२० स्नातक-धर्माः

जीर्ण-मलवद्-वासा
भवेच् च विभवे सति।
उपानहौ च वासश् च
धृतम् अन्यैर् न धारयेत्
उपवीतम् अलङ्कारं
स्रजं करकम् एव च॥

विज्ञानेश्वरे –

नीलं रक्तञ् च यद् वस्त्रं
यस्य देहेषु तिष्ठति
अहो-रात्रोपौषितस् सन्
पञ्च-गव्येन शुध्यति

संवर्तः –

कटि-सूत्रं विना कर्म
श्रौतं स्मार्तं करोति यः।
सर्वं तन् निष्फलं विद्यात्
सो ऽपि नग्न इति स्मृतः॥

सङ्ग्रहे –

चण्डाल-निर्मितं वस्त्रं
धृत्वा यत् कुरुते शुभम्।
वैदिकं गार्हिकं वा ऽपि
तत् सर्वं निष्फलं भवेत्

गौतमः –

न म्लेच्छाशुद्धाधार्मिकैस् सह सम्भाषेत, सम्भाष्य पुण्य-कृतो मनसा ध्यायेत्, ब्राहणे न वा सह सम्भाषेत।

आपस्तम्बः –

देवताभिधानं चाप्रयतः।

तत्र पराशरः –

अ-पवित्रः पवित्रो वा (पा॥ अ-पवित्रो ऽप्य् अ-नाचारः) सर्वावस्थाङ्गतो ऽपि वा॥
यस् स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तरश् शुचिः॥

अतो देवतान्तर-कीर्तनम् अ-शुचिना न कार्यम्;

नारायणस्य नामानि सदा सर्वत्र कीर्तयेत्॥
चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत्।
नाशौचं कीर्तने तस्य पवित्रं भगवान् हरिः॥

कबले कबले कुर्वन् गोविन्दस्यानुकीर्तनम्

इति स्मरणाद् विष्णु-कीर्तनं कार्यम् एव; अत एव हि श्मशानेप्य् अ-शौचादाव् अपि “नारायण-गोविन्दे"ति लोकः कीर्तयति, अतो भोजन-स्नानादौ मौन-व्रताद्य्-अ-प्रायत्ये[[??]] ऽपि देवतान्तर-कीर्तनम् एव निषिद्धम्।

[[300]]

मौनं वाचो-निवृत्तिस् स्यान् नात्र भाषा न संस्कृतम्।
नान्यद् एवेरणं विष्णुं सदा ध्यायेच् च कीर्तयेत्॥

प्रश्नञ् च न विब्रूयात्। अथाप्य् उदाहरन्ति -

मूलं कालं बृहतिदुर्विवक्तुः प्रजां पशून् आयतनं हिनस्ति।

न विब्रूयाद् दुर्निरूपकम् -

इत्थम् एवेति सहसा विविच्य न ब्रूयाद् इत्य् अर्थः। मूलम् - पित्रादिः, कालम् - आगामिनी-सम्पत्तिः, बृहति - भिनत्ति।

बोधायनः –

बहु-द्वारस्य धर्मस्य सूक्ष्मा दुर्-अनुगा गतिः।
तस्माद् अवाच्यो ह्य् एकेन विधिज्ञेनापि संशये॥ सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम्।
अब्रुवन् विब्रुवन् वा ऽपि नरो भवति किल्बषी॥

याज्ञवल्क्यः –

न स्वाध्याय-विरोध्य्-अर्थम् ईहेत न यतस् ततः।
न विरुद्ध-प्रसङ्गेन सन्तोषी च भवेत् सदा॥

विरुद्धम् - अ-याज्य-याजनादि, प्रसङ्गः - गीत-नृत्तादि, ताभ्याम् अर्थं नेहेत। मनुः –

धर्मार्थ उच्यते श्रेयः कामार्थौ धर्म एव वा।
अर्थ एवेह च श्रेयस् त्रि-वर्ग इति हि स्थितिः॥
परित्यजेद् अर्थ-कामौ यौ स्यातां धर्म-वर्जितौ।
धर्मं चाप्य्अ अ-सुखोदर्कं लोक-विद्विष्टम् (/विकृष्टम्) एव च॥

रत्ना-करे –

नाप्सु स्वं प्रतिबिम्बं तु तेजस्-कामो निरीक्षयेत्।
मयि तेज इन्द्रियम् इत्य् आत्म-छायेक्षणे जपेत्॥

मनुः –

जल-क्षीरादिकं पेयं सर्वं नाञ्जलिना पिबेत्।
जलं पिबेन् नाञ्जलिना न शयानं (न श्रेयांसं) प्रबोधयेत्॥
नाक्षैः क्रीडेन् न धर्म-घ्नैः व्याधितैर् वा न संवसेत्॥

“न श्रेयांसं प्रबोधयेद्” इति विशेषाद् “आत्मनोधिकं शयानं न प्रबोदयेद्” इति; धर्म-घ्नैः - पशु-लङ्घनादि-कर्मभिः, व्याधितैः - अत्र स्मृतिः -

अक्षि-रोगी ह्य् अपस्मारी ज्वरी कुष्ठी क्षयीन् अह।
श्वास-खासी च तैर् युक्ताम् एक-शय्याञ् च वर्जयेत्॥
विरुद्धं वर्जयेत् कर्म प्रेत-धूमं नदी-तटम्।
केश–भस्म–तुषाङ्गार–कपालेषु च संस्थितिम्॥

विरुद्धम् - जन-पद ग्रामाद्य्-आचार-विरुद्धम्,

[[301]]

विप्राग्न्योर् विप्रयोश् चैव दम्पत्योर् इषु-धन्वनोः।
नान्तर् आगमनं कुर्याद् देवता-बलि-पीठयोः॥
दिवा-स्वापं न कुर्वीत न गच्छेच् च दिवा स्त्रियम्।
दिवा-निद्रा हरत्य् आयुर् दिवा स्त्री–पुण्य–नाशिनी॥
वयो–बुद्ध्य्–अर्थ–वाग्–वेष–श्रुताभिजन-कर्मणाम्।
आचरेत सदृशीं वृत्तिम् अ-जिह्वाम् अ-शरां तथा॥

वेषो - वस्त्र-माल्यादि-विन्यासः,

हीन-कल्पं न कुर्वीत सति द्रव्ये ऽफल-प्रदम्।
चण्डालो जायते यज्ञ-करणाच् छूद्र-भिक्षुकः॥

यमः –

उपादाय धनं शूद्राद् यो ऽग्नि-होत्रम् उपासते।
दाता तत्-फलम् आप्नोति कर्ता च नरकं व्रजेत्॥

मनुश् च –

ये शूद्राद् अधिगम्यार्थंम् अग्नि-होत्रम् उपासते।
ऋत्विजस् ते हि शूद्रान्ना ब्रह्म-वादिषु गर्हिताः॥
तेषां सतत-युक्तानां वृषलाद्य्-उपसेविनाम्।
पदा-मस्तकम् आक्रम्य दाता दुर्गाणि (गच्छति) सन्तरेत्॥

अखण्डादर्शे –

दाय-प्राप्तैस् स्व-कृष्या वा लब्धैश् शिष्ट-परिग्रहात्।
यजेत श्रद्धया विष्णुं श्रेयो ऽर्थं नान्यथा यजेत्॥

चन्द्रिकायाम् –

स्मार्तानि यानि कुर्वीत श्रद्-दधानो जितेन्द्रियः।
स त्व् अल्प-दक्षिणैर् यज्ञैर् यजेतेह कथञ्चन॥
अन्न-हीनो भवेद् इष्टिर् मन्त्र-हीना तथार्त्विजः।
दक्षिणा-हीनो यजमानः नास्ति यज्ञ-समो रिपुः॥

शाण्डिल्यः –

कुटुम्बिनो विना ऽन्येषां तीर्थ-यात्रा विशिष्यते।
कुटुम्बिनो गृहे सर्वं निर्गतो विकलो भवेत्॥

विकलः - नित्य-लुप्त-कृत्यः,

कुटुम्बी वर्जयेद् बिम्बं कार्यं शैलञ् च मृण्-मयम्।
गृह-भित्तिषु संस्थञ् च योग-निद्रा रसोत्सुकम्॥

[[302]]

आश्वमेधिके –

पचनाग्निं न गृह्णीयात् पर-वेश्मनि जातुचित्।
तेन पक्वेन चान्नेन यत् कर्म[[??]] कुरुते शुभम्॥
तच् छुभस्य फलस्यार्थम् अग्नि-दस्य [[??]]वम्॥

काञ्चन-माली –

धर्मं भजस्व सततं त्यज भूत-हिंसां
सेवस्व साधु पुरुषान् जहि काम-शत्रून्।
अन्यस्य दोष-गुण-कीर्तनम् आशु मुञ्च
सत्यं वदार्चय हरिं जय सर्व हानिम्॥

मनुः –

ना धार्मिके वसेद् ग्रामे न व्याधि-बहुले वसेत्।
न पाषण्ड-जनाक्रान्ते नोपसृष्टे ऽन्त्यजैर् नृभिः॥

सायणीये –

पुंसां दीप-प्रशमनात् स्त्रीणां कूश्माण्ड-खण्डनात्।
अ-चिरेणैव कालेन वंश-च्छेदो भविष्यति॥
क्षुत-स्खलित-जृम्भेषु नृणाम् आयुः प्रहीयते।
तत्-क्षणात् प्रतिकर्तव्यं जीव–धूल्य्–अङ्गुलि-स्वनैः॥

क्षुते शतं जीवेति प्रतिवक्तव्यम्, स्खलिते पांसून् आदाय ललाटे निधातव्यम्, जृम्भणे अङ्गुलि-स्फोटेन परिहार्यम् इत्य् अर्थः।

अयो–बीज–जलान्नाग्नि–क्षीर–धान्यौषधादिकम्।
रात्रौ दातुर् गृहं शून्यं प्रतिसङ्ग्रहणं शुभम्॥

यत् किञ्चिद् द्रव्य-प्रत्यादाने न दोष इत्य् अर्थः।

रत्ना-करे –

कामः क्रोधश् च लोभश् च देहे तिष्ठन्ति तस्कराः।
ज्ञान-रत्नापहाराय तस्माज् जाग्रत जाग्रत॥
रागाद्य्-अपेतं हृदयं वाग् अ-दुष्टा ऽनृतादिना।
हिंसादि-रहितः कायः केशवाराधनं त्रयम्॥
चत्वारि यस्य द्वाराणि सुगुप्तानि मनीषिभिः।
उपस्थम् उदरं पाणिर् वाक्-चतुर्थी स वै पुमान्॥

मनुः –

वैणवीं धारयेद् यष्टिं
सोदकञ् च कमण्डलुम्।
यज्ञोपवीतं वेदञ् च
शुभे रौक्मे च कुण्डले॥
कलौ पञ्च न कुर्वीत+++(??)+++
भ्रातृ-जायां कमण्डलुम्॥

इति नारिकेल–मृण्-मय–पात्र–कमण्डलु-निषेधात्
स्वर्णादि-मयः कमण्डलुर् ग्राह्याः,
वेदो - दर्भ-मुष्टिः, गृहस्थ-विषये भृगुः -

अ-निम्न-पर्यन्त-समाष्ट-पर्वका
कल्माष-वर्णा सलिलावगाहा।
मूलाच् छिखायां द्वि-गुण-प्रमाणा
धार्या गृहस्थेन तु वेणु-यष्टिः॥

[[303]]

निषेधम् आह मरीचिः –

एक-पर्वा च या यष्टिर् वज्र-नामा सुखावहा।
द्वि-पर्वा राक्षसी नाम मांस–शोणित–भक्षिणी॥
त्रि-पर्वा पद्मिनी नाम पद्मिनीं वर्जयेत् सदा।
अ-ग्राह्या तु चतुः पर्वा पञ्च-पर्वा धन-प्रदा॥
षट्-पर्वा कामिनी नाम सर्व-काम–फल-प्रदा।
सप्त-पर्वा विपन् नाम विपदां कामिनी स्मृता॥
अष्ट-पर्वा च या यष्टिर् नाम्ना नारायणी स्मृता।
अत ऊर्ध्वं तु न ग्राह्या यष्टयस् सर्वदा नृभिः॥
मूलात् तु द्वि-गुणं पुच्छं सङ्ग्राह्यं शुभ-वर्धनम्॥

विज्ञानेश्वरे –

शैवान् पाशुपतान् स्पृष्ट्वा लोकायतिक-नास्तिकान्।
विकर्म-स्थान् द्विजान् शूद्रान् स-चेलो जलम् आविशेत्॥

सङ्ग्रहे –

आदर्श-दर्शी दर्शे च द्वादश्यां रवि-वासरे।
सप्त-जन्म भवेद् अन्धो नरकञ् चापि न गच्छति॥

व्यासः –

चत्वारश् चाश्रमाश् चैते ब्राह्मणस्य प्रकीर्तिताः।
गार्हस्थ्यं ब्रह्म-चर्यञ् च वान-प्रस्थम् इति त्रयः॥
क्षत्रियस्यापि कथिता य आचारा द्विजस्य च।
ब्रह्म-चर्यञ् च गार्ह-स्थ्यम् आश्रम-द्वितयं विशः॥
गार्ह-स्थ्यम् उदितञ् चैकं शूद्रस्य परिकीर्तितम् ।

हारीतः –

योग-क्षेमार्थ-वृद्धिञ् च कुर्याच् छक्त्या यथार्हतः।
ब्राह्मणः क्षत्रियो वैश्यश् शूद्र-वर्णा यथा-क्रमात्॥
आद्यास् त्रयो द्विजाः प्रोक्तास् तेषां वै मन्त्रवत् क्रियाः।
स-वर्णेभ्यस् स-वर्णासु जायन्ते हि स-जातयः॥
तेषां सङ्कर-योगाच् च प्रतिलोमानुलोमजाः।
विप्रान् मूर्धान् अ-सिक्तस् तु क्षत्रियायाम् अजायत॥ वैश्यायां तु तथा ऽंबष्ठो निषादश् शूद्रियां तथा॥

[[304]]

राजन्याद् वैश्य-शूद्रैस् तु महिष्याग्रौ सुतौ स्मृतौ।
शूद्र्यां वैश्यात् तु करणस् तथैवैते ऽनुलोमजाः॥
विप्रायां क्षत्रियात् सूतो वैश्याद् वै देहकस् तथा।
चण्डालस् तु ततः शूद्रात् सर्व-कर्म-सुगर्हितः॥
मागधः क्षत्रियायाञ् च वैश्यात् क्षत्ता तु शूद्रतः।
शूद्राद् आयोगवं वैश्याज् जनयामास वै सुतम्॥
रथ-कारः करिण्यां तु माहिष्येण प्रजायते|
अ-सत् सत्रास् तु विज्ञेयाः प्रतिलोमानुलोम-जाः॥
प्रतिलोमासु वै जाता ग्रहितास् सर्व-कर्मसु।
एतेषां ब्राह्मणा एव षट्-कर्मसु नियोजिताः॥
त्रि-कर्मसु क्षत्र-विशः एकस्मिन् शूद्र-योनि-जः॥

भरद्वाजः –

कृत्वा मन्त्रान्वयं तत्र विवाहं परिवर्जयेत्।
वैवाहिको ऽन्वयः पूर्वो न तु मन्त्रं निवारयेत्॥

स्कान्दे सेतु-माहात्म्ये दशमे ऽध्याये –

नाध्यापयेद् बुधश् शूद्रं तथा नैव च वाचयेत्।
न पाठयेद् बुधश् शूद्रं शास्त्रं व्याकरणादिकम्॥
काव्यं वा नाटकं वा ऽपि तथा ऽलङ्कारम् एव वा।
पुराणम् इतिहासञ् च शूद्रं नैव च पाठयेत्॥
यदि चोपदिशेद् विप्रश् शूद्रस्यैतानि कर्हिचित्।
त्यजेयुर् ब्राह्मणा विप्रं तं ग्रामाद् ब्रह्म-सङ्कुलात्॥
शूद्राय चोपदेष्टारं द्विजं चण्डालवत् त्यजेत्।
शूद्रञ् चाक्षर-संयुक्तं दूरतः परिवर्जयेत्॥

नारदीये परम-रहस्य मन्त्रोपनिषद्-अध्याये –

ब्राह्मणं श्रुत-सम्पन्नं वैष्णवञ् च गुरुं विदुः।
नारी वा वृषलो वा ऽपि गुरुत्वं यदि गच्छति॥
जिह्वाच्छेदं ततः कुर्यात् तस्य दण्डं नराधिपः।
शूद्र-शिष्यं तथा चैव नारी-शिष्यं तथैव च॥
चण्डाल-कर्मणा नित्यं योजयेत् तं नराधिपः॥
क्षत्रियो वा ऽथ वैश्यो वा गुरुत्वं नेच्छति प्रभुः।
सर्वेषाञ् च गुरुर् ज्ञेया ब्राह्मणो वैष्णवस् सदा॥

[[305]]

भरद्वाज-संहितायाम् –

नाचार्यः कुल-जातो ऽपि ज्ञान–भक्त्य्-आदि–वर्जितः।
न च हीन-वयो-जातिः प्रकृष्टानाम् अन्-आपदि॥
न जातु मन्त्रदा नारी न शूद्रो नान्तरोद्भवः।
नाभिशस्तो न पतितः काम-कामोप्य् अ-कामिनः॥ [[??]] स्त्रियश् शूद्रादयश् चापि बोधयेयुर् हिताहितम्।
यथार्हं माननीयाश् च नार्हन्त्य् आचार्यतां क्वचित्॥
किम् अप्य् अत्राभिजायन्ते योगिनस् सर्व-योनिषु।
प्रत्यक्षितात्मनाथानां नैषां चिन्त्यं कुलादिकम्॥

आश्वमेधिके –

तिलान् न पीडयेद् विप्रो यन्त्र-चक्रे स्वयं नृप।
पीडयेच् चेद् द्विजो मोहान् नरकं याति रौरवम्॥
इक्षु-वंशोद्भवस् सोमस् सोम-वंशोद्भवो द्विजः।
इक्षून् न पीडयेत् तस्माद् इक्षु-घात्य् आत्म-घातकः॥
इक्षु-दण्ड-सहस्रेण एकैकेन युधिष्ठिर।
बह्म-हत्याम् अवाप्नोति ब्राह्मणो यन्त्र-पीडकः॥
तस्मान् न पीडयेद् इक्षून् यन्त्र-चक्रे द्विजोत्तमः॥

भगवान् –

कूप-स्नानं तु यो विप्रः कुर्याद् द्वादश-वार्षिकम्।
स तेनैव शरीरेण शूद्रत्वं यात्य् अ-संशयः॥
यस् तु राजाश्रयेणैव जीवेद् द्वादश-वार्षिकम्।
स शूद्रत्वं वृजेद् विप्रो वेदानां पारगो ऽपि सन्॥
पत्तने नगरे वा ऽपि यो द्वादश-समावसेत्।
स शूद्रत्वं व्रजेद् विप्रो नात्र कार्या विचारणा॥
उत्पादयति यः पुत्रं शूद्रायां काम-मोहितः।
तस्य काय-गतं ब्रह्म सद्य एव विनश्यति॥
मद्य-प–स्त्री-मुखं मोहाद् आस्वादयति यो द्विजः।
तस्य काय-गतं ब्रह्म सद्य एव विनश्यति॥
यस् सोम-लतीकां विप्रः केवलं भक्षयेद् वृथा।
तस्य काय-गतं ब्रह्म सद्य एव विनश्यति॥
मैथुनं कुरुते यस् तु जिह्वया ब्राह्मणो नृप।
तस्य काय-गतं ब्रह्म सद्य एव विनश्यति॥

तस्माद् एतत् सर्वं न कार्यम् इत्य् अर्थः।

[[306]]

बोधायनः –

मृताभावे यथा तैलं घृत-प्रतिनिधिर् भवेत्।
पुत्त्राभावे तथा दाये पुत्री-पुत्रत्वम् अश्नुते॥

रत्नाकरे –

आत्मनस् स्व-गुरोर् नाम नामाति कृपणस्य च।
आयुष्कामो न गृह्णीयाज् ज्येष्ठ–पुत्र–कलत्रयोः॥
नाहरेद् गोमयं रात्रौ गो-मूत्रं न च सन्ध्ययोः।
न गृहं गोमयैस् सिञ्चेन् न रात्रौ जलम् आहरेत्॥

स्मृति-रत्ने –

भौम-शुक्रे तथा भानौ मध्याह्ने निशि सन्ध्ययोः।
नाश्वत्थ-सेवनं कुर्यात् कुल-क्षय-करं भवेत्॥

सङ्ग्रहे –

शुभं वाप्य् अ-शुभं कर्म कुर्याद् अश्वत्थ-पर्णकैः।
तत् सुराहुति-तुल्यं स्याद् इत्य् एवं मनुर् अब्रवीत्॥
आमश् च पनसश् चैव द्वौ पलाश-सहोदरौ।
यथोक्त वस्त्व्-अ-लाभे तु तेन कर्माणि कारयेत्॥

प्रपन्न-विषये श्री-पाञ्च-रात्रे पराशर-संहितायां प्रथमे ऽध्याये –

अ-वैष्णव-कृतं तक्रं प्रपन्नो मद्यवत् त्यजेत्।
अ-वैष्णवान्नं तच्-छेषं प्रपन्नो मांसवत् त्यजेत्॥

तत्रैव चतुर्थे ऽध्याये –

द्विज-शूद्रादि-तक्त्रं वै यः पिबेद् वैष्णवोत्तमः।
स चण्डालो भवेन् नित्यं जीवन्न् एव न संशयः॥ अ-वैष्णव-गृहानीतं तक्रं यो वैष्णवः पिबेत्।
श्वान–योनि–शतं प्राप्य पश्चात् सो मुक्ति-भाग् भवेत्॥

भरद्वाजः –

लोभाद् वा यदि वा मोहाच् छिष्यं शास्ति न चेद् गुरुः।
न चास्माच् छ्रुणुते यश् च प्रच्युतौ ताव् उभाव् अपि॥

शाण्डिल्यः –

कूपञ् च वृक्ष-मूलञ् च सह-वासं रिपोर् गृहे।
शून्यायतनम् एवापि न विशेन्नक्तम् अञ्जसा॥

[[307]]

स एव –

न विश्वासः क्वचित् कार्यो विशेषात् तु कलौ युगे।
पापिष्ठा वाद-वर्षेण मोहयन्त्य् अ-विचक्षणान्॥
गोपयेन् नोच्चरेद् धर्मं नापृष्टः किच्चिद् उच्चरेत्।
पृष्टो ऽपि न वदेद् अर्थं गुह्यं सिद्धान्तम् एव च॥
आश्रितायातिभक्ताय शास्त्र-शृद्धापराय च।
न्यायेन पृच्छते सर्वं वक्तव्यं शौच-योगिने॥
आत्म-पूजार्थम् अर्थार्थम् डम्बार्थम् अपि भिन्न-धीः।
अ-योग्येषु वदन् शास्त्रं सन्-मर्गात् प्रच्युतो भवेत्॥
उषरे निवपेद् बीजं षण्डे कन्यां प्रयोजयेत्।
सृजेद् वा वानरे मालां नापात्रे शास्त्रम् उत्सृजेत्॥
अ-च्छिद्र–कर्म-निरतश् शास्त्राभ्यास-रतस् सदा।
स्वाध्यायाभ्यास-योगेन नयेत् कालम् अ-तन्द्रितः॥

शाण्डिल्यः –

प्रयाणारम्भ-समये मध्ये विश्राम्य चोत्थिते।
आचम्य पुनर् उत्थाने कर्मारम्भं जपेद् बुधः॥
वल्मीकं गोमयञ् चैव छायाम् अश्वत्थ-तालयोः।
न लङ्घयेद् द्विजान् विप्रो गवादिकम् अनापदि॥
छायायां विश्रमेन् नापि कलिस् तत्र हि तिष्ठति॥
बुद्ध-रुद्रादि-वसतिं श्मशानं शवम् एव च।
अटवीं राज-धानीज् च दूरतः परिवर्जयेत्॥
पुण्य-तीर्थं समासाद्य तीर्थं भागवतं तु वा।
यथा बलं जपं दानम् उपवासं समाचरेत्॥

स एव –

पशु-पुत्रादिकं सर्वं गृहोपकरणानि च।
मुद्रयेच् छङ्ख-चक्राभ्यां नाम कुर्याच् च वैष्णवम्॥
कारयित्वा सुवर्णेन पञ्चायुध-गणं हरेः।
बध्नीयात् कण्ठ-देशे तु बालानां सूतिका-गृहे॥
न मुद्रयेद् आसनानि शयनानि मही-तलम्।
स्थापयेत् क्षेत्र-मध्ये तु शिलां चक्रादि-मुद्रिताम्॥
मुक्ता–मणि–सुवर्णाद्यैः कृत्वा चक्रादि-भूषणम्।
यथार्हं बिभृयुस् सर्वे पुमांसस् स्त्री-जनो ऽपि वा॥

व्यासः –

हरिद्रां कुङ्कुमञ् चैव सिन्धूरं कज्जलं तथा।
कूर्पासकञ् च ताम्बूलं मङ्गल्याभरणं शुभम्॥
केश-संस्कार-कबरी कर-कङ्कण-भूषणम्।
भर्तुर् आयुष्यम् इच्छन्ती दूषयेन् न पति-व्रता॥
यद् गृहं रज्यते नित्यं रङ्ग-वल्य्-आदि-लेपनैः।
तद्-गृहे वसते लक्ष्मीर् नित्यं पूर्ण-कलान्विता॥

इत्य् आदिनि स्नातक-व्रतानि दृष्टव्यानि

[[308]]