१८ वैष्णवेष्टि-प्रयोगः

यस्य पित्रादयो ह्य् अ-वैष्णवा मृताः
यस् तु तेषां वैष्णवत्वं वाञ्छति
स वैष्णवेष्टिं कुर्यात्॥+++(5)+++

तथा वासिष्ठ-स्मृतौ सप्तमे ऽध्याये–

पित्रादयो मृता यस्य भवेयुर् यद्यवैष्णवाः।
इष्टिञ् च वैष्णवीं कुर्यात् तेषां पाप-विशुद्धये॥
यः कुर्याद् वैष्णवीम् इष्टिं विधिना वैष्णवोत्तमः।
वैष्णवत्वं प्रयात्येव कुलम् एकोत्तरं शतम्॥
एकादश्यां शुक्ल-पक्षे समुपोष्य द्विजोत्तमः।
धात्री-चूर्णेन लिप्ताङ्गो नद्यां स्नायाच्छुभे ऽमले॥
नित्य-मुक्त-समेतञ् च देवशं तर्पयेद्धरिम्।
गृहङ् गत्वा विधानेन पूजयेद् विष्णुम् अच्युतम्॥
गन्ध-पुष्पैर् धूप-दीपैर् नैवेद्यैर् विविधैर् अपि।
अष्टोत्तर-सहस्रन् तु मालती कुसुमानि च॥
आदाय मन्त्र-रत्नेन एकैकं पूजयेत् क्रमात्।
अभावे जाति-पुष्पाणां कोमलैस् तुलसी-दलैः॥
पद्मैर्व वा शत-पत्रैर् वा मन्त्रेणैव प्रपूजयेत्।
जपेच्च दश-साहस्रं मन्त्र-रत्नं समाहितः॥
रात्रौ जागरणं कुर्यात् पूजयेन्मधु-सूदनम्।
द्वादश्यान् तु प्रभाते तु स्नात्वा नद्यां यथा-विधि॥
एकैकम् अञ्जलिं दद्यान्नित्यान् मुक्तांश् च वैष्णवान्।
गृहङ् गत्वा हरेः पूजां प्रकुर्वीत यथोक्तवत्॥
सुहृद्यैर् विविधैर् भक्ष्यैर् नैवेद्यं विनिवेदयेत्।
ततो ऽग्नि-स्थापनं कृत्वा होमं कुर्याद्यथोक्तवत्॥
इध्माधानानुपूर्व्येण जुहुयाद्वै समाहितः।
तिलैश् च व्रीहिभिश् चैव समिद्भिः पिप्पलोद्भवैः॥
तथैका ऽऽज्येन चरुणा जुहुयात् कमलैर् अपि।
प्रत्येकम् अष्ट-साहस्रं होतव्यन् तु द्वयेन वै॥

[[38]]

पश्चात् तु वैष्णवैस् सूक्तैर् होतव्यं पायसेन वै।
आज्यम् एव तु होतव्यं पश्चाद् अष्टोत्तरं शतम्॥
वैष्णव्या चैव गायत्र्या तथा मन्त्र-त्रयेण वा।
नामभिः केशवाद्यैश् च तथा सङ्कर्षणादिभिः॥
मत्स्य-कूर्मादिभिश् चैव एकैकं जुहुयात् क्रमात्।
वैष्णवाश् चैव होतव्या नित्य-मुक्तास् स्व-नामभिः॥
ततः स्विष्ट-कृतं हुत्वा होम-शेषं समापयेत्।
पुष्पाणि च ततो दद्याद् देवाय सुरभीणि च॥
प्रत्यृचं वैष्णवैस् सूक्तेर् नामभिः केशवादिभिः।
ततो विप्रान् समाहूय गन्ध-माल्यादि भूषणैः॥
पूजयेत् पूर्ववच्छक्त्या केशवाद्यैश् च नामभिः।
भोजयित्वा ततो विप्रान् दक्षिणाभिः प्रतोषयेत्॥
एवम् इष्टिं प्रकुर्वीत वैष्णवीं वैष्णवोत्तमः।
पितुः पूर्वोक्त विधिना संस्कारादि समाचरेत्॥
वैष्णवेष्टि-विधानेन कृत्वा वै द्विज-सत्तमः।
कुलम् एकोत्तर-शतं पुनात्येव न संशयः॥
अवैष्णव-पितुर् यस् तु कुर्यात् संस्कार-कर्म चेत्।
अकृत्वा वैष्णवीम् इष्टिं रौरवं नरकं व्रजेत्[[??]]॥
तस्माद् इष्टिं विधानेन कृत्वा वै वैष्णवोत्तमः।
अवैष्णवानां कुर्वीत सर्वम् अस्यौर्ध्व-दैहिकम्॥
एकस्मिन् दिवसे यत्र कर्तुम् इष्टिं न शक्यते।
द्वाभ्यां त्रिभिश् चतुर्भिर् वा दिवसैश् च समापयेत्॥
तावच्च धारयेद् अग्निं यावद् इष्टिस् समाप्यते।
एकादश्यां द्वादश्यां वा कृष्ण-पक्षे विशेषतः।
अमायां मंद-वारे वा राकायां वा शुभे दिने॥
यस्मिन् कास्मिन् प्रकुर्वीत वैष्णवीम् इष्टिम् उत्तमाम्।
यावत् समाप्यते यज्ञः तावद् वै दीक्षितो भवेत्॥
अधश् शायी ब्रह्मचारी तथैव नियताशनः।
सर्वत्रारम्भ-दिवसे उपवासो विधीयते॥

[[39]]

तिलालाभे यव-द्रव्यं तत्राज्यं जुहुयाद् बुधः।
एवम् इष्टिं प्रकुर्वीत वैष्णवीं वैष्णवोत्तमः॥
क्रियते वैष्णवेष्टिस् तु यद्-देशे च द्विजोत्तमैः।
तद्-देशं वैष्णवं प्रोक्तं सर्व-बन्ध-विमोचनम्॥
येन वै क्रियते यस्मिन् वैष्णवी पाप-नाशिनी।
तत्-कुलं वैष्णवं तस्य पवित्रं नात्र संशयः॥
तस्मात् तु वैष्णवीम् इष्टिं सदा कुर्यात् तु वैष्णवः।
कुलस्य पावनार्थाय देशस्यास्यभिवृद्धये॥
यद्-देशे यजते सम्यग् इष्टिस् सा पाप-नाशिनी।
दुर्भिक्ष पीडा नास्त्येव (अत्र ग्रन्थ-पातः)