इन्द्रियादि-शुद्धिः।
द्वि-विधानाम् इन्द्रियाणां मनो बुद्ध्योश् च वर्ष्मणाम्।
द्रव्य-देश-क्रियाणां या शुद्धिस् साचार-उच्यते।
भगवद्-गुरु-विप्राणां निन्दाञ् च सत्य-भाषणम्।
अशृण्वन् तामसं शास्त्रं यच्छान्यदपि निन्दितम्।
माहात्म्यं स्तोत्र-नामानि पद्मा-कान्तस्य सर्वदा।
संशृण्वन् सात्विकं शास्त्रं शोत्रं शुद्धम् उदाहृतम्।
परस्त्री-पतितादीनाम् अङ्ग-स्पर्शन-वर्जिता।
जाह्नव्यादि-महातीर्थ-स्नान-निर्धूत-कल्मषा।
वैष्णवालिङ्गन-प्राप्त-परमानन्द-निर्भरा।
अलोलुपा चन्दनादौ त्वक्छुद्धा-परिकीर्तिता॥
पाषण्ड-पतितान्य-स्त्री-मल-मूत्रादि-वीक्षणे।
पराङ्मुखी-भागवता लोकनादि-स्पृहान्विता।
रमा-रमण-पादादि-चूडान्ताङ्गे क्षणोद्यता॥
आरूक्षार्येषु [[??]] द्धा दृष्टिरुदाहृता॥
कालाश्रय-निमित्तैश् च क्रिया-संसर्ग[[??]] दुष्टमन्नमनिच्छन्ती परमापत्स्वपि क्वचित्।
[[??]] विनिवेदितम् अन्वहम्। स्वीकुर्वन्ती यथा-काल [[??]] ता बुधैः।
मद्य-मांस-मलादीनां गन्धाघ्राण-विवर्जनम्।
तुलसी-कुसुमादीनां लक्ष्मी-पति-पदाब्जयोः।
समर्पितानामाघ्राणं घ्राण-शुद्धिरुदाहृता।
परापवादं पारुष्यं पैशुन्यम् अतिवादताम्।
असच्छास्त्रस्य पठनम् असद्भिस् सह भाषणम्।
वर्जयित्वैवमादीनि भगवन्नाम-कीर्तनम्।
वेद-सच्छास्त्र-पठनं सदा मधुर-भाषणम्।
एवमादीनि कुर्वन्ती वाक्छुद्धा समुदाहृता।
परदार-परद्रव्य-स्पर्श-बालादि ताडने।
हित्वा वृथा तृणच्छेदम् अन्यच्चापि विगर्हितम्।
दिव्यालङ्कार-करणे कुशलः कमला-पतेः।
सम्मार्जनादि कृद्धाम्नि शुद्धः पाणिरुदाहृतः।
भगवन्मन्दिराचार्याद्याभि मुख्य-प्रसारणम्।
धावनं भूमि-घातञ् च हित्वान्यदपि निन्दितम्।
तीर्थ-यात्रोत्सवाद्यर्थं सञ्चरिष्णु-मृदु-क्रमम्।
महत्-कर-स्पर्ष-हीनं शुद्धं पाद-द्वयं मतम्॥
सतां समीपे ऽधो वायु-विसर्जन-विवर्जितः।
सर्वदा वाससाच्छन्नः पायु-शुृद्धि उदाहृतः॥
अन्य-योषित्-स्व-काले वा यद्युल्बण-विवर्जितम्। ऋतु-गामि-स्व-स्त्रीयाञ् चेद् उपस्थं शुद्धम् उच्यते॥
परहिंसा-द्रव्य-योषिद्-द्वेष-वैरानुचिन्तनम्॥
असद्विषय-सन्तुष्टम् अलभ्यार्थानु चिन्तनम्।
अन्यच्च निन्दितं त्यक्त्वा हृषीकदमकं सदा।
[[15]]
श्री-पति-ध्यान-विमलं मनश् शुद्धम् उदाहृतम्॥
श्री-पतिस् सर्वदोपास्यो भोग-मोक्षेच्छुभिर् जनैः।
अन्ये ब्रह्मादयो देवानोपास्यास्तु मुमुक्षुभिः।
महा-भागवतास् सेव्यास् सच्छास्त्रं तदुदीरितम्।
इति विज्ञाय तत्त्वार्थं पदवाक्योपदेशतः।
शुष्क-तार्किक-चार्वाक-नास्तिक-प्रमुखैर् जनैः।
अभेद्या[[??]] अदृढा-नित्यं बुद्धिश् शुद्धोदिता-बुधैः।
[[??]] निमज्जनैः।
मल-मूत्रादि-शौचेन शास्त्रोक्त-विधिना मृदा।
नासिका-कर्ण-नेत्रादि-मल-निर्हरणे न च।
नैर्मल्यं यच्छरिरे सा देहशुद्धिरुदाहृता॥
सत्वादि-गुण-भेदेन त्रि-विधं द्रव्यम् उच्यते।
तत्रैकैकं बहु-विधं द्रव्यं ज्ञेयं मनीषिभिः॥
द्रव्येष्वेतेषु संशुद्धं सात्विकं द्रव्यम् उच्यते॥
धार्मिकाधिष्ठितो राज्ञा धार्मिकेणाभिपालितः॥
म्लेच्छ-पाषण्ड-पतित-सिंह-व्याघ्रादि-वर्जितः।
दिव्यापगा देव-खात-शिखि-सारङ्ग-संयुतः॥
आसन्नो यो जलैः पुष्प-तुलसी-समिदादिभिः।
युक्तश् च तृण-काष्ठाद्यैर् देशश् शुद्ध उदाहृतः ॥
इत्यादि गुण-संयुक्ते दृष्टि-रम्ये मनोहरे।
गो-शकृत्-सलिलालिप्ते देशे जननि-वर्जिते।
यत्-कर्म क्रियते हीन-नर-वीक्षिण-वर्जितम्।
लक्ष्मी-पति-पदाम्भोज-सन्तत-ध्यान-संयुतम्।
सङ्कल्प-पूर्व-मारब्धं सात्विक-त्याग-संयुतम्।
विशुद्धङ्कर्म-विज्ञेयं श्री-शायां ते समर्पितम् ॥
शुद्धिरुक्तेन्द्रियादीनां प्रोच्यं ते ऽथ गुणाश् शुभाः॥
शुभ-गुण-वर्णनम्
विद्यानसूया-कार्पण्यम् अक्रोधस् सत्य-भाषणम्।
सतां पूजा-दया-क्षन्तिस् सन्तोषो ऽस्तेय-मार्जवम्।
ज्ञानं ध्यानं तपश् शौचम् अस्पृहेन्द्रिय-निग्रहः।
ह्रीर् मङ्गलम् अनायासो धृतीर् दानं शमोदमः।
अहिंसाध्ययनं यज्ञः प्रोक्ता एते गुणाश् शुभाः ॥
[[16]]