः।
कदम्ब-बन्धूक-गुडाक-ताल
वटेङ्गुदोत्थाः परिवर्जनीयाः॥
प्रयोगः॥ पादौ पाणी प्रक्षाल्य द्विराचम्य वस्त्र प्रावृत-शिराः[[??]] ईशान्याभिमुखः अन्तर् जानु-कर “आयुर् बल"मिति मन्त्रेण दन्त-काष्ठम् आदाय तेनैव मन्त्रेण खात्वा ऊर्ध्व-क्रमेण वाम-भागम् आरभ्य प्रदक्षिण-क्रमेण कुक्कुटासनस्थो दन्तान् धावयित्वा तस्य वैशाखां विदार्य भागेनैकेन मार्जयित्वा द्वितीयेन जिह्वां प्रक्षाल्य काष्ठं भुक्त्वा शुचौ देशे विसृजेत्।
विधवादीनां दन्त-धावन-निषेधः
रत्नाकरे –
विधवा कन्यका ब्रह्म-चारिणां नान्य-शोधनम्॥
भरद्वाजः –
यावन्तो नियमाः प्रोक्ता द्विज-श्रेष्ठस्य भुञ्जतः।
प्रेक्ष्या प्रेक्ष्या च कर्तव्या दन्त-धावन-कर्मणि॥
दन्त-धावने निषिद्ध-तिथयः
दर्पणे –
नन्दासु भूताष्टमि पर्वरिक्ता
सङ्क्रान्ति जन्मर्क्ष दिनेषु यागे।
श्राद्धे विवाहे च शुभाशुभेषु
त्यजेन्निशायाम् अपि दन्त-काष्ठम्॥
दिने निषिद्धे ऽपि च दन्त-काष्ठा
भावे ऽप्य् अपां द्वादश-कृत्व एव।
गण्डूषणाच्छुद्धिर् अपोमयेन
स्त्रीणां भवेद् इष्टक-सैकताभिः॥
[[61]]
दन्त-धावन-मन्त्रः
“आयुर्बणाल"मिति मन्त्रस्य
प्रजापति ऋषिः अनुष्टुप् छन्दः वनस्पति देवता दन्त-काष्ट-भञ्जने विनियोगः।
आयुर् बलं यशो वर्चः प्रजाः पशु वसूनि च।
ब्रह्म-प्रज्ञाञ् च मेधां च त्वन्नो देहि वनस्पते॥
वृद्ध-याज्ञवल्क्यः –
इष्टि-कालोष्ट-पाषाणैर् इतराङ्गुलिभिस् तथा।
मुक्त्वा चानामिकाङ्गुष्ठौ वर्जयेद् दन्त-धावनम्॥
रत्नाकरे –
तृण-पर्णैस् सदा कुर्याद् अमा एकादशीं विना।
तयोर् अपि च कुर्वीत जम्बू-प्लक्ष-रसातलैः॥