अथ नित्य-नैमित्तिक-कर्म-विभाग उच्यते॥ लोके कर्म त्रिविधं भवति, “नित्यं नैमित्तिकं काम्यं चे"ति; मुमुक्षुणा प्रपन्ने स कार्यं कर्म नित्यमेव। नित्यं चतुर्धा भवति;
नित्यं नित्य-तुल्य-नैमित्तिकं नित्य-तुल्य-काम्यं नित्य-तुल्य-प्रायश्चित्तञ् च
इति। तत्र गर्भाधानान्न-प्राशन-चौळोपनयन-तप्त-मुद्रा-धारण छिद्रोर्ध्व-पुण्ड्र-धारण-सन्ध्या गायत्री श्री-मदष्टाक्षर-द्वय-चरम-श्लोक-द्वादशाक्षर-षडक्षर-श्लोक-द्वयादि-जप-ध्यान-सालग्रामार्चनौपासन-पञ्च-महा-यज्ञैकादश्युपवासादिकं नित्यम्। जन्म-नक्षत्रम् अमावास्या पैतृकाचार्यादि दिवस श्री-नारसिंह-श्री-वामन-श्री-राम-कृष्ण-जयन्ती चतुष्टयोपवास-ग्रहण-काल-स्नानाग्नि-होत्र-दर्शपूर्ण-मासादिकञ्च नित्य-तुल्य-नैमित्तिकम्। अग्निष्टोमादिकं विष्णु-विग्रहार्चनादिकञ् च नित्य-तुल्य-काम्यम्। गृह-शुद्धि-भाण्डादि पदार्थ-शुद्धि-पुंसवन-सीमन्त-जात-कर्म-अन्न-प्राशन आग्रयण-वेदाध्ययन-स्तोत्र-भगवन्नाम-सङ्कीर्तन-भगवद्भागवत-श्री-पादतीर्थ-पान-तुलसी-दळ-भक्षणादिकं नित्य-तुल्य-प्रायश्चित्तम्। एतच्चतुष्टयं प्रपन्ने नावश्यं कार्यम्, अकरणे प्रत्यवाय-स्मरणात्। श्री-भगवान्॥
श्रुति-स्मृतिर् ममैवाज्ञा यस् ताम् उल्लङ्घ्य नर्तते।
आज्ञाच्छेदी मम द्रोही मद्भक्तो ऽपि न वैष्णवः॥
वाराहे श्री-वेङ्कट-गिरि-महात्म्ये एकोन-षष्टितमे ऽध्याये –
न्यास-विद्या विनिष्ठस्य कर्मणां त्याग इष्यते।
त्यागश् च फलतः प्रोक्तः स्व-रूपेण न च क्वचित्॥
हारीतः –
तस्माद्दास्यतया[[??]] धर्मम् अच्युत-प्रीतये सदा। कर्तृत्व-फल-सङ्गित्व-त्याग-पूर्वं समाचरेत्॥
श्री-गीतायाम् –
त्याज्यं दोषवद् इत्येके कर्म प्राहुर् मनीषिणः।
यज्ञ-दान-तपः कर्म न त्याज्यम् इति चापरे॥
निश्चयं शृणु मे तत्र त्यागे भरत-सत्तम।
यज्ञ-दान-तपः कर्म सत्याज्यं कार्यम् एव तत्॥
यज्ञो दानं तपश् चैव पावनानि मनीषिणाम्।
एतान्यपि च कर्माणि सङ्गं त्यक्त्वा फलानि च॥
कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम्॥
[[43]]
अनेन फल-सङ्ग-कर्तृत्व-त्याग-पूर्वकं पूर्वोक्त्रं “चतुर्विधं कर्म कर्तव्यम्” इति सिद्धम्।
प्रायश्चित्तार्थं कर्म केवल-नैमित्तिकम्।
यज्ञान्न-दान-वापी-कूप-तटाकाद्य्-उपवन-ग्राम-प्रतिष्ठा
विष्णु-मन्दिर–श्री-वैष्णव–समाराधनाधिकम् अनिषिद्ध-काम्यम्,
एतद् यथा-शक्ति भगवत्-प्रीत्या कृतञ् चेद् अभ्युदयाय,
अ-करणे प्रत्यवायो नास्ति।
केवल-निषिद्ध-काम्यन् तु प्रपन्नस्य त्याज्यम् एव।+++(5)+++