अथ तप्त-मुद्रा-धारण-दीक्षा-कालम् आह कर्म-काण्डे द्वादशेऽध्याते -
शृणु देवि यथा-न्याय्यं
वर्णानुक्रमतो ऽपि वा।
दीक्षाम् आचार-भेदञ् च
कथ्यमानं समाहिता
इत्यारभ्य गुरु-संश्रयणादि-प्रकारम् उक्त्वा
ततः परन् तु दीक्षाया
वक्ष्ये कालं शुचि-स्मिते।
वसन्ते दीक्षयेद् विप्रान्
ग्रीष्मे राजन्यम् एव च॥
शरदस् समते वैश्यं
हेमन्ते शूद्रम् एव च।
स्त्रीयश् च वार्षिके काले
दीक्षयेत यथा-विधि॥
एवं सर्वत्र तप्त-मुद्रा-धारण (दीक्षा-प्रकरणे) विधान-प्रकरणे
“यथा-विधि विधिना विधि-पूर्वकं विधानत” इत्यादि विशेषणानाम् उक्तत्वात्
तन्निषेध-प्रकरणे तादृश-शब्दाभावाच्च द्विजानां विधि-पूर्वकं तप्त-चक्राङ्कनं कार्यम्।
स्त्री-शूद्रान् उपनीतानान् तु तान्त्रिकत्वेनेति निरवद्यम्। अत्र सङ्ग्रह-काराः –
स्त्रीणाम् अनुपनीतानां शूद्राणाञ् च विशेषतः।
लाञ्छनं शङ्ख-चक्राभ्यां तत्र होमं न कारयेत्॥
इति।