०८ कलि-युग-धर्माः

अथ कलि-युग-धर्माः - नारदीय संहितायाम्॥

राक्षसाः कलिम् आश्रित्य जायन्ते ब्रह्म-योनिषु।
विष्णु-वैष्णव-विद्वेषाः प्रचरन्ति हि तामसाः॥

(ब्राह्मणानेव बाधन्ते तत्रापि श्रोत्रियान् कृशान्
इति पाठान्तरं)

अन्तश् शाक्तं बहिश् शैवं सभा-मध्ये तु वैष्णवम्।
कलौ केचित् प्रवर्तन्ते वर्णाश्रम-जना मुने॥

[[9]]

लिखित-स्मृतौ –

प्राप्ते कलि-युगे घोरे सम्भविष्यन्ति चासुराः।
वेदार्थं चान्यथा सर्वे प्रवक्ष्यन्ति कलौ युगे॥

वामनपुराणे –

दैत्यानां बहु-मानित्वं मात्सर्यं सत्स्वसत्क्रिया।
निन्दन्ति नीति-शास्त्राणि शिव-भक्तिर् अनूपमा॥

श्री-विष्णु-पुराणे –

सर्वे ब्रह्म-वदिष्यन्ति सम्प्राप्ते तु कलौ युगे।
नानुतिष्ठन्ति मैत्रेय-शिश्नोदर-परायणाः॥
मुखं दग्धं परान्नेन हस्तौ दग्धौ प्रतिग्रहात्।
मनू-दग्धं पर-स्त्रीभिः ब्रह्म-शापः कुतः कलौ॥

व्यासः –

ध्यायन् कृते यजन् यज्ञैः त्रेतायां द्वापरे ऽर्चयन्।
यथाप्नोति तथाप्नोति कलौ सङ्कीर्त्य-केशवम्॥
ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गो-वधं तथा।
कलौ पञ्च-सकुर्वीत भ्रातृ-जायां कमण्डलुम्॥

स्मृत्यर्थ-सारे –

असवर्णासु कन्यासु विवाहश् च द्वि-जातिषु।
वृत्तं स्वाध्याय-सापेक्षम् अघ-सङ्कोचनं तथा॥
अस्थि-सञ्चयनाद् ऊर्ध्वम् अङ्ग-स्पर्शनम् एव च।
प्रायश्चित्त-विधानञ् च विप्राणां मरणान्तिकम्॥
संसर्ग-दोषः पापेषु मधु-पर्के पशोर्वधः।
दत्तौ रसेतरेषाञ् च पुत्रत्वेन परिग्रहः॥
दीर्घ-कालं ब्रह्म-चर्यं नर-मेधाश्व-मेधकौ।
कलौ युगेत्विमान् धर्मान् वर्ज्यानाहुर् मनीषिणः॥

अत्र निषेधः नारिकेलादि-कमण्डलु-विषयः, न तत्-त्याज्यत्वादि-विषय-प्रकारः॥ पराशरः –

त्यजेद्देशं कृत-युगे त्रेतायां ग्रामम् उत्सृजेत्।
द्वापरे कुलम् एकन् तु कर्तारन् तु कलौ युगे॥
लवणं मधु-तैलञ् च दधि तक्रं घृतं पयः।
न दूष्येच्छूद्र-जातीनां कुर्वन् सर्वेषु विक्रयम्॥

[[10]]