अत्र मनुः –
ब्राह्मे मुहूर्त उत्थाय
धर्मार्थाव् अनुचिन्तयेत्।
काय-क्लेशांश् च तन्-मूलान्
वेद-तत्वार्थम् एव च।
अत्र वेद-तत्त्वार्थ-शब्देन परम् ब्रह्माभिधीयते,
परम् ब्रह्म च नारायणः,
नारायण-परम् ब्रह्म-तत्त्वं नारायणः परः॥
सर्वे वेदा यत्-पदम् आमनन्ति॥
वेदैश् च सर्वैर् अहम् एव वेद्यः
इत्यादि श्रुति-स्मृतिभ्यः स्मृति-भास्करे –
रात्रेस् तु पश्चिमो यामो मुहूर्तो ब्राह्म उच्यते॥
स्मृति-रत्नावल्याम् –
गृह-मेधिनि यज्ञोक्तं स्वर्ग-भावनम् उत्तमम्।
ब्राह्मे मुहूर्त उत्थाय तत्-सर्वं सम्यग् आचरेत्॥
ब्राह्मे मुहूर्ते देवानां पितॄणाञ् च समागमः।
जागरस् तत्र कर्तव्यो देव-सम्माननं हि तत्॥
य इच्चेच्छाश्वतीं सिद्धिं यमस्यादर्शनं तथा।
सततं तेन कर्तव्यो ब्राह्मे काले प्रजागरः॥
ब्राह्मे मुहूर्ते यौ निद्रां न कुर्यातां तु दम्पती।
तद्-गृहं दैवतैस् सार्धं पितृभिस् सेव्यते सदा॥
[[44]]
ब्राह्मे मुहूर्ते सेवेतां शयनं यत्र दम्पती।
श्मशान-तुल्यं तद्वेश्म पितृभिः परिवर्ज्यते॥
प्रत्यूष-काले निद्राञ् च कुरुते सर्वदा तु यः।
अशुचिं तं विजानियाद् अनर्हस् सर्व-कर्मसु ॥
ब्राह्मे मुहूर्ते या निद्रा सा पुण्य-क्षय-कारिणी।
तां करोति तु यो मोहात् पाद-कृच्छ्रेण शुध्यति॥
ब्राह्मे मुहूर्त उत्थाय ब्राह्मणश् शुद्ध-मानसः।
हरिं स्मरेत् सप्त-कृत्वस् स्वाचार्याद्यान् श्रीयः पतिम्॥
नमस्कृत्वा चतुर्थ्यन्तं पर-व्यूहादि भेदतः।
स्तोत्राणि च पठेद् भूयो भगवत्-प्रीति-हेतवे॥
ततो बहिर् विनिर्गत्य केशवायेत्युदीरयेत्॥
शाण्डिल्यः –
उच्चैस् स्वरेण योगानै स्तुत्वा स्तोत्रैर् अनन्य-धीः।
वासुदेवादि देवानां नाम्नां सङ्कीर्तनं चरेत्॥
अस्यार्थः –
पापं तद्-विपाक-रूपं सर्वम् अनिष्टं हरति
इति हरिः। तथा पराशरः
ब्रह्माणम् इन्द्रं रुद्रञ् च यमं वरुणम् एव च।
निगृह्य हरते यस्मात् तस्माद्दरिर् इहोच्यते॥
श्री-विष्णु-धर्मे शौनकः –
उत्तिष्ठंश्चिन्तय हरिं व्रजंश्चिन्तय केशवम्।
भुञ्जन् चिन्तय गोविन्दं स्वपन् चिन्तय माधवम्
इति। तेनैव स्वकीय सूत्रे ऽपि सर्व-कर्मारम्भावसानेषु हरि-स्मरण मुक्तम्;
हरिम् एप स्मरेन्नित्य-कर्म-पूर्वापरेषुच
इति।
ब्राह्म-मुहूर्त-कर्तव्यम्, तत्-प्रयोगश् च
अथ प्रयोगः॥ ब्राह्मे मुहूर्त उत्थाय “हरिर्हरिर्हरिरि"ति सप्त-कृत्व उच्छार्य॥
ग्राह-ग्रस्ते गजेन्द्रे रु(व)दत्रि सरभसं तार्क्ष्यम् आरुह्य धावन्
व्याघार्णन्माल्यभूषावसन-परिकरो मेघ-गम्भीर-घोषः।
आबिभ्राणो रथाङ्गं शरमसिमभयं शङ्खचासौ सखेटौ
हस्तैः कौमोदकीमव्यवतु हरिरसावंहसां संहतेर् नः॥
[[45]]
प्रातस् स्मरामि दधि-घोष-विधूत-निद्रं
निद्रावसान-रमणीय-मुखारविन्दम्।
हृद्यानपद्यवपुषं नयनाभिराम
मुन्निद्र-पद्म-ननयनं नवनीत-चोरम्॥१॥
प्रातर् नमामि मनसा वचसा च मूर्ध्ना
पादारविन्द-युगळं परमस्य पुंसः।
नारायणस्य नरकार्णव-तारणस्य
पारायण-प्रवण-विप्र-परायणस्य॥२॥
प्रातर् भजामि भजताम् अभयङ्करं तं
प्राक्सर्व-जन्म-कृत-पाप-भयापनुत्त्यै।
यो ग्राह-वक्त्र पतिताङ्घ्रि गजेद्र-घोर-
शोक-प्रणाशन-करोद्धृत-शङ्ख-चक्रः॥३॥
श्लोक-त्रयम् इदं पुण्यं प्रातर् उत्थाय यः पठेत्।
लोक-त्रय-गुरुस् तस्मै दद्याद् आत्म-परं हरिः॥
इत्यनुसन्धाय तस्मिन्नेव शयने समासीनः श्रोत्राचमनं कृत्वा “वसुरण्ये” त्यात्मनो न्यास-मात्रान् जपेत्,
प्रातर्-निर्वेद-क्रमः
वसुरण्येति मन्त्रस्य याज्ञवल्क्यो भगवान् नारायण ऋषिः जगती-छन्दः परमात्मा नारायणो देवता॥
वसुरण्यो विभूरसि प्राणेत्वमसि सन्धाता ब्रह्मन्त्वमसि विश्वसृक्तेजोदास्त्वमस्यग्नेर्वर्चोदास्त्वमपि सूर्यस्य द्युम्नोदास्त्वमसि चन्द्रमस उपयाम गृहीतोसि ब्रह्मणेत्वा महस ओमित्यात्मानं युञ्जीत॥ [[TODO: परिष्कार्यम्]]
ततस् समाहितो ऽतिक्रान्तम् अनन्त-कालं व्यर्थम् आलोक्य परमं निर्वेदम् आगच्छेत्। तत्-प्रकारस् तु वङ्गि-वंशेश्वरेण विस्तरेणोक्तः “ब्राह्मे मुहूर्त” इत्य् आरभ्य “कथयिष्यामि कस्यवे” त्यन्तैर् अष्टाविंशति-श्लोकैस् तान् अनुसन्धाय॥
ब्राह्मे मुहूर्त उत्थाय निद्रां त्यक्त्वा प्रसन्न-धीः।
हरिर् हरिर् हरिर् इति व्याहारेद् वैष्णवः पुमान्॥
उत्थाय शयने तस्मिन्नासीनो नियतेन्द्रियः।
त्रस्त-निर्विण्ण-हृदयो व्यर्थं वीक्ष्य गतं वयः॥
[[46]]
ताप-त्रयेण चाक्रान्तस् तीव्रेणाध्यात्मिकादिना।
दावजेनाग्निना लीढो भ्राम्यन्निव वने मृगः॥
संसारवागुरान्तस्स्थो लून-पक्ष इवांडजः।
अपश्यन्निर्गमोपायम् आगामिष्वपि जन्मसु॥
अकार्यैर् अतिबीभत्सैः क्रियमाणैः कृतैर् अपि।
लज्जितश् च विषण्णश् च स्मर्यमाणैस् स्व-कर्मभिः॥
अविनीतम् अशिक्षार्हम् असद्गुण-गणाकरम्।
अवधार्य स्वम् आत्मानम् अचिदाद्यशुभास्पदम्॥
दह्यमानेन्धनान्तस्थो विस्पुटन् इव कीटकः।
अलब्ध-निर्गमस् तिष्ठन् मध्ये मरण-जन्मनोः॥
विह्वलश् च विषण्णश् च विमृशन् स्वाम् इमां दशाम्।
चिन्तयन् प्रथमञ् चैवम् आचरन् प्रियम् आत्मनः॥
संसार-चक्रम् आरोप्य बलिभिः कर्म-रज्जुभिः।
कालेनाकृष्यमाणस्य जङ्गम-स्थावरात्मनः॥
अहो मे महती याता निष्फला जन्म-सन्ततिः।
अनाराधित-गोविन्द चरणाम्भो रुह-द्वया॥
अनास्वादित (तत्वार्थ) सत्-कर्म ज्ञान-भक्ति-सुधा-रसा।
अदृष्टानन्त-संसार-सागरोत्तारण-प्लवा॥
श्रुति-स्मृत्युदिताशेष सदाचार-पराङ्मुखी।
अनुपासित सद्वृद्धा स्वीकृता सत्समागमा॥
असम्पादित शुश्रूषा गुर्वाचार्य-पितृष्वपि।
त्यक्त-वर्ण-समाचारा भृष्टा-वैदिक-वर्त्मनः॥
निज-कर्मज-देवादि देहाध्यस्तात्म-भावना।
तद्-भावनानुगोद्भूत सुख-दुःख व्यवस्थितिः॥
अनुद्भूत स्वयाथात्म्य ज्ञानजोत्तम-निर्वृतिः।
पशुवत् प्राकृतैर् एव गुणैर् अधिक-निर्वृता॥
न कर्म-निष्ठा नात्म-ज्ञानापि भक्ति-युता हरौ।
नोद्युक्ता भक्ति-हीनत्वात् तत्-क्रियास्वर्चनादिषु॥
कर्मभिः पुण्य-पापाख्यैर् अविद्या-पर-नामभिः।
धूमैर् इवार्चिर् आग्नेयं ज्ञानम् आवृत्य देहिनः॥
भूषयित्वा स्वकं देहं शब्दाद्यैः स्वाश्रयैर् गुणैः।
दर्शयत्वा स्व-सौन्दर्यम् आत्मने तिष्ठमानया॥
निरस्तातिशयाह्लाद सुख-भावैक-लक्षणम्।
सञ्छाद्य स्व-गुणैर् एव स्वया पञ्च परात्मनः॥
[[47]]
गुणमय्या प्रकृत्याख्य-भगवन्मायया ऽनया। स्व-सं लीलानन्त-जीव-कृत-(कर्मानुरूपया)जन्मानुरूपतः॥
गुण-त्रयाश्रयानन्त-विचित्र-परिणामया।
अति दुस्तरया देव-प्रपत्ति-रहितात्मभिः॥
प्रलोभ्यमाना सततं तयैवात्यन्त-निर्वृता।
अजानती (स्वहितं) गुर्वहितं मूक-स्वप्नानुकारिणी॥
निष्पानीये निरालम्बे निच्छाये निरपाश्रये।
द्राघीयस्य सुखे (शुभे) मार्गे यमस्य सदनं प्रति॥
गच्छतो मे ऽसहायस्य वर्धयन्ती भयं महत्।
अतीतापि सदैवैषा तिष्ठतीव पुरो मम॥
गतयात्वीदृशं रूपं वर्तमानेपि जन्मनि।
तथैव सुमहान् कालो गतः क्षण इवाल्पकः॥
आलब्ध-सुख-संस्पर्शम् अकृताघौघ-निष्कृतिः।
विनैव हरि-पादार्चाम् अहो पश्यत एव मे॥
किङ् करिष्यामि पदयोर्निपतिष्यामि कस्य वा।
मद्दशां (दुर्दशां) दुस्तराम् एतां कथयिष्यामि कस्य वा॥
इति निर्वेदम् अनुसन्धाय॥ “इत ऊर्ध्व”मित्यारभ्य “उदीरये”दित्यन्तं श्लोक-षट्कम् अनुसन्धाय॥
इत ऊर्ध्वम् अहं तावद्यावज्जीवं श्रियश् श्रियः।
पदयोर् अर्चनं कर्तुं यतमानस् समाहितः॥
अभिगच्छन् हरिं प्रातः पश्चाद् द्रव्याणि चार्जयन्।
अर्चयंश् च ततो देवं ततो मन्त्रान् जपन्नपि।
ध्यायन्नपि परन् देवं कालेषुकैषु पञ्चसु।
वर्तमानस् सदा चैवं पाञ्चकालिक-वर्त्मना॥
स्वार्जितैर् गन्ध-पुष्पाद्यैश् शुभैश् शक्त्यनुरूपतः।
आराधयन् हरिं भक्त्या गमयिष्यामि वासरान्॥
एतत्-क्रिया-विरोधीनि प्राचीनान्यशुभानि मे।
कर्माण्यनन्तान्यच्छेद्यान्यनादीन्यशुभानि च।
स्वयैव कृपया देवो विनाश्यास्मन्मनो रथान्।
पूरयत्विति सम्प्रार्थ्य मन्त्रम् एतद् उदीरयेत्॥
त्वय्याराधन-कामो ऽयं व्रतं चरितुम् इच्छति।
सङ्कल्प-सिद्ध्यै भगवन् पूरयास्य मनोरथान्॥
[[48]]
इत्यादिकं यथा-न्यायम् आचार्य-सकाशाद् अधीत्यैव अन्वहं प्रयोक्तव्यम्। एवम् एव हि सर्वेषाम् अपि मन्त्राणां समाधि-विपर्यये नैष्फल्यं द्रष्टव्यं प्रत्यवायश् च।
यदृच्छया श्रुतो मन्त्रश्छन्नेनाथच्छलेन वा।
प्रतेक्षितो वाप्यर्थस् स्यात्प्रत्युतानर्थथो भवेत्॥
तं जपेद्यद्यनर्थस् त्विति पाठान्तरम्।
अथ गुरु-परम्परा-पूर्वकं भगवत्-प्रपत्तिः कार्या। सर्वत्र च शास्त्रीय कर्मारम्भे भगवत्-पर्यन्त-गुरु-पङ्क्ति-प्रपदनं निश्रेयसे भवतीत्युक्तं रहस्याम्नाय-ब्राह्मणे
स चाचार्यवंशो ज्ञेयो भवति, आचार्याणाम् असाव् असाव् इत्य् आ भगवत्तः
इति।
देव-गुरु-भक्तिर् एव सर्वत्र प्रकाश-करणम्
इति कठ-वल्ल्याम्
यस्य देवे पराभक्तिर् यथा देवे तथा गुरौ।
तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मनः
इति। स्मर्यते चापस्तम्बादिभिश् च “देवम् इवाचार्यम् उपासीते"त्यादिभिः।
अथ
ॐ वासुदेवाय नमः ॐ सङ्कर्षणाय नमः ॐ प्रद्युम्नाय नमः ॐ अनिरुद्धाय नमः।
ॐ पुरस्तात् केशवः पातु चक्री जाम्बूनद-प्रभः।
पश्चान् नारायणश् शङ्खी नील-जीमूत-सन्निभः॥
इन्द्र-नील-निभश् श्यामो (इन्दीवरदळ श्यामो) माधवोर्ध्वं गदा-धरः।
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्र-प्रभो महान्॥
उत्तरे हल-धृग् विष्णुः पद्म-किञ्जल्क-सन्निभः।
आग्नेय्याम् अरविन्दा भो मुसली मधुसूदनः।
त्रिविक्रमः खड्ग-पाणिर् नैऋत्यां ज्वलन-प्रभः।
वायव्यां वामानो वज्री तरुणादित्य-दीप्तिमान्॥
[[49]]
ईशान्यां पुण्डरीकाभः श्रीधरः पट्ट-सायुधः। विद्युत्-प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी॥
हृत्-पद्मे पद्मनाभो मे सहस्रार्क-सम-प्रभः।
सर्वायुधस् सर्व-शक्तिस् सर्वज्ञस् सर्वतो मुखः॥
इन्द्र-कोपक-सङ्काशः पाश-हस्तो ऽपराजितः।
स बाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः॥
एवं सर्वत्र निच्छिद्रं नाम-द्वादश-पञ्जरम्।
प्रविष्टो ऽहं समे किञ्चिद् भयम् अस्ति कदाचन॥
इति तत्-तद्-ध्यान-पूर्वकम् अनुसन्धाय। “ॐ केशवाय नम” इत्य् आरभ्य प्रणवादि चतुर्थ्यन्तानि द्वादश-नामान्यनुसन्धाय॥
ॐ मत्स्याय नमः ॐ कूर्माय नमः ॐ वराहाय नमः ॐ नरसिंहाय नमः ॐ वामनाय नमः ॐ भार्गव-रामाय नमः ॐ दशरथ-रामाय नमः ॐ भल-भद्र-रामाय नमः ॐ कृष्णाय नमः ॐ कल्किने नमः
इत्य् अनुसन्धाय। परमेश्वरे -
ॐ नमो वासुदेवाय नमस् सङ्कर्षणाय ते
इत्य् आरभ्य “कल्कि-विष्णो नमस्ते ऽस्तु” इत्य् अन्तम् उक्तम्। अथ
ॐ एक-शृङ्ग-वराहाय नमः ॐ जनार्दनाय नमः ॐ अच्युताय नमः ॐ अनन्ताय नमः ॐ गोविन्दाय नम
इत्त्य् उक्त्वा
ॐ श्री-रङ्ग-मङ्गल-मणिं करुणा-निवासम्
श्री-वेङ्कटाद्रि शिखरालय-कालमेघम्।
श्री-हस्ति-शैल-शिखरो ज्वल-पारिजातम्
श्रीशं नमामि शिरसा यदु-शैल-दीपम्॥
ॐ रंगेश्वराय नमः ॐ वृष-गिरीश्वराय नमः ॐ करि-गिरीश्वराय नमः ॐ यदु-गिरीश्वराय नमः॥ ॐ श्रीं श्रियै नमः ॐ भूं भूम्यै नमः ॐ नीं नीळायै नमः॥
आथाष्टोत्तर-दिव्य-देशं स्मृत्वा - अथ “सत्-सङ्गा”दिति श्लोक-द्वयम् अनुसन्धाय॥
सत्-सङ्गाद् भव निस्पृहो, गुरु-मुखाच् छ्रीशं प्रपद्यात्मवान्
प्रारब्धं परिभुज्य कर्म-शकलं, प्रक्षीण-कर्मान्तरः।
न्यासाद् एव निरङ्कुशेश्वर-दया–निर्लून-मायान्वयो
हार्दानुग्रह-लब्ध-मध्य-धमनि-द्वाराद् बहिर् निर्गतः॥
[[50]]
मुक्तो ऽर्चिर् दिन-पूर्व-पक्ष-षडुदङ्मासाब्दवातांशुमद्
ग्लौ-विद्युद्-वरुणेन्द्र-धातृ-महितस् सीमान्त-सिन्ध्वाप्लुतः ।
श्री-वैकुण्ठम् उपेत्य नित्यम् अजडं तस्मिन् परब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥
प्रातर् नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः।
श्लोक-द्वयेन सङ्क्षिप्तं सुव्यक्तं वरदो ऽब्रवीत्॥
इत्यन्तम् उक्त्वा तत्-कालोचित स्तोत्रादिकम् अनुसन्धाय। योगज्ञश् चद् “भगवान्” इत्यादिना योगं समापयेन्नोचेद्योग-शेषन्याध्यायम् एव समापयेत्॥ ॐ भगवान् एव स्व-नियाम्य स्व-रूप-स्थिति-प्रवृत्ति-स्व-शेष-भूतैक-रसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तः करणैः स्वयम् एव स्व-प्रीत्यर्थं योग-शेष-स्वाध्यायं कारितवान्। “ॐ कृतञ् च करिष्यामि” “भगवन्नि"त्येव
भगवत्-प्रीत्यर्थेन महा-विभूति चातुरात्म्य भगवद् वासुदेव-पादारविन्दार्चनेन योग-शेष-स्वाध्यायेन भगवत्-कर्मणा भगवान् प्रियतां
“वासुदेव” इति योगं योग-शेष-स्वाध्यायं वा समाप्य॥ अभिगमनादि पञ्च-काल-सङ्कल्पं कुर्यात्।