०५ मल-मूत्रोत्सर्जन-विधिः

प्रागादिकां शौच-क्षमां दिशं गत्वा श्मशान-हल-कृष्ट-मार्ग-भस्मोषर-सस्य-गुल्म-सैकत-चत्वरोदकान्त-गो-वास-देवालय-पार्श्व-नदी-पार्श्व-वल्मीक-करीष-रन्ध्रच्चाया-स्त्री-ब्राह्मण-सन्निधान-कृष्ण-भूमि-पर्वत-मस्तकादिकं विहाय दूरादावसधा दनार्द्रैर् अयाज्ञीयैस् तृणादिकैः

भूत-वेताल-सर्पाद्या यक्ष-राक्षस-गुह्यकाः।
परित्यजन् त्विमं देशं बहिश् शङ्कां करोम्य् अहम्॥

इति ब्रह्माण्डोक्तेन भुवं सञ्छाद्य उपवीतं दक्षिणे कर्णे निक्षिप्य गो-ब्राह्मणाद्य्-अनभिमुखो मौनी ष्ठीवनादिकम् अकुर्वन् दिवा-सन्ध्ययोश् चोदङ्मुखो रात्रौ दक्षिणा-मुखः सूर्य-चन्द्राग्न्यादिकम् अपश्यन् यथा वायुस् तथा मुखः वेष्टित-शिराः विण्-मूत्रे विसृजेत्।

शौच-विधिः

रत्नाकरे –

उत्थाय वाम-हस्तेन गृहीत्वा ऽध्वनि-मेहनम्।
शौच-देशं समभ्येत्य कुर्याच्छौचं मृद्-अम्बुभिः॥

शौचार्ह-मृन्निरूपणम्

ऋश्यशृङ्गः –

यस्मिन् देशे कृतं शौचं वारिणा तन्तु शोधयेत्।
अशुद्धस् तु भवेत् तावन् मृत्तिकां यो न शोधयेत्॥

अथवा ऽऽखु-पशु-कृष्ट-वल्मीक-कर्दम-मार्गोषर-परिशौचावशिष्ट-सिकता-मेध्य-भूताधिकां परिहृत्य शौच-योग्यां पूर्व-गृहीतां मृदं दक्षिण-हस्तेनादाय वामेन शिश्नाग्रं गृहीत्वा शौच-स्थलङ् गत्वा उद्धृताभिर् अद्भिर् एवं शौचङ् कुर्यात्। तद् अशक्तस् तु तटाकादिकं गत्वा अरत्निमात्रम् उदकं परिहृत्य कुर्यात्।

वाप्यादिषु बाह्य-मृत्तिका-निषेधः

रत्नाकरे यमः –

वापी-कूप-तटाकेषु नाहरेद् बाह्य-मृत्तिकाम्।
अन्तर् जल-गता ग्राह्या परतो मणि-बन्धनात् ।

[[54]]

अत्र पाद्मे विशेषः –

दक्षिणे मृत्तिकां हस्ते समुत्थाय जलाशयम्।
प्राग् उदीच्याम् उदीच्यां वा गत्वा शौचं समाचरेत्॥

उत्सर्गात्पूर्वमेव मृद्-गृहणम्

इदं प्राग्-गृहीत-मृत्तिका-विषयम्। उत्सर्गाद् ऊर्ध्वं तद्-ग्रहणे स्नान-स्मरणात्; तथा देवलः -

मूत्र-करणात् पूर्वम् आदद्यान् मृत्तिकां सदा।
आददानस् तु तां पश्चात् सवासा जलम् आविशेत्॥

स-जलं भाजनं स्थाप्य मृत्तिकाञ् च

इति व्यासः। अतः पूर्व-गृहीत-निक्षिप्त-मृद्-ग्रहण-परमेवैतत्; “जलाशयङ्गत्वे"ति पुनर् जल-ग्रहणार्थं न तु शौचार्थम्। ततः प्राङ् मृत्तिका-ग्रहण-नियमाभावात् “नाहरेद् बाह्य-मृत्तिका"मिति निषेधाच्छ। तत्रैव रत्नाकरे –

असम्पाद्य मृदं पूर्वं विण्-मूत्रं परिहृत्य च।
पश्चाद् गृह्णाति यो मूढस् सवासा जलम् आविशेत्॥

इदम् उद्धृत-शौच-विषयम्। तटाकादिषु पश्चाद् एव “मृद्-ग्रहणमि"ति व्यवस्था। भरद्वाजः –

मल-मूत्रं त्यजेद् यस् तु विस्मृत्यैवोपवीत-धृत्।
तत् सूत्रन् तु परित्यज्य दध्याद् अन्यं नवं पुनः॥

आङ्गिराः –

कृत्वा मूत्र-पुरीषं वा यदा नैवोदकं भवेत्।
स्नात्वा लब्धोदकः पश्चात् सचेलन् तु विधीयते॥

आर्द्र-वाससा मलाद्य्-उत्सर्गे

जाबालिः –

स्नानं कृत्वा ऽऽर्द्र-वासास् तु विण्-मूत्रं सृजते यदि।
प्राणायाम-त्रयं कृत्वा पुनस् स्नानेन शुद्ध्यति॥

उत्सर्ग-काले जल-पात्र-धारण-निषेधः

यमः –

प्रत्यादित्यं न मेहेत नपश्येद् आत्मनश् शकृत्।
दृष्ट्वा ऽदित्यं निरीक्षेत गाम् अग्निं ब्राह्मणं तु वा॥
गृहीतोदक-पात्रस् तु कुर्यान् मूत्र-पुरीषके।
तत्-तोयं मूत्र-तुल्यं स्यात् पीत्वा चान्द्रायणं चरेत्॥

देवलः –

उपविष्टस् तु विण्-मूत्रं कर्तुं यस् तं न विन्दति।
तथापि कुर्याच्छौचार्धं स्वस्य शौचस्य सर्वदा॥
भुञ्जानस्य तु विप्रस्य कदाचित् प्रस्रवेद् गुदम्।
उच्छिष्टम् अशुचित्वञ् च तस्य शौचं कथम्भवेत्॥
पूर्वं कृत्वा तु शौचन् तु पश्चात् स्नानं समाचरेत्।
ततः कृत्वोपवासञ् च पञ्च-गव्येन शुध्यति॥

[[55]]

रत्नाकरे –

एकां लिङ्गे मृदं दद्याद् वाम-हस्ते तु मृत्-त्रयम्।
उभयोर् हस्तयोर् द्वे तु मूत्र-शौचे प्रचक्षते॥
एकां लिङ्गे करे तिस्रः उभयोर् द्वे च मृत्तिके।
पञ्चा [[??]] दशैकस्मिन् उभयोस् [[??]]सप्त-मृत्तिकाः॥
पादयोः पञ्च पञ्च स्युर् इति शौच-विदां स्थितिः॥

इदं गृह-स्थ-विषयम्। मनुः –

एतच्छौचं गृह-स्थस्य द्विगुणं ब्रह्म-चारिणाम्।
त्रिगुणन् तु वसस्थानानं यतीनान् तु चतुर्-गुणम्॥

श्री-वैष्ण-विषये[[??]] शाण्डिल्यः –

पञ्चथा लिङ्ग-शौचं स्याद्-गुद-शौचं त्रि-वेष्टितम्।
मनः प्रसादनं कुर्याद् यावन् मूत्र-विलेपनम्॥
पादयोर् लिङ्गवच्छौचं हस्तयोस् तु चतुर् गुणम्।
कुर्वीत्व् एवं दिवा शौचं रात्रौ चेद् अर्धम् उच्यते॥
अशक्तस्य यथा-शक्ति शौचम् उक्तं तथा ऽध्वनि।
योषिता-मुक्त-शौचार्थं शूद्राणाम् अप्य् उदाहृतम्॥

मृत्-सङ्ख्या मृत्-परिमाणम्

व्यासः –

अर्ध-प्रवृति मात्रा तु प्रथमा मृत्तिका स्मृता।
द्वितीया च तृतीया च तत्-तद्-अर्धा तु कीर्तिता॥
चतुर्थी पञ्चमी चैव तृतीया मृत्तिका यथा।
विट्छौचं प्रथमं कुर्यान् मूत्र-शौचम् अतः परम्॥
पाद-शौचं ततः कुर्याद् हस्त-शौचम् अतः परम्॥

संवर्तः –

ब्रह्म-चारी यतिश् चैव नान्तर् लिङ्गं विशोधयेत्।
अन्तर् लिङ्गस्य शौचेन तयोश् चान्द्रायणं स्मृतम्॥

दक्षिण-हस्तेन शौच-निषेधः

भरद्वाजः –

धर्म-विद्-दक्षिणं हस्तं नाधश् शौचे नियोजयेत्।
तथैव वाम-हस्तेन नाभेर् ऊर्ध्वं न शोधयेत्॥

दक्षः –

नाभेर् अधस्तात् सकलं क्षालयेत् सव्य-पाणिना।
कुर्याद् आचमनादीनि सर्वाणीतर-पाणिना॥

मनुः –

दूूराद् आवसथान् मूत्रं दूरात् पादावने जनम्।
उच्छिष्टान्न-निषेकं च दूराद् एव समाचरेत्॥

एतद्-दिवा-विषयम् – स्मृति-सङ्ग्रहे –

रात्रौ मूत्र-पुरीषे तु गृहाभ्याशे समाचरेत्।
शौच-मूलाः क्रियास् सर्वाश् शौच-मूला द्विजास् स्मृताः॥
शौचाचार-विहीनस्य समस्ता निष्फलाः क्रियाः॥

[[56]]