तच्चक्रादि-धारणञ् च श्रुति-स्मृति-शत-सिद्धम्। अत्र श्रुतिः॥ अथर्वण-महोपनिषदि ब्रह्म-सूक्ते-
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम्।
सव्ये तु शङ्खं बिभृयादिति ब्रह्म-विदो विदुः॥
काण्व-वेदे –
देवासोयेन विधृतेन बाहुना। सुदर्शनेन प्राचां स्वर्गमायान्ति नामनवपो लोक विसृष्टा तप्यन्ति ब्रा(ब्र)ह्मणस् तद्वयन्ति॥ सर्वा वै देवतानां सर्वा वै विप्राणां सर्वा वै क्षत्रियाणां सर्वा वै वैश्यानां सर्वा वै शूद्राणाम् [[TODO: परिष्कार्यम्]]
इत्यग्निना वै होत्रा तप्त-चक्रं द्वि-भुजे धार्यं। अथोर्ध्व-पुण्ड्रम् आलिखेत्। तस्माद् द्विरेखम्भवति। पुनरागमनं न। ब्रह्मणस् सायुज्यं सलोकतामाप्नोति॥ अथर्वण-सुदर्शनोपनिषदि –
यज्ञोपवीती धृत-चक्र-धारी यो ब्रह्र-विद्ब्रह्म-विदो मनीषाः [[TODO: परिष्कार्यम्]]
हिरण्यमादाय सुदर्शानं कृत्वे" त्यादि। “पवित्र"मित्यग्निः
अग्निर्वै सवास्रारः सहस्रारो नेमिः। नेमिना तप्ततनुः ब्रह्मणस्सायुज्यं सलोक तामाप्नोति॥ [[TODO: परिष्कार्यम्]]
[[17]]
यजुषि –
येनदेवाः पवित्रेण + पुनातु॥
काठके –
चरणं पवित्रं + सुधितान्दधातु॥
धृतोर्ध्व-पुण्ड्रः कृत-चक्र-धारी विष्णुं परं ध्यायति यो महात्मा। स्वरेण मन्त्रेण सदा हृदि स्थितं परात्परं यन्महतो महान्तम्॥
ऋचि –
प्रते विष्णो अब्जचक्रे पवित्रे जन्माम्भोधिं तर्तवे चर्षणीन्द्राः। मूले बाह्वोर्दधतेन्ये पुराणा लिङ्गान्यङ्गे तानकान्यर्पयन्ति॥ [[TODO: परिष्कार्यम्]]
यजुषि च साम्नि च –
पवित्रं ते विततं ब्रह्मणस्पते। प्रभुर्गात्राणि पर्येषि विश्वतः। अतप्ततनूर्नतदामो अश्नुते। शृतान इद्वहन्तस्तत्समाशत॥ [[TODO: परिष्कार्यम्]]
बृहदारण्यक-भेदे –
निचिक्षेपनुषणं भिद्यमानं मध्ये बाहुमदधत्सुदर्शनम्। विष्णोरिदं भूरितेजः प्रधर्षयति दिवा नक्तं बिभृयुस्तञ्जनास [[TODO: परिष्कार्यम्]]
इति। किञ्च तप्त-मुद्रा-धारण-स्थानानि। अथर्वण-ब्रह्म-सूक्ते ऋचि बाष्कले यजुषि बृहदारण्यक-भेदे अथर्वणे सुदर्शनोपनिषदि ऋक्सामे त्रिष्वपि वेदेषु कठ-वल्ल्यां कैवल्य-तुङ्ग-शाखायाञ् च सन्ति । वासिष्ठ-स्मृतौ -
अष्टमात् षोडशादब्दाद्धार्यं चक्रादि-धारणम्।
प्रतप्तैर् अङ्कनं पश्चात् सदा वा भूषणं स्त्रियाः॥
जात-कर्मणि वा कुर्याच्चौलोपनयनेपि वा।
वेदाध्ययन-काले वा चक्र-चिह्नं विधान तः॥
पराशर-धर्म-शास्त्रे उत्तर-खण्डे त्रयोदशोध्याये – श्री-पराशरः “वक्ष्यामि मुनयस् सर्व"मित्यारभ्य
उद्वाह-समये स्त्रीणां पुंसां चैवोपनायने चक्रस्य धारणं प्रोक्तं मन्त्रैः पञ्चायुधानि वा
इत्यन्तेन सम्यक्प्रतिपादितम्। भारते श्री-कृष्णार्जुन-संवादे
मच्चक्राङ्कित देहो यो मद्भक्तो भुवि दुर्लभः।
नैवाप्नोति वशं मृत्योर् अप्याज्ञा-भङ्ग-कृन्नरः॥
नान्यं देवं नमस्कुर्यान्नान्यं देवं निरीक्षयेत्।
चक्राङ्कितस् सदा तिष्टेद् भक्तितः पाण्डु-नन्दन॥
[[18]]
विष्णु-तत्वे –
चक्रादि-धारणं पुंसां परसम्बन्ध-वेदनम्।
पति-व्रता-निमित्तं हि वलयादविभूषणम्[[??]]॥
भीष्म-पर्वणि चतुर्थे ऽह्नि देव-गुह्ये –
ब्राह्मणैः क्षत्रियैर् वैश्यै शूद्रैश् च कृत-लक्षणैः।
अर्चनीयश् च[[??]] सेव्यश् च नित्ययुक्तैस् स्व-कर्मसु॥
कृतलक्षणैः – कृत-चक्रादि-धारणैः ; श्री-विष्णु-मन्दिरे
विप्राद्यास् ते च शूद्राश् च यदैव कृत-लक्षणाः ।
तदा तु योग्या विज्ञेया हरि-संश्रयणादिषु॥
शास्त्रादितासु सर्वासु सामग्रीषु महामते।
यागोपकरणान्येवम् अर्घ्य-पात्रादिकान्यपि॥
सुकार्याणि यथा-योगं शङ्ख-चक्रादि-लाञ्छनैः।
तथा यानासनादीनि विभोस् सर्वाणि यत्नतः॥
स्वात्मोपकरणं सर्वम् आसनादि विवर्जितम्।
अङ्गुलीयक-पर्यन्तं भूषणं कटकादिकम्॥
उत्तमाङ्ग-समुद्धार्यं सर्वम् उष्णीष-पूर्वकम्।
चक्रादि लाञ्छितं कुर्यात् तदीयाश् च गवादयः॥
विप्रादिवल्लाञ्छितव्यास् तदीयाः पुरुषादयः।
लाञ्छितव्या यथा-योगं शङ्ख-चक्रादि लक्षणैः।
आधारकाद्याः कर्मण्या एवं चक्रादि-लाञ्छिताः।
देवतान्तर-चिह्नैस् तु अकर्मण्यास्तु लाञ्छिताः॥
यत्र वा भगवन्मूर्तौ लाञ्छनं न प्रदृश्यते।
तत्रैव लक्षण-न्यासं न कुर्यात् स्वेच्छया द्विजः॥
यथा स्थितैव सा व्यक्तिः पूज्या व्यापक-मन्त्रतः।
तदन्ये लाञ्छितव्यास् स्युस् सर्वे पूर्वम् अलाञ्छिताः॥
श्री-विष्णु-तत्वे चतुर्थे पादे चतुर्थे पटले –
ब्रह्म-चारी गृहस्थो वा वान-प्रस्थो ऽथ भिक्षुकः।
एते ह्याश्रमिणः प्रोक्ताश् चत्वारः क्रम-योगतः॥
इत्यारभ्य-
चक्र-लिङ्ग-धरास् सर्वे स्व-मत-व्रत-निष्ठिता
इति। भवेयुर् इति शेषः।
[[19]]
हारीतः –
संस्काराः पञ्च-कर्तव्याः पारमैकान्त्य सिद्धये।
प्रतिसंवत्सरं कुर्याद् उपाकर्माप्यनुत्तमम्॥
सर्व-वेद-व्रतं हुत्वा तत्र सम्पूजयेद्धरिम्।
दद्याद् अत्रोपवीतानि विष्णवे परमात्मने॥
ब्राह्मणेभ्यश् च दत्वा तु बिभृयात् स्वयम् एव वा।
तदग्नौ पूज्य सन्तर्प्य चक्रञ्चैवाङ्कयेद् भुजे॥
एवं प्रत्याब्दिकं धार्यम् उपवीतं सुदर्शनम्।
पुड्रन् तु प्रतिसन्ध्यन् तु नित्यम् एव तु धारयेत्॥
द्वि-जातीनाम् इदं प्रोक्तं तप्त-चक्रस्य धारणम्।
अतप्तं वापि शूद्राणां भवेयुर् वैष्णवा यदि॥
श्री-भागवते।
चक्राङ्कितस्य सान्निध्ये तथा कुर्यात् प्रयत्नतः।
स्नानं दानं जपो होमस् तत्-सर्वं चाक्षयं भवेत्॥
शांडिल्यः –
पशु-पुत्रादिकं सर्वं गृहोपकरणानि च।
अङ्कयेच्छ्ङ्ख-चक्राद्यैर् नाम कुर्याच्च वैष्णवम्॥
संवत्सरेण यत्-पापं मनसा कर्मणा कृतम्।
तत्-सर्वं नश्यते तेषां सकृच्चक्राङ्क-दर्शनात्॥
भविष्यत् पुराणे -
चक्राङ्कित-भुजं दृष्ट्या यस् तु तं नाभिवादयेत्।
तिर्यग्योनि-शतं प्राप्य विष्ठायां जायते क्रिमिः॥
ब्रह्मकैवर्ते –
चक्राङ्कित-भुजं दृष्ट्वा यो निन्दयति सर्वदा। स याति नरकं घोरं यावद् आभूत-सम्प्लवम्॥
पराशरः –
अचक्र-धारिणं विप्रं यश् श्राद्धे भोजयिष्यति।
रेतो मूत्र-पुरीषाणि सपितृभ्यः प्रयच्छति॥
इत्यादीनि परश् शतानि सन्ति, विस्तर-भयाद् अत्र सलिख्यन्ते। किञ्च वृद्ध-मनु-वासिष्ठ-विहगेन्द्र-शाण्डिल्य-पराशर-विष्णु-तत्त्व-वामनादि-लैङ्गाग्नेय-स्कान्द-ब्रह्माण्ड-ब्रह्म-कैवर्त-पाद्म-वाराह-गारुड-शेष-धर्म-श्री-पञ्चरात्रादिषु तप्त-मुद्रा-धारण प्रमाणानि द्रष्टव्यानि।
[[20]]
यानि तु
ब्राह्मणो यदि मोहेन तापयेद् वह्नि-मुद्रया।
न कर्मार्हो भवेद् अत्र स वै पाषण्ड-सञ्ज्ञकः॥
नारदीये –
ब्राह्मणस्य तनुर् ज्ञेया सर्व-वेदमया यतः।
तस्मान्न तापयेद् विद्वान् चक्र-लिङ्गादि हेतिभिः॥
चक्राङ्कित-तनुर् यत्र दृष्टो लिङ्गाङ्कितो ऽपि वा।
जपेच्च पौरुषं सूक्तम् अन्यथा नरकं व्रजेत्॥
लिङ्ग-पुराणे –
चक्र-शङ्खौ तापयित्वा यत्र देहे प्रदृश्यते।
स जीवन् कुणपस् त्याज्यस् सर्व-कर्म-बहिष्कृतः॥
आदित्य-पुराणे –
वेदेषु यज्ञ-भागेषु यस्य नास्त्यधिकारिता।
स तापयित्वा चक्रादि धारयेत् स्व-भुज-द्वये॥
ब्राह्मणो यदि मोहेन धारयेद्यदि मुद्रिकाम्।
तस्य दर्शन-मात्रेण कुर्यात् सूर्यावलोकनम्॥
हेमाद्रौ –
पूर्वजस् स्वतनुं दग्ध्वा शङ्ख-चक्रादिभिः पृथक्।
न तस्य निष्कृतिर् नास्ति स्नान-दान-जपादिभिः॥
तस्य निष्कृतिर् उत्पन्ना पाराशर्येण भाषिता।
केशानां वपनं कृत्वा पुनः कर्म समाचरेत्॥
गर्भ-गोलात् समुद्धृत्य गर्भाधानादि पूर्वकम्।
षोढावृत्त्यैव कृछ्राणां प्रायश्चित्तम् उदीरितम्॥
परिषदुपस्थान-पूर्वकं षडब्द-कृच्छ्रं कृत्वा शुद्धिम् आप्नोति, प्रायश्चित्ताकरणे तेभ्यः प्रतिग्रह-प्रायश्चित्तम् आह -
अज्ञात्वा मुखजो यत्र मुद्रा-दग्धेभ्य आदरात्।
सुवर्ण-मात्रं सङ्गृह्य प्राजापत्यं समाचरेत्॥
देवलः –
कुण्डश् च गोलकश् चैव अयाज्यानाञ् च याजकः।
चक्राङ्कित-तनू राजन् तथा लिङ्गाङ्कितो ऽपि वा॥
चार्वाको मालवश् चैव आत्महा कितवस् तथा।
एतैरावेक्षिता पङ्क्तिस् सर्वदा परिवर्जिता॥
एतस्याम् आन्न-भुग् विप्रः पापम् एव समाश्रयेत्।
एकत्र भोजने राजन् चान्द्रायणम् अथाचरेत्॥
मास-भोजी महा-पापी पराकं चान्द्रम् आचरेत्।
वर्ष-भोजी महा-चान्द्रं कृत्वा शुद्धिम् अवाप्नुयात्॥
विधवा ब्रह्म-चारि सन्यासिनां पूर्ववद् विगुणं प्रायश्चित्तमिति।
[[21]]
किञ्च पद्म-पुराणे –
शृणु राजन् महा-बाहो लिङ्ग-चक्रादि-धारणम्।
शूद्र-धर्म-रतानां हि तेषां नास्ति पुनर्भवः॥
विप्रस्यैतैर् विगर्ह्यत्वात् प्रायश्चित्तमुदीरितम्।
पश्चात्ताप-समायुक्तः प्रायश्चित्तम् इदं चरेत्॥
आदौ कृत्वा पुनः कर्म षडब्दं कृच्छ्रम् आचरेत्।
तेभ्यो गृह्णन् द्विजो यस् तु सुवर्णं पादम् एव वा।
तत् प्रतिग्रह-शुद्ध्यर्थं प्राजापत्यं समाचरेत्॥
सङ्ग्रहे –
अङ्कनं शङ्ख-चक्राद्यैः द्विजो देहे न धारयेत्।
एक-जातेर् अयं धर्मो न द्विजानां कदाचन॥
सर्व-देवात्मकं ब्राह्मं शरीरं पावनं स्मृतम्।
ब्रह्म-कोशश् शिवाकारस् तेजो राशिर् द्विजोत्तमः॥
अपि देहे करिष्यन्ति मूढाश् चक्राब्जके ऽग्निना।
तप्त-मुद्राङ्कितं दृष्ट्वा शिव-लिङ्ग-धरं तथा।
आदित्य-मण्डलं वीक्ष्य नत्वा स्तुत्वा विशुद्ध्यति॥
इत्यादीनि तप्त-मुद्रा-धारण-निषेध-पराणि तानि सर्वाणि अविधि-पूर्वकं लौकिकाग्नि-प्रतप्त-चक्र-धारण-पराणि; अन्यथा तैर् एव नारदादिभिर् विप्राणामेव तप्त-चक्रादि-धारणं मुख्यमिति प्रतिपादकानां तद्- रहितानां पाषण्डत्वादि दोष-प्रतिपादकानां वचनानां च वैयर्थ्य-भ्रान्त-प्रलपित-तुल्यत्वादि प्रसङ्गस् स्यात्। अतोऽत्र सामान्य विशेषन्यायो द्रष्टव्यः; व्यर्थ-हिंसां निषिध्य शास्त्रीय-हिंसा-विधिवद् अशास्त्रीयं तप्त-चक्रादि-धारणं निषिध्य तन्त्राद्यनुसारेण विधि-पूर्वक-तप्त-चक्रादि-धारण-प्रतिपादनात्। अत्र नारदः –
हुताग्नि-तप्त-चक्राद्यैर् आयुधैः पञ्चभिर् मारैः॥
प्रतप्त-बाहु-मूला ये प्राप्नुयुस् ते परं पदम्॥
लौकिकाग्निषु सन्तप्तैश् चक्राद्यैर् यदि लाञ्छिताः।
द्विजादयो महा-राज प्राप्नुयुर् नरकं ध्रुवम्॥
[[22]]
पद्म-पुराणे उत्तर-खण्डे त्रिंशाध्याये –
हुताग्निनैव सन्तप्य सर्व-पापापनुत्तये।
चक्रं वा शङ्ख-चक्रे वा तथा पञ्चायुधानि वा॥
धारयित्वैव विधिवद् ब्रह्म-कर्म समाचरेत्॥
हुताग्नि-तप्त-चक्रेण शरीरं यस्य चिह्नितम्।
तेन तीर्थानि यज्ञाश् च सम्प्राप्ता नात्र संशयः॥
अधृत्वा विधिना चक्रं ब्राह्मणो ज्ञान-दुर्लभः।
गर्हितस् सर्व-लोकेषु ब्राह्मण्यात्प्रच्युतो[[??]] भवेत्॥ अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत्।
न तस्य किञ्चिदश्नीयद् अपि क्रतु-सहस्रिणः॥
अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत्।
गर्हितस् सर्व-लोकेषु ब्राह्मण्यात्स्रच्युतो[[??]] भवेत्॥
शङ्ख-चक्र-धरो देवो हरिः पूज्यो यथा ऽऽत्मभिः।
तथैव सर्वैस् सम्पूज्यो विप्रश् चक्रादि चिह्नितः॥
प्रकृति-स्पर्श-रहीतो वासुदेवो जनार्दनः।
तथैव ब्राह्मणो देवि विष्णु-चक्रेण चिह्नितः॥
तस्मात् प्रकृति-संसर्ग-पापौघ-दहनं हरेः।
प्रतस्तं बिभृयाच्चक्रं शङ्खं च भुज-मूलयोः॥
तप्तेनै[[??]] वाङ्कनं[[??]] कुर्याद् ब्राह्मणस्य विधानतः।
श्रौत-स्मार्तादि(वैष्णवत्वस्य) सिद्ध्यर्थं मन्त्र-सिद्ध्यै तथैव च (ज्ञान-सिद्ध्यर्थम् एव च)
हरेः पूजा-विधानार्थं चक्रं धार्यं विधानतः[[??]]।
तस्मात् तु विधिना चक्रं विप्रैर्धार्यं शुभानने॥
ब्राह्मणस्य मन्त्र-सिद्ध्यै च ज्ञान-सिद्ध्यै विमुक्तये।
सर्वाश्रमेषु वसतां ब्राह्मणानां विशेषतः॥
विधिना वैष्णवं चक्रं धार्यं हि श्रुति-चोदनात्॥
इति।
[[23]]