१९ प्रपत्तिः, उत्तर-कृत्यम्

प्रपत्तिः

एवं पञ्चभिस् संस्कारैस् संस्कृतो मुमुक्षुस् सन्
भगवति प्रपत्तिङ् कुर्यात्।

प्रपत्तेस् सर्वाधिकारत्वं, देश-कालाद्य्-अनपेक्षत्वं तद्-अवान्तर-भेदञ् च
भरद्वाज आह भरद्वाज-संहितायां प्रथमे ऽध्याये –

न जाति-भेदं न कुलं
न लिङ्गं न गुण-क्रियाः।
न देश-कालौ नावस्थां
योग्यो ह्य् अयम् अपेक्षते
ब्रह्म-क्षत्रिय-विट्-छूद्राः
स्त्रियश् चान्तर-जास् तथा।
सर्व एव प्रपद्येरन्
सर्व-दातारम् अच्युतम्।

एषा च त्रिविधा ज्ञेया
करण-त्रय भेदतः।
कायिकी वाचिकी चेति
मानसी सा द्विधा पुनः॥
प्रणामाङ्केन मुख्येन
न्यास-लिङ्गेन केवलम्।

गुर्व्-अधीना हि भवति
प्रपत्तिः कायिकी शुभा॥

अ-विज्ञातार्थ-तत्त्वस्य
मन्त्रम् ईरयतः परम्।
गुर्व्-अधीनस्य कस्यापि
प्रपत्तिर् वाचिकी भवेत्॥

न्यास-लिङ्गवता ऽङ्गेन
धिया ऽर्थ-ज्ञस्य मन्त्रतः।
उपासित-गुरोस् सम्यक्
प्रपत्तिर् मानसी भवेत्॥

बाल-मूक-जडान्धाश् च
पङ्गवो बधिरास् तथा।
सद्-आचार्येण सन्दृष्टाः
प्राप्नुवन्ति पराङ् गतिम्॥
ततश् च देव-देवेशं
भोगैर् अभ्यर्चयेद् +धरिम्।
अशुद्ध-वर्जं सकलैः
परिवारैस् समन्वितम्

अशुद्धं - देवतान्तरम्॥

[[40]]

पाद्मे उत्तर-खण्डे-

प्रपत्तिस् साधु विज्ञेया
त्रिविधा संप्रकीर्तिता।
तामसी राजसी चेति
सात्त्विकीति त्रिधा स्मृता॥
सापि त्रिधा कृता सिद्धिस्
सामान्या सर्व-देहिनाम्॥

उत्तर-कृत्यम्

भरद्वाज-संहितायां चतुर्थे ऽध्याये –

वर्जयेद् अन्य-देवानाम्
आलयाद्य्-उपसर्पणम्।
तथा गौर-हर्म्यादि
विमानस्यावलोकनम्॥
न च मन्त्रोपजीवी स्यान्
न चाप्य् अर्चोपजीवनः।
न निवेदित-भोजी स्यान्
न च निन्द्य-निवेदकः॥

स एकान्त्य् अन्य-विमुखो
हरिं सर्वेश्वरं परम्।
यस् समाश्रयते किञ्चित्
फलम् अभ्यर्थयन्नरः॥

न्यस्ताशेष-भरः श्रीशे
यस् तु दास्यैक-जीवनः।
स एष परमैकान्ती
द्वाव् एतौ वैष्णवौ स्मृतौ॥

अन्ये त्व् अवैष्णवास् सर्वे
मानुषा जिह्म-दृष्टयः।
असतस् तान् विदुर् देवा
तैस् सतां नास्ति सङ्गमः॥
अ-वैष्णवात् स्व-धर्म-स्थात्
वैष्णवः स्खलितो ऽपि सन्।
श्रेयान् एव हि मन्तव्यो
मूलात् स न परिच्युतः॥

प्रपन्नैश् चान्य-भजनाद्
युक्तापाय-समन्वितैः।
वैष्णवो वर्जयेत् सङ्गं
प्रच्यावेत ह्य् अ-वैष्णवात्॥
दैवेषु पित्र्येषु तथा
धर्मार्थेष्व् इतरेषु च।
अवैष्णवं न गृह्णीयात्
पात्रं दानेषु कर्हिचित्॥

तत्रैव पञ्चमे ऽध्याये –

वैष्णवस्याङ्क-शय्यायां वैष्णवस्य गृहे ऽपि वा।
देशे वा तद्विचरिते
संस्थिता यान्ति सद्गतिम्॥

पाद्मे –

नान्यं देवं नमस्कुर्यान्
नान्यं देवं निरीक्षयेत्।
नान्यं प्रासादम् आरोहेन्
नान्यम् आयतनं विशेत्॥

भरद्वाजः –

पितृ-मातृ-सुत-भ्रातृ-
भार्यादि-मरणे सति।
अश्रु-पातं प्रपन्नश् चेत्
कुर्वीत पतितो भवेत्॥

सङ्ग्रहे –

देवतान्तर-सम्बन्धि
घंटा-भेर्य्-आदि-सम्भवम्।
शृणुयान् न ध्वनिं विष्णौ
न्यस्त-स्वात्म-भरो नरः॥

अनेन मुमुक्षुर् भगवति न्यस्त-स्वात्म-भरस् सन् वरमेकान्ती भूत्वा मन्वादिभिर् उक्ते धर्मे देशे यथा-विभवं प्रासादं वा कुटिं वा कारयित्वा तत्र स्थित्वा यथा-शक्ति स्व-वर्णाश्रमोचितं कर्म भगवत्-प्रीत्यर्थं एवं निरस्त-सर्व-सांसारिक-दुःखो यावच्छरीर-पातं कुर्यादिति सिद्धम्।

इति भरद्वाज-कुल-तिलक-वङ्गीश्वरान्वय-जातस्य श्री-सुन्दरार्य-पुत्रस्य श्री-वैकुण्ठ-नाथस्य कृतिषु प्रपन्न-धर्म-सार-समुच्चये परिभाषा नाम प्रथमः परिच्छेदः। श्रीमते निगमान्त-महा-देशिकाय नमः।

[[41]]