अथ धर्म-शास्त्रोपयोगि-सञ्ज्ञा-निर्वचनम्॥ स्मृत्यन्तरे;
अकाले चेत् कृतं कर्म कालं प्राप्य पुनः क्रिया।
कालातीतं तु यत्-कर्म अकृतं तद्विनिर्दिशेत्॥
गर्गः ॥
श्रुति-स्मृतिषु यत्-कर्म चोदितं विधि-शासनात्।
प्राणानायम्य सङ्कल्प्य कुर्यात् तत्-कर्मचादरात्॥
[[7]]
स्मृति-रत्नाकरे
हव्यार्थं गो-घृतं ग्राह्यं तद् अलाभे तु माहिषम्।
आजं वा तद् अलाभे तु साक्षात् तैलं तु गृह्यते॥
येषां केषाञ्चिद् अन्येषां हविषाम् अप्यसम्भवे।
सर्वत्राज्यम् उपादेयं भरद्वाज-मुनेर् मतात्॥
इक्षून् अपः फलं मूलं ताम्बूलं पय औषधम्।
भक्षयित्वापि कर्तव्याः स्नान-दानादिकाः क्रियाः॥
तत्रैव;
दिवोदितानि कर्माणि प्रमादाद् अकृतानि तु।
रात्रौ प्रहर-पर्यन्तं दिवा-कर्माणि कारयेत्॥
अवगाहं च सौरञ् च वर्जयित्वा विशेषतः॥
भरद्वाजः;
अज्ञाता यदि वा मन्त्राः स्व-स्व गृह्येषु चोदिताः।
उपनीत-प्रमुख्यानां तेषां ते धारणे द्विजाः॥
केवलं प्रणवं वापि व्याहृति त्रितयन्तु वा।
स्यातां विप्रादिवर्णेषु द्वावेतौ सर्व-शाखिनाम्॥
काल-निर्णये।
यां तिथिं समनुप्राप्य उदयं याति भास्करः।
तया कर्माणि कुर्वीत ह्रास-वृद्धी न कारणम्॥
एतच्च प्रत्याब्दिक-दर्शादि व्यतिरेकेण; तत्र विशेषस्य वक्ष्यमाणत्वात्। अन्यापवादम् आह हारीतः –
उत्पत्तौ च विपत्तौ च मैथुने धन्त-धावने।
अभ्यङ्गे ऽप्य् उदधि-स्नाने तिथिस् तात्कालिकी स्मृता।
रत्नाकरे;
कुण्डाशी गोल-काशी च तथैव ग्राम-याजकः।
अयाज्य याजकश् चैव महा-पातकिनः स्मृताः॥
व्रात्यस् संस्कार-हीनस् स्याद् अवकीर्णी क्षत-व्रतः॥
दक्षः ॥
योहि हित्वा विवाहाग्निं गृहस्थ इति मन्यते।
अन्नं तस्य न भोक्तन्यं वृथावाकोहि न स्मृतः॥
तत्र श्रुतिः ;
वीरहा वा एष देवानां योग्निम् उद्वासयते।
[[8]]
पराशरः॥
अग्नि-कार्य-परिभष्टास् सन्ध्योपासन-वर्जिताः।
वेदञ् च ह्यनधीयानास् ते सर्वे वृषलास् स्मृताः॥
वसिष्ठः॥
कपालस्थं यथा तोयं श्वदृतौ च यथा पयः।
दुष्टं स्यात् स्थान-दोषेण वृत्त-हीने तथा श्रुतम्॥
अग्निदो गरदश् चैव शस्त्रपाणिर् धनापहः।
क्षेत्र-दार-हरश् चैव षडैते आततायिनः॥
सुधी-विलोचने –
श्रवणाश्वि-धनिष्ठाऽऽर्द्रा-नाग-दैवत-मस्तकैः [[परिष्कृतम्]] अमा स्याद् भानुवारेण व्यतीपातस् स उच्यते॥
मस्तकः – मृग-शीर्षः। अत्रिः -
अमार्क-पात-श्रवणैर् युक्ता चेत् पुष्य-माघयोः।
अर्धोदयस् स विज्ञेयः कोट्यर्क-ग्रह-सन्निभः॥
“एको नाचेन्महोदयः” इति पाठान्तरम्॥
मनुः –
निषेकादीनि कर्माणि यः करोति यथा-विधि।
संभावयति चान्नेन स विप्रो गुरुर् उच्यते॥
उपनीय तु यश् शिष्यं वेदम् अध्यासयेद् द्विजः।
सकल्पं स रहस्यञ् च तम् आचार्यं प्रचक्षते॥
याज्ञवल्क्यः –
उपनीय ददद्वेदम् आचार्यस् स उदाहृतः।
एक-देश मुसाध्यायो[[??]] ऋत्विग् यज्ञ-कृदुच्यते॥
मनुः –
अर्थ-कामेष्वसक्तानां धर्म-ज्ञानं विधीयते।
धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः॥
द्वितीयं धर्म शास्त्रञ् च तृतीयं लोक-सङ्ग्रहः॥
स्मृत्यन्तरे –
यथेक्षुहेतोस् सलिलं निषेचितम्
तृणानि वल्लीरपि च प्रसिञ्चति।
एवं नरो धर्म-पथेन वर्तयन्
यशश् च कामांश् च वसूनि चाश्नुते॥