अथ मोह-शास्त्र-निरूपणम्,
पद्मोत्तर-खण्डे द्वि-चत्वारिंशे ऽध्याये॥ पार्वती ॥
तामसानि च शास्त्राणि समाचक्ष्व ममानघ।
सम्प्रोक्ता निर्भयैर् विप्रैर् भगवद्-भक्ति-वर्जितैः।
तेषां नामानि कार्त्स्येन समाचक्ष्व सुरेश्वर॥
श्री-रुद्रः॥
शृणु देवि प्रवक्ष्यामि तामसानि यथा-क्रमात्।
येषां श्रवणमात्रेण पातित्यं ज्ञानिनाम् अपि॥
प्रथमं हि मयैवोक्तं शैवं पाशु-पतादिकम्।
मच्छक्त्या वेशितैस् सर्वैस् सम्प्रोक्तानि ततः परम्;
इति तत्रेव,
धिषणेन तथा प्रोक्तं चार्वाकम् अतिगर्हितम्
दैत्यानां नाशनार्थाय विष्णुना बुद्ध-रुपिणा
बौद्धशास्त्रमसत् प्रोक्तं नग्न-नील-पटादिकम्॥
माया वादमसच्छास्त्रं प्रच्छन्नं बौद्धम् उच्यते।
मयैव कथितं देवि कलौ ब्राह्मण-रूपिणा।
अपार्थं श्रुति-वाक्यानां दर्शय लोक-गर्हितम्॥
कर्म-स्वरूपत्याज्यत्वम्[[??]] अत्रैव प्रतिपाद्यते।
सर्व-कर्म-परिभ्रष्टं विकर्मस्थं तदुच्यते॥
परात्म-जीवयोर् ऐक्यं मयाऽत्र प्रतिपाद्यते।
ब्रह्मणस् तु परं रूपं निर्गुणं वक्ष्य ते मया॥
सर्वस्य जगतोप्यत्र मोहनार्थं कलौ युगे॥
वेदार्थवन्महा-शास्त्रं मायावादम् अवैदिकम्।
मयैव वक्ष्यते देवि जगतां नाश-कारणात्॥
एवं भविष्यत्-पुराणे चतुर् अशीति-तमे ऽध्याये वाराह-पुराणे एक-सप्तति-तमे ऽध्याये आदित्य-पुराणे त्रयस् त्रिंशे ऽध्याये प्राजापत्य-स्मृतौ विज्ञानेश्वरे पराशर-संहितायां नारदीय-ब्रह्माण्ड-गापड-वामनादि पुराणेषु च मोह-शास्त्रोत्पत्ति-स्वरूसं द्रष्टव्यम्।
[[4]]
शैव-पाशुपतादिष्व् आगम-नामधेयम्
अथ शैव-पाशुपतादिष्वागम-नामधेयम् –
विजयं कारणं किरणं
सुप्रभेदं च वातुलम्।
मकुटं कामिकं चिन्त्यं
वीरनामागमं तथा॥
चन्द्र-ज्ञानं शर्म-युक्तं+++(=??)+++
सन्तानं परमेश्वरम्।
प्रोद्गीतं अंशुमान् सूक्ष्मं
विमलं चित्-प्रियं[[??]] तथा
निश्वासं ललितं बिम्बं
भुवनन्तु जगत्-स्थिरम्।
योगच्छायं ज्ञान-पुञ्जं
अनलं ललितं तथा॥
अष्टाविंशतिरेते ऽपि
आगमाः परिकीर्तिताः॥
विश्वास-टिप्पनी
अत्र तु २७ दृश्यन्ते।
इमे नाभिज्ञायन्ते -
2. Yogajāgama
5. Ajitāgama
6. Diptāgama
8. Sahasrāgama
13. Svayambhuvāgama
16. Rauravāgama
23. Sidhāgama
25. Sarvoktāgama
एते मुख्यागमाः
उपागमाः
अथ उपागमाः॥
तत्व-सारं मन्त्र-गोप्यं शिव-सायुज्यं पौष्करं परमार्थं शैन-धर्मं वीर-माहेश्वरं शत-रुद्रीयं ज्ञान-वासं शैव-सिद्धान्तं जैन-धर्मान्तरं परम-रहस्यं हरि-हर-संवादं स्वरूप-प्रवेशं वज्र-सूचि इत्यादय उपागमाः।
एतत्-सर्वं मोह-शास्त्रं वैदिकैस् सुदूरतस्त्याज्यम्। तथा व्यासेनापि “पत्युरसामञ्जस्या” दित्यत्र प्रतिपादितम्; तद्भाष्यकारैश् शङ्करादिभिस् सर्वैरपि “पत्युरसामञ्जस्यात् – पशुपतेर्मतम् असमञ्जसं स्यात्, “वेद-विरुद्धत्वादसङ्गतं स्यादित्यर्थ” इति स्व-स्व-भाष्ये प्रतिपादितम्। तथा वैदिक-शास्त्रैष्वपि आसुर-मोहनार्थ-कल्पित-मोह-शास्त्रम्। क्वचिदध्यायाः क्वचित् कति कति श्लोकाः मिलितानर्तन्ते, तदपि ज्ञानिभिस् त्याज्यम्। तल्लक्षणमाह गारुडे॥
अनीशम् ईश्वरं सक्ति असन्तं सन्तमित्यपि।
मोह-शास्त्रञ् च सकलं परत्वम् अपरं त्विति॥
पद्म-पुराणे च,
किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि।
तामसा निरयायैव वर्जतेत्तान् विचक्षणः
इति। अत्र मनुः –
या वेद-बाह्याः स्मृतयो याश् च काश् च कुदृष्टयः।
सर्वास्ता निष्फलाः प्रेत्य तमो निष्ठाहितास् स्मृताः
॥ अत्र श्रुतिः ॥ यद्वै किञ् च मनुर् अवदत् तद्-भेषजम् ॥ तस्मात् शिवादिकं सर्वं वैदिकैस् त्याज्यमेवेति सिद्धम्।
[[5]]