याज्ञवल्क्यः –
अन्तर् जानु शुचौ देशे उपविष्ट उदङ्मुखः।
प्राङ्मुखो ब्रह्म-तीर्थेन द्विजो नित्यम् उपस्पृशेत्॥
भृगुः –
विना यज्ञोपवीतेन तथा धौतेन वाससा।
मुक्त्वा शिखां वा ऽऽचान्तेन कृतस्यैव पुनः क्रियाः॥
रत्नाकरे –
तर्जनीं वर्जयेद् धीमान् आचामे दन्त-धावने।
जपे च होम-काले च प्राणायामे विशेषतः॥
भरद्वाजः –
सपवित्रस् सदर्भा वा कर्माङ्गाचमनं चरेत्।
नोच्छिष्टं तत्-सदर्भश् च भुक्तोच्छिष्टन् तु वर्जयेत्॥
यत् तु
ग्रन्थि-युक्त-पवित्रेण कुर्याद् आचमनं यदि।
तत्-पवित्रं परित्यज्य पुनर् आचम्य शुद्ध्यति॥
इति तत्-केवलाचमन-विषयम्। कर्माङ्गाचमने स दोषः।
याज्ञवल्क्यः –
कनिष्ठ-देशिन्यङ्गुष्ठ-मालान्य् अग्रं करस्य तु।
प्रजा-पति-पितृ-ब्रह्मा देवतीर्थान्य् अनुक्रमात्॥
भरद्वाजः –
पिबेद् आचमने वारि विक्षितं ब्रह्म-तीर्थतः।
रात्राववीक्षितेनैव शुद्धिर् उक्ता मनीषिभिः॥
यमः –
तावन्नोपस्पृशेद् विद्वान् यावद् वामेन संस्पृशेत्।
वामे हि द्वादशादित्या वरुणश् च जलेश्वरः॥
व्यासः –
गो-कर्णाकृति-हस्तेन माष-मग्न-जलं पिबेत्।
तन्न्यूनम् अधिकं पीत्वा सुरापान-समं भवेत्॥
संयताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः।
मुक्त्वाङ्गुष्ठ-कनिष्ठाभ्यां माष-मग्नम् उदाहृतम्॥
अङ्गुष्ठाग्रं समा-कुञ्च्य मध्यमा-मध्य-पर्वणि।
संयोज्याचमनं कुर्याद् एतद्-गो-कर्ण-लक्षणम्॥
*योजयित्वा ऽऽचमेद् विप्रो एष गो-कर्ण-संज्ञकः॥
[[57]]
याज्ञवल्क्यः -
हृत्-कण्ठ-तालु-तालुगाद्भिस् तु यथा-सङ्ख्यं द्विजातयः।
शुद्ध्येरन् स्त्री च शूद्राश् च सकृत् स्पृष्टाद्भिर् अन्ततः॥
अन्ततस् तालुना सकृत् स्पृष्टाभिर् अद्भिर् इत्य् अर्थः
याज्ञवल्क्यः –
शिरः कण्ठञ् च प्रावृत्य मुक्त-शिखो वा ऽकृत-पाद-शौचो वा जान्वोर् अधस्ताज्जले शुष्क-वासा आर्द्र-नानास् स्थले वा नाचामेत्। भरद्वाजः –
ताम्र-चर्माश्ववालैश् च नालिकेराम्र-पात्रकैः।
उपस्पृशेत् स्व-हस्त-स्थैर् एतैर् अपि विचक्षणः॥
स्मृति-रत्ने –
एला-लवङ्ग-कर्पूर-गन्धाद्यैर् वासितैर् जलैः।
नाचामेद् अद्भिर् उष्णाभिर् यथा-शौचावशेषितैः॥
शस्तम् आचमनं तोयैर् उष्णैर् एवोष्ण-पायिनाम्॥
भरद्वाजः –
पक्वं स-फेनं कलुषं सु-दुर्गन्धं स-बुद्बुदम्।
उष्णं स-मृत्तिकं क्षारं त्यजेद् आचममे जलम्॥
तिष्ठन् नमन् हसन् जल्पन् अन्त्यज-भाषणं शृण्वन् अन्यं स्पृशन् दिशः पश्यन् काकश्वखर विट्क्रोड ताम्र-चूड रजस्वला व्रात्यान्त्यजाति पतितान् वा पश्यन् आसनस्थो वा नाचामेत्,यत्विदं वचनं
उपविश्यासने शुद्धे कुर्याद् आचमनं बुध
इति तद् भुक्त्वा ऽऽचमन-विषयम्।
भुक्त्वा ऽऽसनस्थो ऽप्याचामेन्नान्य-काले कदाचन
इति वचनात् ।
[[58]]
आचमन-प्रकारः
आश्वलायनः – अथाचमन-विधिं व्याख्यास्यामो हस्तौ पादौ प्रक्षाल्य प्राङ्मुख उदङ्मुखो वा बद्ध-शिखो नियत-यज्ञोपवीती नानन्तर्जानुः स-विरलाङ्गुलीभिः स-बुद्बुदं न चोष्णं न तिष्ठन् नावलोकयन् नान्यद् विलोकयन्नाचामेत्॥ ब्राह्मणस्य दक्षिणे हस्ते पञ्च-तीर्थानि सन्ति । अङ्गुल्य्-अग्रे दैवं तीर्थं अङ्गुलि-मध्ये आर्षम् अङ्गुष्ठाङ्गुल्योर् मध्ये पैतृकं मध्ये ऽग्नि-तीर्थं कर-तल[[??]]सु ब्रह्म-तीर्थं गो-कर्णाकृतिमज्जलेन माष-मग्नेन त्रिर् आचामेत्। प्रथमं यत् पिबति तेन ऋग्-वेदं प्रीणाति द्वितीयं यत् पिबति तेन यजुर्-वेदं प्रीणाति तृतीयं यत् पिबति तेन साम-वेदं प्रीणाति द्विः परिमृजति तेनाथर्वणेतिहास-पुराणानि प्रीणाति यत्-पादाव् अभ्युक्षते तेन विष्णुं यन्मुखं तेनाग्निं यद्धृदयं तेन सरस्वतीं यन्नासिके तेन प्राणान् यच्चक्षुषि तेन चन्द्रादित्यौ यच्छ्रोत्रं तेन पृथिवीं यद्धृदयं तेन रुद्रं यच्छिरस् तेन सप्तर्षीन् यद्-बाहू तेन ब्रह्माणं यच्छिरस् तेन कुबेरादि सर्वा देवताः प्रीणाति ॥
अत्र पैठीनसिः –
शुचौ देशे आसीनो दक्षिणं बाहुं जान्वन्तरे कृत्वा यज्ञोपवीती प्राङ्मुख उदङ्मुखो वा वाग्यतः प्रक्षाल्य पादौ पाणी च मणि-बन्धाद् दक्षिण-हस्त-तलं गो-कर्णाकारं विन्यस्य ब्राह्मेण-तीर्थेन अशब्दं माष-मग्न-मात्रं हृदयङ्गमास् त्रिर् आपो ऋग्-यजुस्-सामवेदान् ध्यायन् पीत्वा अथर्व-वेदेतिहास-पुराणानि ध्यायन् ब्रह्म-तीर्थेनोष्ठा संमृज्य मध्यमाभिस् त्रिभिर् अङ्गुलीभिस् सकृदोष्ठाव् उपस्पृश्य मुखं परिमृजेत्। अग्निन् ध्यायन् ततो दक्षिणेन पाणिना सव्यं पाणिं प्रोक्ष्य पादौ विष्णुं ध्यायन् प्रोक्षयेत्। ततश् शिरश् च प्रोक्ष्य अङ्गुष्ठोपकनिष्ठिकाभ्यां नयने चन्द्रादित्यौ ध्यात्वोपस्पृशेत्॥ तत अप उपस्पृश्य तर्जन्यङ्गुष्ठाभ्यां नासिके प्राणान् ध्यात्वा तत अप उपस्पृश्य अङ्गुष्ठेन केवलेन नाभिं पृथ्वीं ध्यात्वा अप उपस्पृश्य तलेन हृदयं परमात्मानं ध्यात्वा तत अप उपस्पृश्य सर्वा अङ्गुलीश् श्रियं ध्यायन् मूर्ध्नि प्रक्षिपेत्। ततस् सव्ये पाणौ शेषा अपो निनयेद्
इति। भरद्वाजः –
चण्डालैर् अन्त्यजैर् उक्ता मल-मूत्र-विमोचने।
दक्षिणे श्रवणे विप्रो ब्रह्म-सूत्रं विनिक्षिपेत्॥
[[59]]
द्विराचमन-विधिः
स्मृति-दर्पणे –
रेतश् शकृन् मूत्र-विसर्जने च क्षुधाश्रुपातानृत भाषणेषु। स्पृष्ट्वा बिडालान् पिशुनं नरञ् च रध्याश्मशानाक्रमणेषु[[??]] सुप्त्वा॥
निष्ठीव्य नीवीं परिधा वायुं विसृज्य पायाद् अवतीर्य चाम्भः।
द्विराचमे दन्तत एव पाने स्नाने द्विरन्ते सकृद् एव पूर्वम्॥
स्वाध्याय-देवार्चन-होम-दान-जपे द्विरादाव् उभयत्र पित्र्ये।
यज्ञोपवीतस्य विधारणे ऽपि सकृद् द्विर् आचामति भोजनादौ॥
भुक्त्वा च सन्ध्या-त्रितयेषु तद्वन् न सोमपानेषु तिलौषधीषु।
ताम्बूल-जग्धावपि भुक्त-शेषन्नेहानुलेपेन च दन्त-लग्ने।
सोमार्क-वेदा नल-वायवश् च विप्रस्य वामेतर-कर्ण एते॥
तिष्ठन्ति तस्माज् जप-होम-काले श्रोत्रं स्पृशेद् आचमना समर्थः॥
पाने स्नाने क्षुदि भुजि कृतौ मूत्र-रेतः पुरीष
त्यागे ष्ठीवे रुदित-वमन श्वासखा सानृतेषु।
रथ्या रुद्र-क्षिति विचरणे पञ्चनख्यस्थि शुष्के
स्पृष्ठे चोष्ठे वसव-विधृतौ स्यादुपस्पर्शनं द्विः॥
स्मृति-रत्ने –
दाने प्रतिग्रहे होमे जपे सन्ध्या-त्रये तथा।
बलि-कर्मणिचाचामेद् आदौ द्विस् सकृद् अन्ततः॥
देवलः –
नान्तरीयैक-देशस्य कुर्याच् चैवोत्तरीय ताम्।
केशान् नीवीम् अधः कायं न स्पृशेद्धरणीम् अपि॥
यदि स्पृशति चैतानि भूयस् त्वाचमनं चरेत्॥
मार्कण्डेयः –
पक्वान्नेन गृहीतेन विण्मूत्रं विसृजेत् तु यः।
अनिधायैन तद्-द्रव्यम् अङ्के कृत्वा समाश्रितम्॥
शौचं कृत्वा यथा-न्यायम् उपस्पृश्य यथा-विधि।
अन्नम् अभ्युक्षयेच् चैवम् उद्धृत्यार्कस्य दर्शयेत्॥ त्यक्त्वाग्रमात्रं वातस्माच्छेषं प्रोक्ष्य विशुध्यति॥
[[60]]