श्रियै नमः।
श्रीमते रामानुजाय नमः।
श्रीमते निगमान्त-महा-देशिकाय नमः।
श्री-वङ्गि-वंश-कलश-पयोराशिराकासुधाकरैः श्री-वैकुण्ठ-दीक्षिताचार्यैर् अनुगृहीतम् प्रपन्न-धर्म-सार-समुच्चयाख्यम् आह्निक-रत्नम्।
श्रीमान् वेङ्कट-नाथार्यः कवि-तार्किक-केसरी।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि॥
श्री-निवासं नमस्कृत्य-शेषाचल-निवासिनम्
परमैकान्तिनां सम्यग् वक्ष्याम्याहं[[??]] विनिर्णयम्।
आचार-लक्षणम्
आचार-लक्षणमाह शाण्डित्यः ॥
पञ्चेन्द्रियस्य देहस्य बुद्धेश् च मनसस् तथा।
द्रव्य-देश-क्रियाणाञ् च शुद्धिर् आचारयिष्यते।