०५ वैदिक-शास्त्राणामपि गुण-त्रयात्मकत्वं, तेषां फल-भेदाश्च

वैदिकान्यपि गुणत्रयात्मकानि; तल्लक्ष्मणं पुराणसं ग्रहे॥

शास्त्रेषु च पुराणेषु वेदेषूपनिषत्सु च।
यत्र यत्र जगन्नाथं मुकुन्दं विष्णुमच्युतम्॥
वदन्ति तानि शास्त्राणि सात्विकानि मतानि वै।
यत्र यत्र चतुर्वक्त्रं त्रि-मूर्त्यैक्यञ् च तुल्यताम् ॥ शिव-केशवमोर् ऐक्यं समत्वं पावकं रविम्। वदन्ति यानि शास्त्राणि राजसानि च तानि वै॥
यत्र यत्र उमा-नाथं शङ्करं भैरवं यमम्।
दुर्गां गण-पतिं कालं यानि तानि वदन्ति वै॥
तामसानि मुनि-श्रेष्ठ विविधान्यफलानि वै॥

स्कान्दे;

आगमास् त्रि-विधाः प्रोक्तास् सात्व-राजस-तामसाः।
सात्विका मोक्ष-फलदा राजसाः स्वर्गदाः स्मृताः
तथैव तामसा देवि-निरय-प्राप्ति-हेतवः॥

वैदिकाश् च सत्व-रजस्तमो भेदेन त्रि-विधाः॥ आदित्य-पुराणे

परमं दैविकं यत्-तत्-सात्विकं परिकीर्तितम्।
राजसं वैदिकं प्रोक्तं तामसं मिश्र-वैदिकम्॥

तथा;

वैदिक-त्रयम् इत्याहुर् आद्यं परम-वैदिकम्।
द्वितीयं वैदिकं प्रोक्तं तृतीयं मिश्र-वैदिकम्॥

परम-वैदिकं श्री-वैष्णवम्। वैदिकं तत्व-वादम्, विष्णु-स्वामि-सम्प्रदायञ् च। मिश्र-वैदिकं माया-वादम्। श्री-पाञ्चरात्रे;

राजसं वैदिकं प्रोक्तं सात्वतं परम-वैदिकम्।
शैवञ् च तामसं प्रोक्तं तत्-त्रितभिर् मिश्र-वैदिकम्॥
तमः परस्तात्परमं पदं प्राप्नोति वैष्णवः।
स्वर्गादि ब्रह्मलोकास् तं पथं प्राप्नोति वैदिकः॥
ऐहिकञ्चामुष्मिकञ् च मोक्षमेतत्-फल-त्रयम्।
यद्-भावेन क्रमादिच्छेत् तद्-भावं मिश्र-वैदिकम्॥
कैलास-नाम-आधारं पदं प्राप्नोति शैव-भाक्॥

इति।

[[6]]

भस्म-स्नानं त्रि-पुण्ड्रञ् च बिल्वं पञ्चाक्षरी-जपः।
लिङ्गार्चनन् तु तन्नाम सोमवार-व्रतं तथा॥
ततश् शिव-योग-सारं शास्त्रं शैवाष्टकं मुने॥

एतच्छैव-विषयम्।

आदित्यम् अम्बिकां विष्णुं गण-नाथं महेश्वरम्।
पूजयेत् पञ्च-पूजाश् च तत्-तत्-फलम् अवाप्नुयात्॥

एतन्मिश्र-वैदिक-विषयम्।