०३ शास्त्र-नाम-निरूपणम्

अथ परिभाषा – तत्रादौ शास्त्र-नाम-निरूपणम्॥ ऋग्यजुस् सामाथर्वणाख्याश् चत्वारो वेदाः। आयुर् वेद-नाट्य-वेद-गान्धर्व-वेद-धनुर् वेदाख्याश् चत्वार उपवेदाः। ज्योतिषं व्याकरणं शीक्षा कल्पः छन्दः निरुक्तमेतानि षड् वेदाङ्गा ऋग्वेदोपनिषत्, यजुर्वेदोपनिषत्, सामवेदोपनिषत्, तैत्तिरीयम्, बृहदारण्यकम्, शारीरकं, लैङ्गं, नारसिंहं, शत-पथ-ब्राह्मणम्, गारुडं, छान्दोग्यं, कठ-वल्ली, मुण्डकम्, मुद्गलम्, ब्रह्म-बिन्दुः, तापनीयम्, ज्ञान-वर्गम् याज्ञवल्क्यम्, मैत्रावरुणम्, कालाग्नि-रुद्रम्, जाबालम्, अथर्व-शिखा, श्वेताश्वतरम्, सुबालम्, पारमात्म्यम्, चिद्-गुणालयम्, मन्त्रोपनिषत्, अथर्व-शीर्षम्, महोपनिषत्, श्वानोपनिषत्, नारायणोपनिषत्, एता द्वात्रिंशद् उपनिषदः।

[[1]]

अथातस् सूत्र-गणान् व्याख्यास्यामो बोधायनम्, आपस्तम्बः[[??]], सत्याषाढम्, द्राह्यायणम्, आगस्त्यम्, शाकल्यम्, आश्वलायनीयम्, शाम्भवीयम्, कात्यायनम्

इति नव-पूर्व-सूत्राणि।

वैखानसम्, शौनकीयं, भारद्वाजम्, आग्नि-वैश्यम्, जैमिनीयम्, माधुलम्, माध्यन्दिनम्, कौण्डिन्यम्, कौषीतकम्

इति नवापर-सूत्राणि।

अष्टादश-सङ्ख्याकाश् शारीरास् संस्कारा

इति। एतान्यष्टादश-सूत्राणि।

अथ

वासिष्ठञ् चैव हारीतं व्यासं पाराशरं तथा।
भारद्वाजं काश्यपञ् च सात्विका-मुक्ति-दायिनः॥
मानवं याज्ञवल्क्यञ् च आत्रेयं दाक्ष्यमेव च।
कात्यायनं वैष्णवञ् च राजसास् स्वर्ग-दायिनः॥
गौतमं बार्हस्पत्यं च सान्नर्तञ्च[[??]] यम-स्मृतिः।
शाङ्खं चौशनसं देवि-तामसा निरय-प्रदाः

एताह्यष्टादश-स्मृतयः

शातातपम्, शाण्डिल्यम्, लिखितम्, आङ्गीरसम्, पैठीनसम्, बृहद्धारीतम्, वृद्ध-मनुः जाबालम्, वृद्ध-बार्हस्पत्यं, वृद्ध-वासिष्ठम्, सनकम्, दत्तात्रेयम्, क्रतुः, दाल्भ्यम्, प्राजापत्यम्, बोधायनम्, जातुकर्ण्यम्, लोकाक्षि, एताह्यष्टादशोपस्मृतयः।

[[2]]

पाद्मं पद्मोद्भवं चैव पुष्करं वैभवं तथा।
नल-कूबरं नारदीयं सनत्कुमारन्तु सात्वतम्॥
वासिष्ठं जनकं चैव ऐन्द्रं भुवन-मोहनम्।
भविष्यं तिलकं[[??]] चैव विजयं परमेश्वरम्॥
ततस् सद्-वाक्यं परमं ह्यष्टादशात्मकागमाः।
वैष्णवं नारदीयञ् च तथा भागवतं शुभम्।
गारुडञ् च तथा पाद्मं वाराहं शुभ-दर्शने॥
षडेतानि पुराणानि सात्विकानि मतानि वै॥
ब्रह्माण्डं ब्रह्म-कैवर्तं मार्कण्डेयं तथैव च।
भविष्यद्वामनं ब्राह्मं राजसानि निबोध षट्॥
मात्स्यं कौर्म्यं तथा लैङ्गं शैवं स्कान्दं तथैव च।
आग्नेयञ् च षडेतानि तामसा निरय-प्रदाः॥

एतान्यष्टादश-पुराणानि।

वायव्यं भार्गवं सौम्यं ब्राह्मं काशीतकं तथा।
पाराशर्यं नारदीयं नारसिंहन् तु कापीलम्॥
वासिष्ठं शिवधर्मञ् च मारीचं मानवं तथा॥
स्कान्दं दौर्वासम् आदित्यं वारुणं शाबरं तथा॥

एतान्यष्टादशोपपुराणानि।

पातञ्जलं कापिलं सांख्यं जैमिनि-सूत्रं वैशेषिकं गौतम-सूत्रं व्यास-सूत्रम्; एतानि षड्दर्शनानि।

श्री-रामायणादय इतिहासाः।

भारतं भारद्वाज-संहिता विहगेन्द्र-संहिता अगस्त्य-संहिता पराशर-संहिता वासिष्ठ-संहिता

इत्यादयस् संहिताः,

श्री-पाञ्चरात्रं दिव्य-शास्त्रम्

इत्युक्तं पाद्मपुराणे।

श्रौतं वैखानसं प्रोक्तं वाशिष्ठं स्मार्तम् उच्यते।
पञ्चरात्राभिधं शास्त्रं दिव्यागममितीरितम्

तदष्टोत्तर-शत-संहितात्मकं, तासां नामानि विस्तरभयादत्र न लिख्यन्ते।

विश्व-कर्मं विश्व-वेषं विश्व-सारन् तु जैत्रकम्।
वास्तु-बोधं महा-तन्त्रम् आर्षिकं चित्र-कापिलम्॥
कल्पाख्यं भानुमान् वृत्तं विद्या-पति-बहु-श्रुतम्।
विश्व-बोधं मान-बोधं शास्त्रकं विश्व-काश्यपम्।
काल(धूपं)यापं नील-मयं(पा॥ नल-मयं) विशालं मा(धवं) नवं मनुः।
पाराशर्यं चातिसारं सङ्कीर्णं साम-संहिता।
वार्क्ष्य ब्राह्मं सौरमैन्द्रं वज्रं सृष्टं मान-सारम्॥
एतानि शिल्प-शास्त्राणि षट्त्रिंशत्परिकीर्तिताः।

ऋगादि-शिल्प-शास्त्रान्तानि सर्वाणि शास्त्राणि वैदिकानि।

[[3]]