०१ वासादि

अथाभिगमनम् उच्यते; तत्रादौ सताम् आवास-योग्यान् धर्म-देशान् आह मनुः –

स्वभावाद् यत्र विचरेत्
कृष्ण-सार-मृगो द्विज।
विज्ञेयो धार्मिको देशो
म्लेच्छ-देशस् ततः परम्॥

शाण्डिल्यः –

यत्र भागवता नित्यं
पञ्च-काल-परायणाः।
निवसन्ति सदा युक्तास्
तत्-क्षेत्रं नैमिशं विदुः॥
निवसन्ति महात्मानो
यत्र चैकान्तिनो द्विजाः।
देवा देवर्षयो नित्यं
तद् देशं पर्युपासते

मनुः – विष्णु-धर्मोत्तरे –

प्रभासे पुष्करे काश्यां
नैमिशे मणिकर्णिके।
गङ्गायां सरयू-तीरे
निवसेद् धार्मिको जनः॥

आश्व-मेधिके –

नगरे पत्तने वापि
यो द्वादश समा वसेत्।
जीवन्न् एव शूद्रत्वम्
आशु गच्छति सान्वयः॥
राजाश्रयेण यो मर्त्यो
द्वादशाब्दं वसेद् बुधः।
जीवमानो भवेच् छूद्रो
नात्र कार्या विचारणा॥
कूप-स्नानं सदा कुर्याद्
यो द्वादश-समा द्विजः।
जीवन्न् एव शूद्रत्वम्
आशु गच्छत्य् असंशयः॥

स्कान्दे –

भक्षयेत् सोम-लतिकां
विना यज्ञं द्विजाधमः।
जिह्वायां मैथुनं वापि
शूद्र-स्त्री-सङ्गमं तु वा॥
लाक्षादि विक्रयं वापि
कुर्वन् शूद्रत्वम् आप्नुयात्

[[42]]