अथातः परम (पञ्च) संस्कार-विधिं व्याख्यास्यामो तापरं[[??]] पुण्ड्र-धारणं दास्य-नामकरणं मन्त्रोपदेशः भगवदाराधनं चेत्यमी पञ्च-संस्काराः; तत्राद्व्यं चक्र-धारणम्। ताननसहनेषु[[??]] दिनेषु वृध कृृध ङ्कुर्यात्, एकस्मिन्नेवाह्नि द्वार[[??]] चतुरस् सर्वान्वा, एकस्मिन्ननेक-संस्कार-विधा-नपक्षे अग्निमुखान्ते तापादि संस्कारे[[??]] प्रधान-होमान् अन्यतम होमान्ते अन्यं सुमुखीकृत्य जुहुयात्। न प्रत्येकं पूर्वापर-तन्त्र-विधिः – ब्राह्मणस्य विधिना कर्तव्यः, अन्येषां तन्त्रतो ऽपि वा।
अथ सदसद्विवेकादनतो[[??]] निर्विद्य विरक्तो घटक-द्वारा
सिद्धं सत्-सम्प्रदाये स्थिर-धियम् अनघं श्रोत्रियं ब्रह्म-निष्ठं
सत्वस्थं सत्य-वाचं समय-नियतया साधु-वृत्त्या समेतम्।
डम्भासूयादि-मुक्तं जित-विषय-गणं दीर्घ-बन्धुं दयालुम्
स्खलित्येशासितारं[[??]] स्व-परहित-परं देशिकं भूष्णुर् ईप्सेत्
इत्युक्त-लक्षणं गुरुम् उपयास्यन् तत्-प्रियाणि वस्तून्यासि समादाय उक्त-गुणम् आचार्यम् उपसङ्गम्य स्वावस्थां निवेद्य अनलसो वरिवस्यन्नुपासीत।
अथाचार्यः
सद्-बुद्धिस् साधु-सेवी समुचित-चरितस् तत्व-बोधाभिलाषी
शुश्रूषुस् त्यक्त-मानः प्रणिपतन-परः प्रश्न-काल-प्रतीक्षः।
शान्तो दान्तो ऽनसूयुश् शरणम् उपगतश् शास्त्र-विश्वास-शाली
शिष्यः प्राप्तः परीक्षां कृत-विदभिमतस् तत्वतश् शिक्षणीयः
इत्युक्त-लक्षणं शिष्यं वर्षं षाण्मासं त्रिमासं पक्ष-त्रयं त्रिदिनं वा नैश्चल्यदर्शं विविधोपायैः परीक्ष्य उक्त-लक्षणयुक्तम् अनन्य-चेतसं शिष्यं तापादिभिस् संस्कुर्यात् तस्य प्रयोगः –
[[25]]
पुण्य-दिने पुण्य-नक्षत्रे पूर्वाह्णे नद्यादिषु शिष्येण सह स्नात्वा कृत-नित्य-क्रियादिः गृहम् अलङ्कृत्य पुण्याहं वाचयित्वा स्व-गृह्योक्त-प्रकारेण प्रतिसरं संस्कृत्य स्नातं शिष्यं “विष्णोर्नुक”मिति धारयित्वा - अङ्कुरार्पण-पक्षे पूर्वेद्युर् एव तत्-कुर्नीत। अथाचार्यः प्राङ्मुख आसीनः त्रिः प्राणानायम्य महा-सङ्कल्पं कृत्वा
अमुक-गोत्रस्य अमुक-शर्मणः भगवन्मङ्गलानुशासन-योग्यता-सिद्ध्यर्थं श्रीमन्-नारायणदास्य-सिद्ध्यर्थं दृष्टादृष्ट-परिपूर्त्यर्थं भगवदाज्ञा-नाभि-वृद्ध्यर्थं भगवदाज्ञानुज्ञा कैङ्कर्य-करण-योग्यता-सिद्ध्यर्थञ् च तापाद्यैः पञ्चभिः परम-संस्कारैर् अमुं संस्करिष्य
इति सङ्कल्प्य प्राग्भागे देवं सलक्ष्मीकं पश्चिमाभिमुखम् आराध्य तत्-पुरतः स्वर्णादि-निर्मितं सुदर्शनादिकं पूर्वम् एव प्रतिष्ठितं प्रत्यहम् अभिपूजितं पञ्चामृतैः पयसा वा अद्भिश् चाभिषिच्य पुरतो देवस्य निधायार्घ्यादिभिर् अभ्यर्च्य भगवत्सन्निधावच्छिद्रे नवे घटे सूत्र-वेष्टिते व्रीहि-तण्डुलोपरि स्थिते तीर्थ-जलम् अभिपूर्य - तस्योपर्यूर्ध्वाग्रं कूर्चं निधाय यथा-शक्ति सुवर्ण-प्रतिमां निधाय वरुण-रूपिणं भगवन्तम् आवाह्य अर्घ्यादिभिर् अभ्यर्च्य “आपोहिष्ठे"ति तिसृभिः “हिरण्यवर्णा” इति चतसृभिः “पवमानस्सुवर्जन” इत्येतेन अनुवाकेन पञ्चभिश् शान्तिभिः पुंसूक्तेन मूल-मन्त्रेण मन्त्र-रत्नेन चाभिमन्त्र्य - उपोद-कुम्भं गो-चर्म-मात्रं गोमयेनोपलिप्य सिकतान् सम्प्रकीर्य तत्र प्रागादिषु द्वादश मध्ये चत्वार्यूर्ध्व-पुण्ड्राणि विलिख्य अथवा प्रागादिष्व् अष्ट तन्मध्ये प्रागादिषु चत्वारि तेषु
[[26]]
ॐ नमश् श्री-वासुदेवाय ॐ नमः श्रीमते केशवाय
इत्यादिभिस् तत्-तन्मन्त्रैर् वासु-देवादीन् केशवादींश् च यथा-क्रमं यथा-रूपं ध्यात्वा ऽऽवाह्यार्घ्यादिभिर् अभ्यर्च्य तत्र वा ऽन्यत्र स्थण्डिलं सैकती कृत्य संस्कार्यस्य यन्-नाम-दास्यं तन्नाम-देवतां भगवदात्मिकां प्रणवाद्येन नमोऽन्तेन मन्त्रेणावाह्यर्घ्यादिभिर् उपचार्य तन्मूर्ति-मन्त्रम् अष्टोत्तर-शतम् अष्टाविंशति-वारं वा यथा-रुचि जपित्वा - ततस् सकूर्च उद-कुम्भे दूर्वाग्रान् गौरसर्षपांश् च निक्षिप्य कौशेयेन परिवीय्य मूल-मन्त्रेण मन्त्र-रत्नेन च शतकृत्वो ऽभिमन्त्र्य कूर्चेन शिष्यं स्थण्डिलञ् च मूल-मन्त्रेण त्रिस् सम्प्रोक्ष्य देवस्य पश्चिमे भागे औपासनाग्नौ स्व-गृह्योक्त-विधिना अग्नेर् उपसमाधानाद्यग्नि-मुखान्तं कृत्वा विधिना वैष्णवाग्निं कुर्यात्।
तत्-प्रकारस् तु॥ वह्नि-मध्ये आधार-शक्त्यादि पाद-पीठान्तं कल्पयित्वा तत्र
वैष्णवाग्नेस् तु कर्तव्यं गर्भाधानादिकं क्रमात्।
अग्नौ च कल्पयेद् देवं योग-पीठादिकं क्रमात्॥
वह्नि-मध्ये महालक्ष्मीं सर्वाभरण-भूषिताम्।
सर्वावयव-सम्पूर्णां ऋतु-स्नातां विचिन्तयेत्॥
देवं नारायणं ध्यात्वा सर्व-लक्षण-लक्षितम्।
चतुर्-बाहुं विशालाक्षं कोमलं पीत-वाससम्॥
शङ्ख-चक्र-गदा-पद्मैश् चतुर्भिः कृत-लक्षणम्।
कञ्ज-पाणि-पद-द्वन्द्वं श्रीवत्साङ्कित-वक्षसम्॥
काल-मेघ-निभं शान्तं चन्द्र-बिम्ब-निभाननम्।
हार-केयूर-संयुक्तं किरीटेनोपशोभितम्॥
एवं ध्यात्वा समभ्यर्च्य कुण्ड-मध्ये विशेषतः।
ग्राम्य-धर्म-प्रकारेण चिन्तयेद् देशिकोत्तमः॥
ततो ऽग्निं जनयेत् तत्र अग्नि-बीजेन साधकः।
कुशेन प्रोक्षयेद् अग्निं कुण्ड-मध्ये तु विष्टरे॥
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा।
जातकं नामकरणम् अन्न-प्राशनम् एव च॥
चौलं तथोपनयनं होतारं शुक्रियं तथा।
वेद-व्रतञ् च गो-दानं समावर्तं विवाहकम्॥
एभिष् षोडश-संस्कारैर् वैष्णवाङ्गिं च कारयेत्।
अकारादि क्षकारान्तं विष्णु-मन्त्रेण देशिकः॥
त्रीणि त्रीणि च होतव्यं गर्भाधानादिकान् क्रमात्॥
[[27]]
ॐ ॥ गर्भाधानं संपादयामि ॐ आकाराय विष्णवे स्वाहा (विष्णव इदन्नमम) इति होमप्रकारः।
एवं वैष्णवाग्निं कृत्वा “अन्वारब्धे शिष्ये ताप-होमं करिष्य” इति संकल्प्य। आज्येन मूलमन्त्रेण एकाम् आहुतिं जुहुयात्। ततः प्रत्यक्षरम् अष्टावाहुतीः
ॐ स्वाहा सं स्वाहा मं स्वाहा
इत्यादिभिः। पुनः मूल-मन्त्रेण एकां पुंसूक्तेन प्रत्यर्चं विष्णु-गायत्र्या पुनः पुनर् अभ्यावर्तया तिस्रः। “विष्णोर्नुकमि"त्येकां “विष्णोरराटमसी"त्यादिभिः प्रतिवाक्यं षट्॥ “तदस्य प्रियं प्रतद्विष्णुरि"ति द्वाभ्यां “परोमात्रये"त्येकां “विचक्रमे त्रिर्देव” इति द्वाभ्यां
अतो देवा इदं विष्णुः त्रीणि पदा विचक्रमे विष्णोः कर्माणि तद्विष्णोः तद्विप्रास
इति षड्वैष्णवैर् हुत्वा चरणं पवित्रम्॥ लोकस्यद्वारम्॥
पवित्रवन्तः परिवाजमासते ऽपि तेषां पुत्रो अधिरक्षति व्रतं स्वाहा- पवित्रन्ते विततं ब्रह्मणस्पते। प्रभुर्गात्राणि पर्येषि विश्वत स्स्वाहा- अतप्ततनूर्नतदामोश्नुते शृतास इद्वहंतस्तत्समाशत स्वाहा [[TODO: परिष्कार्यम्]]
इति पञ्चभिः।
येन देवाः ववित्रेण। आत्मानं पुनते सदा। तेन सहस्रधारेण। पावमान्यः पुनंतु मा स्वाहा- प्राजापत्यं पवित्रं शतोद्यामँ हिरण्मयम्। तेन ब्रह्मविदो वयम्। पूतं ब्रह्म पुनीमहे स्वाहा- इन्द्रस्सुनीती सह मा पुनातु। सोमस्वस्त्या वरुणस्समिच्या। यमो राजा प्रमृणाभिः पुनातु मा। जातवेदा मोर्जयन्त्वा पुनातु स्वाहा- सुदर्शनाय हेतीनामधिपतये स्वाहा-
इत्यादिभिः पञ्च-युधाहुतीर् हुत्वा। ततो भगवतो हविर् निवेद्य तन्मध्यतो ऽवदाय हस्तेन मूल-मन्त्रमारभ्याज्या-हुतिवत् सर्वं हुत्वा।
[[28]]
ऊर्ध्व-पुण्ड्र-मन्त्र-संस्कार-होमः
अथ उर्ध्व-पुण्ड्र-संस्कार-होमं करिष्य
इत्यागूर्य पुंसूक्तेन प्रत्यर्चं “ओं श्री-वासुदेवाय स्वाहे"त्याद्याश्चतस्रः॥ “ॐ केशवाय स्वाहे"त्याद्याश् च द्वादश॥ मूल-मन्त्रेण मन्त्र-रत्नेन च हुत्वा। नाम संस्कार-होमम् आचार्यः तन्मूर्ति-मन्त्रत आज्यतश् चरुतो वा शतम् आहुतीर् हुत्वा मूल-मन्त्रेण मन्त्र-रत्नेन चैकैकाम्॥
मन्त्र-संस्कार-होमः
अथ मन्त्र-संस्कार-होमं करिष्य
इति सङ्कल्प्य मूल-मन्त्रेण मन्त्र-रत्नेन च प्रत्येकम् अष्टोत्तर-शतम् आज्येन जुहुयात् – विष्णु-गायत्र्या सकृत् पुंसूक्तेन च प्रत्यर्चम्॥
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह स्वाह। ताम्म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहं स्वाहा। अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्। श्रियन्देवीमुपह्वये श्रीर्मादेवी जुषतां स्वाहा। कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्। पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियं स्वाहा। चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्। तां पद्मनीमीं शरणमहं प्रपद्ये ऽलक्ष्मीर्मे नश्यतां त्वां वृणे स्वाहा। आदित्यवर्णे तपसो ऽधि जातो वनस्पतिस्तव वृक्षो ऽथ बिल्वः। तस्य फलानि तपसा नुदन्तु मायान्तरायाश् च बाह्यालक्ष्मीस्स्वाहा। उपैतु मां देवसखः कीर्तिश्च च मणिना सह। [[TODO: परिष्कार्यम्]]
[[29]]
प्रादुर्भूतोस्मिराष्ट्रेस्मिन् कीर्तिमृद्धिं ददातु मे स्वाहा। क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्। अभूतिमसमृद्धिञ्च सर्वान्निर्णुद मे गृहात्स्वाहा। गन्धद्वारां दुराधर्षां नित्यपुष्टाङ्करीषिणीम्। ईश्वरीं सर्वभूतानां ता (त्वा) मि होपह्वये श्रियं स्वाहा। मनसः काममाकूतिं वाचस्सत्यमशीमहि। पशूनाँ रूपमन्नस्य मयि श्रीश्श्रयतां यशस्स्वाहा। कर्दमेन प्रजाभूता मयि सम्भव कर्दमा। श्रियं वासय मे कुले मातरं पद्ममालिनीं स्वाहा। आपस्सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे। निचदेवीं मातरं श्रियं वासय मे कुले स्वाहा। आर्द्रां यः करिणीं यष्टिं पिङ्गलां पद्ममालिनीम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह स्वाहा- आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम्। सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो ममावह स्वाहा- तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यम्। प्रभूतं गावो दास्यो ऽश्वान्विन्देयं पुरुषानहं स्वाहा। पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि। विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व स्वाहा।
श्रिये᳓ जातः᳓, श्रिय᳓ आ᳓ नि᳓रियाय
श्रि᳓यं व᳓यो+++(=अन्नम्)+++ जरितृ᳓भ्यो दधाति ।
श्रि᳓यं व᳓साना अ-मृतत्व᳓म् आयन्
भ᳓वन्ति सत्या᳓ समिथा᳓+++(=युद्धानि)+++ मित᳓-द्रौ+++(←द्रु)+++ +++(सोमे)+++ ॥
श्रियैजात श्रिय आनिर्याय श्रीयं वयो जनितृभ्योददा[[??]] श्रियंवसाना अमृतत्वमायन् भवन्ति सद्यस्समिधा[[??]] स्वाहा। श्रिय एवैनं तत् श्रियामादधाति। सन्ततमृचावषट्कृतं सन्धत्तं सन्धीयते प्रजया पशुभिः। य एवं वेद स्वाहा। ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि। तन्नो लक्ष्मीः प्रचोदयात्स्वाहा। सर्वत्र (श्रिय इदं न मम) [[TODO: परिष्कार्यम्]]
इत्युद्देश-त्यागः इत्याज्यं हुत्वा।
[[30]]
याग-होमः
“अथ याग-होमङ्करिष्य” इति सङ्कल्प्य। मूल-मन्त्रेण मन्त्र-रत्नेन वा शतम् अष्टोत्तरं हविषा साज्येन जुहुयात्- पुंसूक्तेन च प्रत्यृचा मूल-मन्त्रैस् सकृत् सकृत्। अथावरण-देवताश् च तन्मन्त्रेण हुत्वा। अत्र प्रथमावरण-देवताः वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-लक्ष्मी-सरस्वती-शान्त्यः॥ द्वितीयावरण-देवताः केशवादयो द्वादश-सङ्कर्षण-प्रद्युमानिरुद्ध-पुसषोत्तमाधोक्षज-नारायणाच्युत-जनार्दनोपेन्द्राः॥ तृतीयावरण-देवताः मत्स्य-कूर्मादयो दश। चतुर्थावरण-देवताः अच्युतानन्त-दुर्गा विष्वक्सेन-जनार्दन-शङ्ख-निधयः॥ पञ्चमावरण-देवताः ऋग्यजुस् सामाथर्वणानि सावित्र-विहगेश-यम-धर्म*महाश् च॥ षष्ठावरण-देवताः शङ्ख-चक्र-गदा-पद्म-खड्ग-शार्ङ्ग-हल-मुसलानि॥ सप्तमावरण-देवताः इन्द्रादीशानान्ताः अष्टौ देवताः॥ एवं सप्तावरण-देवांश् च हुत्वा ततस् स्विष्टकृतं जुहुयात्- तत्र पवित्रादीनि पञ्च-भगवदायुधानि अग्नावुत्तरार्ध-पूर्वार्धे पवित्रं दक्षिणार्ध-पूर्वार्धे पाञ्चजन्यं यथावकाशम् इतराणि निधाय॥
ॐ सुदर्शनाय हेतीनामधिपतये नमः। ॐ श्रीमन्तं सुदर्शनं हेतीनामधिपतिम् आवाहयामि
इति सुदर्शनम् आवाह्य। पाञ्चजन्यादिकं तत्तन्मन्त्रेणावाह्य। आवाहितेभ्यो ऽर्घ्य-पाद्याचमन-स्नान-वस्त्रोपवीत-गन्ध-पुष्प-धूप-दीप-नैवेद्य-ताम्बूलानि परिकल्प्य सुप्रसन्नानि ध्यात्वा - शिष्यस् संस्कर्ता च प्रदक्षिणम् अग्निं कृत्वा अग्निष्ठं भगवन्तं पवित्र-पाञ्चजन्यादीन् तद्धेतींश् च प्रणम्य आचार्यं संस्कार-स्वतन्त्रोपकरण-भूतं निध्यायात्मानं शिष्यं फलं चाविपर्यासयन् आचार्यस्तं पवित्रं पूर्वम् आदाय प्राङ्मुखस् सन् उन्मुखस्योपविष्टस्य शिष्यस्य दक्षिणे बाहावङ्कयन्
[[31]]
सुदर्शन-महा-ज्वाल-कोटि-सूर्य-सम-प्रभ।
अज्ञानान्धस्य मे नित्यं विष्णोर् मार्गं प्रदर्शय॥
श्री-सुदर्शनाय हेतीनामधिपतये नमः
इति शिष्यं वाचयन् अङ्कयीत। ततः पाञ्चजन्यम् आदाय सव्ये बाहाव् अङ्कयिष्यन्
पाञ्चजन्य-पाञ्चजन्य निज-ध्वान-ध्वस्त-पातक-सञ्चय। पाहि मां पापिनं घोर-संसारार्णव-पातिनम्॥
श्री-पाञ्चजन्याय शङ्खाधिपतये नमः
इति वाचयन्नङ्कयीत -
एवं गदा-धनुः-खड्गान् ललाटे मूर्ध्नि वक्षसि।
चक्रं वा शङ्ख-चक्रे वा धारयेत् सर्वम् एव वा
इति विधानात् यथा-रुचि-विकलं तत्र यथा-पूर्वानुष्ठानं धारयेत्। अथ पञ्च-गव्येन पयसा वा शुद्धाभिर् अद्भिश् च विमृज्य निधाय पूर्ववद् गन्धादिभिर् अभ्यर्च्य।
ऊर्ध्व-पुण्ड्राणि धारयिष्यन् आचार्यो ऽधिकाल्पक-संस्कारेणान्तेवासिना नाम देवताः परीत्य प्रणम्य उपविश्य। प्रणिपत्योपसेदुषे तस्मै यथा-क्रमम् ऊर्ध्व-पुण्ड्राणि प्रदर्श्य। एषां नामानि रूपाणि यथावदुपदर्शयन् शिष्यो ऽपि नमस्कृत्य तानि क्रमेण हृदि निक्षिपेत्। अथाचार्यो मृत्स्नां श्वेतां विधिवन्निघृष्य मूल-मन्त्रेण मन्त्र-रत्नेन च समूह्य भगवदुपक्रमं स्वाचार्य-पर्यन्तेभ्यो गुरु-परम्पराभ्यस् समर्प्य स्वयञ् च धृत्वा अङ्गुलीभिर् आदाय शिष्य-ललाटादिष्वङ्गेषु द्वादश-त्रयोदश वा नमोन्तैस् तत्-तन्नामभिर्ध्यायन् तेषु केशवादीन् उपवेश्य सान्निध्यं सम्प्रार्थ्य “चतुश् चक्रं नमस्यामी"त्यादि श्लोकाुंश् च उपदिश्य तेषाम् अन्तरालेषु श्रीयं हरिद्रां धारयेत्।
[[32]]
दासनाम
अथ नाम दास्यन्नाचार्यो ऽन्तेवासिना सह
नाम देवतां परिश्रयन्न् असौ
शिष्यं कौपीनं कटि-बन्धनम् अहत-वाससी ग्राहयित्वा
नाम देवता-प्रसाद-रूप-गन्ध-माल्यादिभिर् अलङ्कृत्य तन्मूर्तिं मनसा ध्यायन् नाम दासान्तं दद्यात्; “असावमुक-दान इति। ततस् तन्मूर्तये हविर् निवेद्य परीत्य प्रणम्य हृदि निक्षिपेत्।
मन्त्रोपदेशः
अथ मन्त्रम् उपदेक्ष्यन्न् आचार्यो ऽन्तेवासिना सहाऽग्नि-ष्ठं देवं परीत्य प्रणम्य
यथा-स्थानम् उपविश्य प्रणिपत्य
उपसेदिवांसं शिष्यम् उद-कुम्भीयाभिर् अद्भिर् मूल-मन्त्रेण मन्त्र-रत्नेन चाभिमन्त्र्य
ताभिः कूर्चतश् शत-कृत्वस् सम्प्रोक्ष्य
ताभ्याम् एव मन्त्राभ्याम् अन्ततश् च प्राशयित्वा -
शोषणादिभिः परिशोधिते तच्छरीरे
अस्त्र-मन्त्रेण रक्षां विधाय
दीर्घं त्रिः प्रणतस्य मूर्ध्नि दक्षिण-हस्तं निक्षिप्य सव्यं हृदि,
कृपया समीक्ष्य *
स्वाचार्ये, परतन्त्रे शिष्ये च प्रकाशयन्
आत्मानं शिष्यं फलञ् चाविपर्यासयन्
उक्त-क्रमेणोपदिशन्
स्वाचार्योपक्रमं गुरु-परम्परां नमस्कृत्य
अथ श्रीयं
त्वं माता सर्व-लोकानां
सर्व-लोकेश्वर-प्रिये।
आश्रयस्वेश्वरम् इमम्
अपराध-शतैर् युतम्॥
इति सम्प्रार्थ्य
श्रीयं पुरस्कृत्य भगवन्तं च
नारायण-दया-सिन्धो
वात्सल्य-गुण-सागर।
त्राह्येनं पापिनं देव
कृपया समुपागतम्
इति प्रसाद्य
स्वाचार्यं हृदये ध्यायन्
तस्य दक्षिणे कर्णे गुरु-परम्परां स्वाचार्योपक्रमम् उपदिश्य
सर्षिछन्दो दैवतं सन्यासं समुद्रं मन्त्र-रत्नं प्रथमम् उपदिशेत्, अनृष्यादिकं वा।
मन्त्रार्थ-बोधनम्
अर्थं सङ्ग्रहतो बोधयेत् -
श्रीमन्-नारायणस् स्वामी
दासस् त्वम् असि तस्य वै।
परम् ईप्सुस् तम् एवार्थम्
अनुकूलो, विसर्जय॥
प्रातिकूल्यं, सुविस्रब्धः
सम्प्रार्थ्य शरणं परम्।
व्रज तस्यैव चरणौ
तत्रैवात्मानम् अर्पय॥
इति सम्बोधितश् शिष्यः -
[[33]]
श्रीमन्-नारायण-स्वामिन्
दासो ऽहं तव तस्य वै।
परम् ईप्सुस् तम् एवार्थम्
अनुकूलो, विसर्जयन्॥ प्रातिकूल्यं सुविस्रब्धस्
सम्प्रार्थ्य शरणं परम्।
व्रजमि युष्मच्चरणौ
तत्रैवाहम् अथार्पितः॥
इति वाचयन्
भगवत्-पादाब्जयोर् न्यासं कारयेत्।
वसुरण्यादि मन्त्रैर् ब्राह्मणस्य क्षत्रिय-वैश्ययोर्
वैदिक-तान्त्रिक-मन्त्र-रत्नादिभि स्त्री-शूद्रादीनां
केवल-तान्त्रिकैर् भाषा-मन्त्रैर् अपि वा सर्वेषां
मन्त्र-रत्नेन भरन्यासस्
तत्-समानार्थं मन्त्रम् उपदिशेत्।
वृत्त्य्-उपदेशः
तत आचार्यो वृत्तिम् उपदिशेत्।
नित्यं विष्णु-परं कर्म कुरु निन्द्यानि माकृथाः।
सदा ऽऽत्मानं विबुध्यस्व न पापेषु मनः कृथाः॥
यजस्व नित्यम् आत्मेशं मा याजीर् अन्य-देवताः।
लक्षस्व लक्षणैर् भर्तुर् लक्षिष्ठा मा ऽन्य-लक्षणैः।
उपास्स्व वैष्णवान् नित्यम् अनतो मोपसीसरः।
प्रीत्या देवं प्रणम्योमित्युक्त्वा ऽऽत्मानं नं निवेदयेत्॥
इज्या
अथ याजयिष्यन् पूर्ववत् समाराधितं भगवन्तं प्रदक्षिणी कृत्य प्रणिपत्योपसेदुषे शिष्याय
प्राग् एव स्थापितं शुभ-विग्रहं देवं व्यक्त-परिवारं अव्यक्त-परिवारं वा
आचार्य-परिगृहीतेषु समाराधन-विधिष्व् अन्यतमेन इष्टेन विधिना सङ्गृह्य याजयेत्।
समाप्तिः
ततः परिधि-प्रहरणादि-तन्त्र-शेषं परिसमाप्य
आशिषो वाचयित्वा
स्वे स्वे काले “अभिगमनोपादानेज्या स्वाध्याय-योगांश्” चेति पाञ्चकालिकान् धर्मान् उपदिशेत्। अथ शिष्यो गुरुं प्रणम्य वस्त्र-भूषण-धनधान्यादिभिर् यथा-विभवम् अकृत्रिमं सम्भाव्य श्रीमतो वैष्णवान् भोजयेद् आपूपैस् सक्तुभीर् ओदनैर् अनन्त-दक्षिणादिभिः।
[[34]]