११ दश-विध-ब्राह्मणम्

अथ दश-विध-ब्राह्मणम्

देवो मुनिर् द्विजो राजा वैश्यश् शूद्रो बिडालकः।
पशुर् म्लेच्छश् च चण्डालो दश-विप्राः प्रकीर्तिताः॥
उञ्छ-वृत्तिर् मिताहारस् सन्तुष्टो विजितेन्द्रियः।
वेद-शास्त्रार्थ-तत्वज्ञो देवो विप्रस् स उच्यते॥१॥
फल-मूलाशनो दान्तो तपस्वी वेद-शास्त्रवित्।
कृत्याकृत्य विशेषज्ञो सत्य-वाङ्मुनिर् उच्यते॥२॥
षट्क-कर्म-निरतो नित्यं देवता-तिथि-पूजकः।
स्वाध्याय-निरतस् साधुस् सविप्रो द्विज उच्यते॥३॥
धनुर् वेद विशेषज्ञो राज-सेवारतश् च सः।
त्रि-कर्म-कृन् महोत्साही विप्रः क्षत्रिय उच्यते॥४॥
स्वर्ण-रत्न-विशेषज्ञो गोपोषणक-तत्परः।
क्रय-विक्रय-तत्वज्ञस् सविप्रो वैश्य उच्यते॥५॥
कृषि-सेवाधमाचारो धान्य-सङ्ग्रह-तत्परः।
गो-रक्षण-विशेषज्ञस् सविप्रश् शूद्र उच्यते॥६॥
यत्र कुत्र प्रतिग्राही नित्यं ब्राह्मण-तत्परः।
स्व-कार्यम् उद्दिश्य सदा स बिडालक उच्यते॥७॥
गम्यागम्यां न जानाति स्त्रीयं यो ऽशौच निर्गुणः।
कृत्याकृत्य-परिभ्रान्तस् सविप्रः पशुर् उच्यते॥८॥
वापी-कूप-तटाकादि देवायतन-भेदकः।
विप्र-वेदापवादी च स विप्रो म्लेच्छ उच्यते॥९॥
शस्त्र-धार्यस्त्र-धारी च धनुर् धारी धनापहः।
तिर्यत्पुण्ड्र-धरो विप्रस् स चण्डाल-समो भवेत्॥१०॥
पर-हिंसारतः क्रूरः पर-दार-परायणः।
पर-द्रव्याभिलाषी च स चण्डालो हि निर्दयः॥

इत्युक्तो वा।

[[14]]