अद्वेषश्चानुकूली[[??]] च दिव्य-नाम-धरस् तथा।
चक्राङ्को मन्त्र-पाठश् च वैष्णवश् च ततः परम्॥
श्री-वैष्णवः प्रपन्नश् च एकान्ती च ततः परम्।
परमैकान्ति विख्यातो दशैते वैष्णवाः स्मृताः॥
विष्णुं लोक-नियतारं वैष्णवान् लोकपावनान्।
दृष्ट्वा न द्वेष्टि यो मर्त्यस् सो ऽद्वेषः[[??]] परिकीर्तितः॥१॥
वासुदेवोत्सवांश् चैव महा-भागवतांस् तथा।
अनुवर्तेत यो नित्यं अनुकूली उदाहृतः॥२॥
स्मृत्युच्छारण-मात्रेण सर्व-पाप-प्रणाशनम्।
विष्णु-नाम-धरः पुण्यो नाम-धारी स उच्यते॥३॥
श्रुति-स्मृति-पुराणेषु विहितं चक्र-धारणम्।
यो बिभर्ति हरेश् चक्रं चक्र-धारी स उच्यते॥४॥
अष्टाक्षरस्य मन्त्रस्य स्मरणान्मुक्तिदो हरिः।
तमावरैत यो नित्यं मन्त्र-पाठस् स उच्यते॥५॥
देवतान्तरवन्नित्यं शब्दादीनपि कुत्सयन्न।
विष्णु-प्राप्ति-फलाकाङ्क्षी भक्त्युपायो हि वैष्णवः॥६॥
बाह्यार्थ-निरताजन् सर्वान् सम्यक् त्यक्त्वा सदा शुचिः।
भक्तिमान् पुण्डरीकाङ्क्षो श्री-वैष्णव-उदाहृतः॥७॥
शब्दादीन् विषयांश् चैव देहोपाधिक-बान्धवान्।
त्यक्त्वा हरौ न्यस्तभरस् सप्रपन्न उदाहृतः॥८॥
हरेर् आज्ञानुरूपेण कर्मज्ञानादि यो नरः।
स एकान्ती भवेद् विप्रस् स हि भागवतः स्मृतः॥९॥
प्रीत्यर्थं वासुदेवस्य कर्म-ज्ञानादिकं नरः।
स विप्रः परमैकान्ती महा-भागवतः स्मृतः॥१०॥
[[15]]
यद्यच्छास्त्रं वैदिकं तत्-तत्-सर्वं ज्ञान-भक्ति-प्रपत्तीनां चतसॄणां प्रतिपादकम्; तत्र विशेषेण कर्म-प्रतिपादकानि शास्त्राणि पूर्व-मीमांसादीनि; मन्वादि धर्म-शास्त्राणि ज्ञान-प्रतिपादकानि; उत्तर-मीमांसायां प्रथम-द्वितीयाध्यायौ पाद्मोत्तर-खण्डं श्री-विष्णु-पुराणमित्यादीनि भक्ति-प्रतिपादकानि; उत्तर-मीमांसायां तृतीय-चतुर्थाध्यायौ हरि-भक्ति-सुधो गयं श्री-भागवतमित्यादीनि प्रपत्ति-प्रतिपादकानि; भारद्वाज-संहिता श्री-रामायणमित्यादीनि विशेषेण चतसॄणां प्रतिपादकानि; अष्टादश-पर्वयुक्तं श्री-महा-भारतं अष्टोत्तर-शत-संहीता-युक्तं श्री-पञ्च-रात्रञ् च। एतत्-सर्वं सत्वादि भेदेन त्रि-विधम्; तत्र मुमुक्षुभिस् सात्विका एव ग्राह्याः, उत्तर-गीतायाम् –
असारम् अल्प-सारञ् च सारं सार-तरं त्यजेत्।
भजेत् सार-तमं शास्त्रे (हंसः क्षीरमिवाम्भसि) रत्नाकर-इवामृतम्।
ग्रन्थम् अभ्यस्य मेधावी ज्ञान-विज्ञान-तत्परः।
पलालमिव धान्या(र्थः)र्थी त्यजेद् ग्रन्थम् अशेषतः॥
तत्र कर्म-ज्ञान-भक्ति-प्रपत्तय ऐहिकादि फल-प्रदत्व-भेदेन तामसा राजसास् सात्विकाश् च भवन्ति। तत्र मुमुक्षुभिस् सात्विका एवानुष्ठेयाः। तत्र कर्म-ज्ञाने भक्ति-प्रपत्ति-द्वारा मोक्ष-प्रदे, आद्यास्तिस्र स्त्रैवर्ण्याधिकाराः प्रपत्तिस् तु सर्वाधिकारा, तस्माद्भ भक्ति-प्रपत्ति विना मोक्षोपायो नास्ति। तथा श्रुतिः
नान्यः पन्था अयनाय विद्यते॥ तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः
इत्यादि। तथा वेदान्ताचार्यैर् अप्युक्तम्
प्रपन्नादन्येषां न दिशति मुकुन्दो निज-पदं प्रपन्नश् च द्वेधा सुचरित-परिपाक-भिदया। विलम्बेन प्राप्तिर् भजन-सुखमेकस्य विपुलं परस्याशु प्राप्तिः परिमित-रसा जीवित-दशा
इत्यादिना। सा प्रपत्तिः पञ्च-संस्कार-संस्कृतैर् एवानुष्ठेया, नत्वन्यैः; तथा श्री-प्रश्न-संहितायाम् –
संस्कृताः पञ्च-संस्कारैस् तापाद्यैर् विमलैश् शुभैः। नारायणं प्रपद्येरन् नरा वै मोक्ष-काङ्क्षिणः॥
[[16]]
श्री-पराशर-धर्मशास्त्रे –
अचक्र-धारिणं मन्त्रम् अध्यापयति देशिकः।
शिष्येण नरकं याति कल्प-कोटि-शतं द्विजः॥
तस्मात्तापादि संस्कारं कृत्वा मन्त्रम् अनुत्तमम्।
अध्यापयेद् गुरुस् सम्यगन्यथा नरकं व्रजेत्॥
नारदः –
मुमुक्षुश् चक्र-चिह्नादि-रहितो यदि माधवम्।
प्रपद्येत नरो मोहात् स चण्डालो भवेद् ध्रुवम्॥
विष्णु-मन्दिरे –
विप्राद्यास् तेन शूद्राश् च यदैव कृत-लक्षणाः।
तदा तु योग्या विज्ञेया हरि-संश्रयणादिषु॥
पाद्मे उत्तर-खण्डे एकोन त्रिंशाध्याये –
तस्मात् त्वमसि राजर्षे विष्णु-सायुज्यम् इच्छसि।
दीक्षा-मार्ग-विधानेन धारयित्वा सुदर्शनम्॥
नारायण-पद-द्वन्द्वं तदेकं शरणं व्रज॥
अतो मुमुक्षुभिः पञ्च-संस्कार संस्कृतैरेव भगवान् प्रपत्तव्य
इति सिद्धम्।