१७ शिष्याचार्य-क्रमः

अथ शिष्याचार्य क्रमः॥ शिष्यो यावज्जीवं यथा-गुरूपदेशम् उपतिष्ठन्नाचार्याधीन-वृत्तिस् तम् एव परं ब्रह्मेति मन्वानः तमेव सततं ध्यायन् जपन् नमन् अर्चयन् तन्नामोच्चारयन् तत्-पद-तीर्थं तदुच्छिष्टं तदुपभुक्तं वासोभूषणादि नित्यमुपयुञ्जानस् तदर्थम् एव शरीरादि धारयन् तदनुज्ञाप्रतीक्षको ऽवञ्चनया वरिवस्यन् सर्वदा स्वात्म-यात्राम् अनपेक्षयन् तच्छरीर-संरक्षण-परो भवन् [??]गुरून् अपि तत्-प्रीत्यै यनन् तद्धारादौ भागवतेष्वपि च सब्रह्मचारिषु गुरुवृत्तिर् यथा-योग्यञ् च तेषु वरिवस्यन् गुरु-कृतम् उपकारम् आदेह-पातम् अप्रत्युपकृत्यनुसन्दधन् सविस्मरन् तदाराध्ये भगवति अधिक-प्रीतिस् तम् एव उपायोपेय-भावेनालम्बमानस् सर्वशो न द्रुह्यन् गुरु-निन्दाद्यशृण्वन् ऐहिकामुष्मिकं सर्वं गुरुर् एवेति भावयन् नियमातिक्रमे रहसि बोधयेत्। पतनीयं वारयन् अति कृच्छ्र-गतं भगवत्-प्रपत्त्यादिभिस् समुद्धरन् अशक्य-वारणे तदन्तर्यामिणं तदाचार्यं वा भजन् तन्निवर्तनावकाशं प्रतीक्षमाणो जाते ऽवकाशे सम्बोध्य मार्गे स्थापयन् गुरु-सन्निधावप्रगल्भमानः स्व-समान-शीलैर् एव सह वसन् यावदायुषं गुरुम् उपासीत। गुरुरपि शिष्यम् औरसवत् पश्यन्नुपाधिं विना विद्यां ग्राहयन् स्व-देह-यात्रानपेक्षम् एतदुज्जीवनपरो यथा-गृहणम् औपनिषदीं विद्यां मातृवत् स्वयम् एवास्य रक्षणे प्रवृत्तो धर्मान् पूर्वाचार्य-परिगृहीतान् चिन्वन्नतिदुष्करे कर्मण्यनियोजयन् अर्थ-लोभेनागर्हयन् यावदर्पितैस् तुष्यन् तत्-समर्पितेषु परकीय-बुद्धिं वर्जयन् अन्तरान्तरावध्ययन-विघ्नं दास्येषु नियुञ्जानः स्खलने भर्त्सयन् स्खलनं वरेभ्यः अप्रकाशयन् स्खलित-मनालेपयन् अस्खलने उपलालयन् मनसि प्रियमाणे विद्यमानस्य गुणस्याभिनन्दयन् अविद्यमानस्य शिक्षयन् अनुगृह्णन् मार्गात् सतन्तं वारयन् अति कृच्छ्र-गतं भगवत्-प्रपत्त्यादिभिर् उद्धरन् अशक्य-वारणे ऽपि स्व-कृपया समुद्धरन् एवम् अन्यद्यथा शास्त्रम् आचरन् दीर्घ-बुन्धुर् भवेत्।

इत्येषः परम-संस्कार-विधिः।

[[35]]

अत्र संवाद-वचनानि जयत्सेन-संहितायां सात्विक-तन्त्रे च –

नमस्कृत्य गुरुं दीर्घ-प्रणामैस् त्रिभिर् आदितः।
तत्-पादौ गृह्य मूर्ध्नि स्वे निधाय नियमान्वितः॥
गृह्णीयान्मन्त्र-राजानं निधि-कांक्षीव निर्धनः।
लब्ध्वैवं मन्त्र-राजानं मां गच्छेच्छरणं नरः॥
भक्त्या परमया वापि प्रपत्त्या वा महा-मुने।
प्राप्योहं नान्यथा प्राप्यो मम कैंकर्य-लिप्सुभिः॥

अष्टाक्षर-ब्रह्म-विद्यायां द्वितीयाध्याये –

सर्वेषां श्रुति-मूलानां नित्य-नैमित्तिकात्मनाम्। श्रौत-स्मार्ता विरुद्धेषु कालेषु जपम् आचरेत्॥

नारदीय ब्राह्म-विद्यायां प्रथमे ऽध्याये –

सर्वस्वं वा तदर्धं वा तदर्धादर्धम् एव वा।
गुरवे दक्षिणां दद्यात् यथा-शक्त्यपि वा पुनः॥

विष्णु-धर्मे –

शरीरमर्थं प्राणञ् च सद्गुरुभ्यो निवेदयेत्।
एवं लक्षण-सम्पन्नः शिष्य इत्यभिधीयते॥

इतिहास-समुच्चये त्रयोदशे ऽध्याये युधिष्ठिर-भीष्म-संवादे –

यच्छ्रुतं न विरागाय न धर्माय न शान्तये।
नु बद्धम् अपि शब्देन काक-वाशितम् एव तत्॥
पण्डितैर् अर्थ-कार्पण्यात् पण्य-स्त्रीभिर् इव स्वयम्।
आत्मा संस्कृत्य संस्कृत्य परोपकरणी-कृतः॥

मोक्ष-धर्मे पञ्चाशत्तमे ऽध्याये –

यश् चाधर्मेण विब्रूते यश् चाधर्मेण पृच्छति।
तयोर् अन्यतरः प्रैति विद्वेषं वा ऽधिगच्छति॥

शान्ति-पर्वणि मोक्ष-धर्मे द्वात्रिंशच्छततमे ऽध्याये वसिष्ठ-कराल-जनक-संवादे –

[[36]]

नावेद-निष्ठस्य जनस्य राजन्
प्रदेयम् एतत्-परमं त्वया भवेत्।
विवित्समानस्य विबोध-कारकं
प्रबोधहोतोः प्रणतस्य शासनम्॥
न देयम् एतच् च तथा ऽनृतात्मने
शठाय क्लीबाय न जिह्म-बुद्धये।
न पण्डितज्ञाय परोपतापिने
देयं त्वयेदं विनिबोध यादृशे॥
श्रद्धान्वितायाथ गुणान्विताय
परापवादाद् विरताय नित्यम्।
विशुद्ध-योगाय बुधाय चैव क्रियावते ऽअथ क्षमिणे हिताय॥
विविक्त-शीलाय विधि-प्रियाय विवाद-भीताय बहु-श्रुताय।
विजानते चैव तथाहितं क्षमा दमाय नित्यात्मसमाय देहिनाम्॥
एतैर् गुणैर् हीनतमे न देयम्
एतत् तु नित्यं हि विशुद्धम् आहुः।
न श्रेयसा योक्ष्यति तादृशे कृतं
धर्म-प्रवक्तारम् अपात्र-दानात्॥
पृथ्वीम् इमां यद्यपि रत्न-पूर्णां
दद्यान्न देयं त्विदमव्रताय।
जितेन्द्रियायैतद् असंशयं
ते भवेत् प्रदेयं परमं नरेन्द्र॥

मनु-स्मृतौ द्वितीये ऽध्याये –

विद्ययैव समं कामं
मर्तव्यं ब्रह्म-वादिना।
आपद्यपि च घोरायां
नत्व् एनाम् इरिणे वपेत्॥

शाण्डिल्ये चतुर्थे ऽध्याये –

आत्म-पूजार्थम् अर्थार्थं दम्भार्थम् अपि खिन्न-धीः।
अयोग्येषु वदन् शास्त्रं सन्मार्गात् प्रच्युतो भवेत्॥
ऊषरे निवपेद् बीजं षण्डे कन्यां प्रयोजयेत्।
सृजेद् वा वानरे मालां नापात्रे शास्त्रम् उत्सृजेत्॥

नारदीये परम-रहस्य मन्त्रोपनिषद् अध्याये –

ब्राह्मणं श्रुत-सम्पन्नं वैष्णवञ् च गुरुं विदुः।
नारी वा वृषलो वापि गुरुत्वं यदि गच्छति॥
जिह्वाच्छेदं तदा कुर्यात् तस्य दण्डं नराधिपः।
शूद्र-शिष्यं तथा चैव नारी शिष्यं तथैव च॥
चण्डाल-कर्मणा नित्यं योजयेत् तु नराधिपः॥
क्षत्रियो नाथ वैश्यो वा गुुरुत्वं नेच्छति प्रभो।
सर्वेषाञ् च गुरुर् ज्ञेयो ब्राह्मणो वैष्णवस् सदा।

[[37]]