१५ मन्त्राभ्यास-कालः

अथ मन्त्राभ्यास-कालः काल-प्रकाशिकायाम् – अथात्रावसरे मन्त्र-स्वीकारे काल उच्यते॥

मन्त्रारम्भे चैत्र-मासो बहु दुःख-फल-प्रदः।
वैशाखे रत्न-लाभस् स्याज्ज्येष्टे तु मरणं भवेत्॥
आषाढे सर्व-नाशस् स्याच्छ्रावणे बुद्धिर् उत्तमा। प्रजानाशो भाद्रपदे भवेद् आश्वयुजे सुखम्॥
कार्तिक्यां ज्ञान-वृद्धिस् स्यान्मार्गशीर्षे सुखोदयम्।
पुष्ये तु ज्ञान-नाशस् स्यान्माघे मेधावि-वर्धनम्॥
फाल्गुने सर्व-वश्यं स्यान्मन्त्रारम्भे फलं स्मृतम्।
उत्तरा-त्रितयं ब्रह्मा रेवती पुष्य-वासवाः॥
वायु-मित्र-पितृत्वाष्ट्र नैऋतादिति शङ्कराः।
इन्द्र-वैष्णव-हस्ताश् च दीक्षायान् तु शुभावहाः॥
चतुर्दश्यष्टमि-पर्व-भौम-वाराश् च वर्जिताः।
चर-स्थिरोभये श्रेष्ठ-निन्द्य-मध्याः क्रमात् स्मृताः॥
दीक्षा-काले ग्रहास् सर्वे रन्ध्र-स्थाने विनाशदाः।
मन्त्रारम्भे सदावर्ज्यं पितृ-मास-चतुष्टये॥
ततो ऽन्ये शुभदा मासा इति केचित् प्रवक्षते॥
जन्म-त्रयं सङ्क्रमश् च सौर-वाराश् च शोभनाः॥

इति।

[[24]]