प्रपन्नस्य विशेषेण पञ्च-कालानुष्ठानस्यावश्य-कर्तव्यतया श्री-पाञ्चरात्रे भगवतैव चतुर्ष्व् अपि सिद्धान्तेषु विहितत्वात्; चतुर् विध-सिद्धान्तः पाद्मे चर्या-पादे –
प्रथमं मन्त्र-सिद्धान्तं द्वितीयं चागमाह्वयम्।
तृतीयं तन्त्र-सिद्धान्तं तुर्यं तन्त्रान्तरं भवेत्॥
तद् इह तत्-तत्-सिद्धान्तोक्त-वर्त्मना चतुर् विध-पञ्च-रात्रिणाम् अपि साधारणम् अभिगमनादिकं पञ्चकम्। मन्त्र-सिद्धान्तादिष्व् अपि हि काल-पञ्चक-विभागो ऽयम् उपदिश्यते; यथोक्तं साक्षाद् भगवन्मुखोद्गततया “रत्न-त्रयम्” इति प्रसिद्धेषु जयाख्य-सात्वत-पौष्करेषु जयाख्य-संहितायां नारदः –
[[51]]
एको हि श्रूयते देव कालो लोके न चापरः।
पञ्च-काला स्वयोद्दिष्टाः किम् एतन् मे ऽत्र संशयः॥
श्री-भगवान् उवाच॥
एकस्यैव हि कालस्य वासरीयस्य नारद।
आप्रभातं निशान्तं वै पञ्चधा परिकल्पना॥
पृथक् कर्म-वशात् कार्या न काला बहवः स्मृताः॥
नारदः॥
एक-कालाश्रितानाञ् च कर्मणां लक्षणं वद।
परिज्ञातैस् तु यैस् सद्यः कृत-कृत्यो भवाम्यहम्॥
श्री-भगवान् उवाच॥
ब्राहन् मुहूर्ताद् आरभ्य प्राग् अंशं विप्र-वासरे।
जप-ध्यानार्चन-स्तोत्रैः कर्म-वाक्-चित्त-संयुतैः॥
अभिगच्छेज् जगद् योनिं तच्चाभिगमनं स्मृतम्।
ततः पुष्प-फलादीनाम् उत्थायार्जनम् आचरेत्॥
भगवद्याग-निष्पत्ति-कारणं प्रहरः परम्।
तद् उपादान-सञ्ज्ञं वै कर्म-काल-पदाश्रितम्॥
ततो ऽष्टाङ्गेन योगेन पूजयेत् परमेश्वरम्।
साधिकं प्रहरं विप्र-इज्या-कालस् तु न स्मृतः॥
श्रवणं चिन्तनं व्याख्या ततः (तपः) पाठ-समन्विता।
स्वाध्याय-सञ्ज्ञं तद् विद्धि कालांशं मुनि-सत्तम॥
दिनावसाने संप्राप्ते पूजां कृत्वा समभ्यसेत्।
योगं निशावसाने च विश्रमैर् अन्तरीकृतम्॥
पञ्चमो योग-सञ्ज्ञो ऽसौ कालांशो ब्रह्म-सिद्धिः।
अत्र श्री-रङ्ग-महात्म्ये –
अभिगमनम् उपादानम् इज्या स्वाध्यायम् अन्वहं योगः।
अनुसन्दधद् अच्छिद्रो भगवति भक्तः परं पदं याति ॥
[[52]]
अभिगमनादि-सङ्कल्पः
अथ सङ्कल्पः -
ॐ कृतञ् च करिष्यामि भगवन्नित्येन भगवत्-प्रीत्यर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन अभिगमनो पादानेज्या-स्वाध्याय-योग-शेष-स्वाध्याय-पर्यन्तेन भगवत्-कर्मणा भगवन्तम् अर्चयिष्यामि
भगवतो बलेन भगवतो वीर्येण भगवतः कर्मणा भगवतः कर्म-करिष्यामि
भगवतो वासुदेवस्य - भगवानेव स्वनियाम्य स्वरूप-स्थिति-प्रवृत्ति-स्व-शेष-भूतैकर-सेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तः करणैः स्वयम् एव स्व-प्रीत्यर्थम् अभिगमनो पादानेज्या-स्वाध्याय-योग-शेष-स्वाध्याय-पर्यन्तं मया कारयति॥
कृतञ् चेत्यादिना अभिगमनेन
भगवत्-कर्मणा भगवन्तम् अर्चयिष्यामि
भगवतो + वासुदेवस्य + भगवानेव अभिगमनं मया कारयति इति
पृधग् अभिगमनं सङ्कल्प्य॥ अथ तल्पाद् उत्थाय “ॐ नमः क्षिति-धराय श्री-वराहाये"ति श्री-वराहं नमस्कुर्यात्। पारमेश्वरे –
नमः क्षिति-धरायोक्त्वा वाम-पादं महामते। ततो भू-धर-मन्त्रेण न्यसेद् द्वाराद् बहिर् भुवि॥
महाभारते श्री-वैष्णव-धर्म-शास्त्रे –
नमो ऽस्तु प्रिय-दत्तायै तुभ्यं देवि वसुन्धरे।
त्वं माता सर्व-लोकानां पाद-स्पर्शं क्षमस्व मे॥
इति वाम-पादं भूमौ विन्यस्य दक्षिण-पूर्वकं “विष्णोः क्रमोऽसी”ति चतुर्भिर् मन्त्रैश् चतुः क्रमणं कुर्यात्।
अथ स्नानीयादिकं सर्वं समाहृत्य तमस्तिरोहित-दुष्ट-जन्तु-पलायनाय निर्गमन-मार्गं सञ्चालयेत्। यथोक्तं परमेश्वरे –
“बहिर् निर्गम-मार्गन् तु सञ्चाल्येत्य्-आदि।
ततो गृहान् निर्गच्छन् “ॐ केशवाय नम” इति केशवम् अनुध्यायेत्। “प्रविंश्चॆन्तय[[??]] केशव"मित्युक्तत्वात्; केशाः-अंशवः, तद्वान् केशवः। गच्छतो मार्गादि प्रकाशनार्थं दिङ्मोहाद्यास्तर-तमो निरासार्थञ् च। किञ्च
क इति ब्रह्मणो नाम ईशो ऽहं सर्व-देहिनाम्।
अवां तवाङ्गे सम्भूतौ तस्मात् केशव-नामवान्
इति ब्रह्म-रुद्रोपलक्षित-विश्व-सृष्टि-रक्षा-हेतुत्वात् केशि-वधोपलक्षित-सर्व-दुष्ट-दमन-स्वभावत्वाच् च। असाहाय-दशा-साहाय्यार्थं तदा तच् चिन्तनम्।
[[53]]