१० देवलक-लक्षणम्

अथ देवलक-लक्षणम् सङ्कर्षण-संहितायाम्॥

कर्म-देवलकाः केचित् कल्प-देवलकाः परे।
शुद्ध-देवलकाः केचित् त्रिधा देवलकाः स्मृताः॥
अर्थार्थी काल-निर्देशी यो देवं पूजयेत् सदा।
कर्म-देवलको नाम सर्व-कर्म-बहिष्कृतः॥
पञ्च-रात्र-विधानज्ञो दीक्षा-विरहितो ऽर्चकः।
चतु(र्वेद्यपिकालेन) र्वेदाधिकारो ऽपि कल्प-देवलकस् स्मृतः॥
आगमोक्त-विधानज्ञो रुद्र-काल्युपजीवकः।
शुद्ध-देवलको नाम सर्व-कर्म-बहिष्कृतः॥

आश्वमेधिके देवलकत्व-प्राप्तेः काल-नियमम् आह॥

देवार्चनपरो विप्रो वित्तार्थी वत्सर-त्रयम्।
सतु देवलको नाम सर्व-कर्म-बहिष्कृतः॥

तथान्यत्रापि-

न पञ्च-रात्र-विधिवान् न वैखानस-सूत्रवान्।
न शैव-दीक्षितो विप्रः अर्थार्थी वत्सर-त्रयम्॥
ग्राम-देवार्चनपरस् स वै देवलकः स्मृतः॥

पुराणे -

देवार्चनपरो ह्यासीत् परार्थं वित्त-काङ्क्षया।
चतुर्वेदधरो विप्रस् स चण्डाल-समो भवेत्॥

[[11]]

एवं सामान्येनोक्तस्य विषय-विभागेन रुद्राद्यर्चकस्य देवलकत्वं विष्ण्वर्चकस्य तद्रहितत्वञ् च स्पष्टम् उक्तं विष्णु-धर्मोत्तरे–

चण्डिकायाश् च दुर्गाया ज्येष्ठाया भैरवस्य च।
रुद्रस्य पूजका ये तु ते वै देवलकाः स्मृताः॥
येन केन प्रकारेण विष्णोर् आराधनं परम्।
तस्माद् देवलकत्वन् तु न विष्णु-विषयं क्वचित्॥

इति। तथा ऽत्रिश् च।

वैदिकेनैव विधिना सङ्ग-लोभ-विवर्जितः।
पूजयेद् भक्तितो विष्णुं स हि देवलको न वै॥

श्री-पाञ्च-रात्रे भगवतापि एतदुभयं विषय-भेदेन बहुधा प्रतिपादितम् अनन्ताख्य-संहितायाम् –

दीक्षितस् सकलं कुर्याद् विष्णु-यागादि-पूजनम्।
अदीक्षितश् चतुर्वेदी देव-स्पर्शञ् च विर्जयेत्॥

विष्णु-तत्वे –

मद्भक्तो वैष्णवो विप्रः पञ्च-संस्कार-दीक्षितः।
मच्छेषत्व-परिज्ञानी मम पूजा-परायणः॥
मन्त्र-रत्नोक्त-मार्गेण महा-विश्वास-पूर्वकम्।
आत्मार्थं वा परार्थं वा मम पूजापरस् सदा॥
न च देवलको ज्ञेयस् स(दा)र्व-पूजां समाचरेत्॥

अनिरुद्ध-संहितायाम् –

दीक्षितो भगवद्-भक्तस् समयाचार-तत्परः।
गुरु-भक्ति-विशेषज्ञो न्यास-विद्या-विशारदः॥
विष्णोर् आराधनरतस् तत्-प्रसादस्य जीवकः।
सदा विष्णुं प्रपूज्याथ नासौ देवलको भवेत्॥

विष्णु-धर्मे –

वैष्णवो विष्णु-सम्बन्धस् सदा विष्णुं प्रपूजयेत्।
न भवेद् देवलकत्वन् तु वैष्णवस्य महात्मनः॥

खग-प्रश्न-संहितायाम् –

दीक्षिताः पञ्च-संस्कारैः पञ्च-काल-परायणाः।
आत्मार्थं वा परार्थं वा नित्यं हरिम् उपासते॥
न च देवलका ज्ञेयास् सर्व-शास्त्रेषु निश्चयः॥

श्रीधर-संहितायाम् –

वैष्णवो विष्णु-यजनं नित्यमेवं समाचरेत्।
न च देवलको ज्ञेयस् सर्व-शास्त्रेषु निर्णयः॥

तथा हारीत-स्मृतावपी पञ्चमे ऽध्याये –

महा-भागवतस् त्वेवं पूजयेत् सततं हरिम्।
मन्त्र-रत्न-विधानेन महा-विश्वास-पूर्वकम्॥
यो ऽर्चको वैष्णव-श्रेष्ठा न देवलक नामकः॥

[[12]]

पराशर-संहितायाम् –

दीक्षितः पञ्च-संस्कारैर् अर्थ-पञ्चक-तत्ववित्।
पञ्च-काल-परो नित्यं वैष्णवो मन्त्र-वित्तमः॥
पौरुषेण विधानेन श्रीमदष्टाक्षरेण वा।
मन्त्रद्वयेन वा कुर्यात् त्रि-कालं पूजनं हरेः॥
शेष-शेषित्व-सम्बन्ध ज्ञान-भक्ति-समन्वितः।
आत्मार्थं वा परार्थं वा न च देवलको भवेत्॥
हरेर् अन्यत्र यत् क्षुद्र-देवतान्तर-पूजनम्।
तत्-प्रसादोपजीवी च स वै देवलको भवेत्॥

मार्कण्डेय-संहितायाम् –

देव-द्रव्यापहारार्थं दीक्षा-रहित-पूजकः।
स वै देवलको नाम सर्व-कर्म बहिष्कृतः॥

सनत्कुमार-संहितायाम्।

परार्थं यजनं यत्र दीक्षा-संस्कार-वर्जितः।
चतुर् वेद-धरो विप्रस् स वै देवलको भवेत्॥

भरद्वाज-संहितायाम् –

दीक्षा-संस्कार-रहितो मद्बिम्बं पूजयेन्नरः।
स वै देवलको नाम सर्व-कर्म बहिष्कृतः॥

जयाख्य संहितायाम्।

दीक्षा-विधि विहीनश् च वित्तार्थी देव-पूजकः।
देव-कोशोपजीवी च स वै देवलको भवेत्॥

अनन्ताख्य-संहितायाम् –

वेद वेद्यं ब्राह्मणेशं शुभ-कर्म-प्रियं हरिम्।
यो ऽर्चको ब्राह्मण-श्रेष्ठो न देवलक-नामकः॥
गणेशं भैरवं भीमं दुर्गादीर् उग्र-देवताः।
यो ऽर्चको भक्तिमान् विप्रस् स वै देवलको भवेत्॥
रुद्रान् (दुर्गां) भैरव-विघ्नेशौ भद्र-कालीञ् च मातृकाम्।
यो ऽर्चयेद् भक्तिमान् विप्रस् सवै देवलकः स्मृतः॥

हारीतः –

भरद्वाजानाम[[??]] ये तु विप्राश् शिव-परायणाः।
ते च देवलका ज्ञेयास् सर्व-कर्मसु गर्हिताः।
स्पृष्ट्वा देवलकान् विप्रान् सवासा[[??]] जलम् आविशेत्।
वैखानसास् तु ये विप्रा हरि-पूजन तत्पराः।
न ते देवलका ज्ञेया हरि-पादाब्ज संश्रयात्॥
नापहृत्य हरेर् द्रव्यं ग्रामार्चन परो भवेत्।
भक्त्या सम्पूज्य देवेशं ना सौ देवलकः स्मृतः॥
भक्त्या यद्यर्चयेद् देवं ग्रामार्च्यं हरिम् अव्ययम्।
प्रसाद-तीर्थ-स्वीकारान्नासौ देवलको भवेत्॥

[[13]]

अनन्ताख्य-संहितायाम् –

भक्त्या योह्यर्चयेद् देवं ग्रामार्चां हरिम् अव्ययम्।
प्रासाद-तीर्थ-सेवी च नासौ देवलको भवेत्॥

इत्यादिभिः।