०९ पाषण्डि-लक्षणम्

अथ पाषण्डि-लक्षणम्॥ भागवते –

विष्णोर् अन्यं परत्वेन चेतयान् ऊह्य-चेतनः।
स पाषण्डीति विज्ञेयस् सर्व-कर्म-बहिष्कृतः॥

पाद्मे –

ये तु सामान्य-भावेन मन्यन् ते पुरुषोत्तमम्।
ते वै पाषण्डिनो ज्ञेयास् सर्व-कर्म-बहिष्कृताः।

प्राजापत्य-स्मृतौ बृहन्नारदीये च –

यस् स्व-धर्म-परित्यागी पाषण्डीत्युच्यते बुधैः।
तत्-संसर्गी तत्-समस् स्यात् तावुभावपि पापिनौ॥

वाराहे –

कुबुद्धि-रचितं शास्त्रं पठित्वा ये कलौ युगे।
न कुर्वन्ति विनिन्दन्ति यज्ञान् वर्णाश्रमोचितान्॥
ते वै पाषण्डिनो ज्ञेयास् सर्व-कर्मसु गर्हिताः।
तेषां संभाषणं स्पर्शं प्रमादेनापि नाचरेत्॥

आश्वमेधिके षण्णवति-तमे ऽध्याये –

कुशीलैः कृत-शास्त्राणि पठित्वा ये नराधमाः।
विप्रान् निन्दन्ति यज्ञांश् च वृथा जीवन्ति ते नराः॥

इति।