०६ वैदिक-लक्षणम्

उपवीतं शिखा-बन्धं सवित्रं चोर्ध्व-पुण्ड्रकम्।
धौत-वस्त्र-द्वयञ् चैव विप्र-मुद्राः प्रकीर्तिताः॥
गङ्गा गीता च गायत्री तुलसी गोपि-चन्दनम्।
एकादशी हरेर् नाम सालग्राम-शिलार्चनम्॥
वैदिकाष्टकम् एतानि नियमेन दिने दिने।
ये भजन्ति महा-भक्त्या तेषामपि नमो नमः॥

इदं वैदिक-लक्षणं सामान्यम्।

परम-वैदिक-लक्षणम्

अथ परम-वैदिक-लक्षणम्

प्रतप्तैर् भगवद्दिव्यायुधैर् गात्रेषु लाञ्छनम्।
सततं च हरि-क्षेत्रोद्धृतमृत्स्नोर्ध्व-पुण्ड्रकम्॥
पद्म-बीज-मयी माला तुलसी-दिव्य-चूर्णकम्॥
पवित्रञ् चाथ कौपीनं व्यति-सूत्रेण मेखले॥
पञ्चायुधाब्जतार्क्षादि-लक्षणाभरणादिकम्।
वेषश्छानुल्बणश् शौक्ष्यं दन्तमृत्पुण्ड्र-वाससाम्॥
इत्येतैर् लक्षणैर् युक्ता वैष्णवा वीतकल्म षाः॥
आख्यया व्यपदेशैश् च लक्षणानि सतां विदुः

इति।