दुर्विज्ञेय-सूक्ष्म-धर्म-विचारा बहवस् सन्ति, तेषाम् अत्र निरूपणं दुश् शकमित्येतावद् एवात्र प्रदर्शितम्। स्नातक-धर्म-निरूपणावसरे बहवो विचारा उपलभ्यन्ते, तेषां पृथक्-पृथग्विषय-लेखने ग्रन्थ-विस्तर-भीतिश् च।
पुटम् ४० - अत्र ग्रन्थ-पात इत्यत्र -
दुर् भिक्ष-पीडानास्त्येव नास्ति रोगादिजं भयम्॥
प्रत्यब्दं कार्तिकेयस् तु यजते वैष्णवीं शुभाम्।
तेन तुष्टो भवेद् देवो हरिर् नारायणस् तथा॥
इष्ट्वा च वैष्णवं यज्ञं कुलमेकोत्तरं शतम्।
उद्धृत्य परमं धाम प्रयात्येव न संशयः॥
इत्यन्तम् अनुसन्देयम्।
मन्त्राः
(अत्र परिष्कारश्रमो माभूत् - पश्चात् स्थापयिष्यते - विश्वासः। )
१७३-पुटे मृत्तिका स्नान मन्त्रास्सङ्ग्रहेण लिखिताः, अत्रसाकल्येन प्रकाश्यन्ते।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा। शीरसा धारिता देवि रक्षस्वमां पदेपदे॥ सहस्रपरमा देवी शतमूला शताङ्कुरा। सर्वँ हरतुमे पापं दूर्वादुस्स्वप्ननाशिनी॥ उद्धृताऽसि वराहेण कृष्णेन शतबाहुना। भूमिर्धेनुर्धरणी लोकधारिणी। मृत्तिके हनमे पापं यन्मया दुष्कृतं कृतम्। त्वया हतेन पापेन जीवामि शरदश्शतम्॥ मृत्तिके देहिमेपुष्टिं त्वयिसर्वं प्रतिष्ठितम्॥ काण्डात्काण्डात्प्ररोवान्ती परुषःपरुषःपरि। एवानो दूर्वेप्रतनु सहस्रेण शतेनच॥ याशतेन प्रतनोपि सहस्रेण विरोहसि। तस्यास्ते देवीष्टके विधेम हविषावयम्॥ यत इन्द्र भया महो ततोनो अभयं कृथ। मघवञ्छग्धि तवतन्न ऊतये विद्विषो विमृधोजहि॥ स्वस्तिदाविशस्पतिर्वृत्रहा विमृधो वशी। वृषेन्द्रः पुरएतुन स्स्वस्तिदा अभयङ्करः॥ स्वस्तिन इन्द्रो वृद्धश्रवाः। स्वस्तिनः पूषाविश्ववेदाः। स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बृहस्पतीर्दधातु॥
त्रातारमिन्द्रमवितार मिन्द्रँ हावेहवे सुहवगँ शूरमिन्द्रम्। हुवेनुशक्रं पुरुहूत मिन्द्रग् स्वस्तीनो मघवाधात्विन्द्रः॥ आपान्तमन्यु स्त्रिवलप्रभर्श्राधुनिश्शिमी वाञ्छरुमागँ ऋजीषी। सोमो विश्वान्यत सावनानि नार्वागिन्द्रं प्रतिमानानिडेभुः॥ परम्मृत्यो अनुपरेहि पन्थां यस्तेन्व इतरो देवयानात्। चक्षुष्मते शृण्वते ते ब्रवीमि मानः प्रजागँ रीरिषो मोतवीर्रा। शंवात श्शगँहिते घृणि श्शमुते सन्त्वौषधीः। कल्पन्ताम्मेदि शश्शग्माः। पृथिव्या स्त्वालोके सादयाम्यमुष्य शर्मासि पितरो देवता। प्रजापति स्त्वासादयतु तया देवतया। अन्तरिक्षस्यत्वादिवस्त्वादि शान्त्वा नाकस्यत्वा पृष्ठे ब्रध्नस्यत्वा विष्णवे सादयाम्य मुष्य शर्मासि पितरो देवता। प्रजापतिस्त्वा सादयतु तया देवतया॥
गन्धद्वारां दुराधर्षां नित्यपुष्टाङ्करीषिणीम्। ईश्वरिँँ सर्वभूतानां तामिहोपह्वये श्रियम्॥ उदुत्यं जातवेदसं देवं वहन्तिकेतवः। दृशे विश्वाय सूर्यम्॥ श्रीर्मेभजतुम्। अलक्ष्मीर्मेनश्यतु॥
सहस्रशीर्षा पुरुषः। सहस्राक्ष स्सहस्रपात्। सभूमीं विश्वतोवृत्वा। अत्यतिष्ठद्दशाङ्गुलम्॥ विष्णु मुखावै देवा श्छन्दोभि रिमान्लोकाननवजय्य मभ्यजर्य यद्विष्णुक्रमान्क्रमते विष्णुरेव भूत्वा यजमानश्छन्दोभी रिर्मा लोकाननवजय्यमभ्यजयति। ओजोग्रीवाभिर्नि ऋऋतिमस्थभिरिन्द्रग् श्वपसावहेन रुद्रस्य विचलस्कन्दोहोरात्रयो द्वितीयोर्ध मासानां तृतीयोमासा श्चतुर्थ ऋतूनां पञ्चम स्संवत्सरस्य षष्ठः॥ महाग्ँ इन्द्रो वज्रबाहु ष्षोडशी शर्म यच्छतु। स्वस्तिनो मघवाकरोतुहन्तु पाप्मानं योऽर्स्माद्वेष्टि॥ सोमानग्ँ स्वरणं कृणुहिब्रह्मणस्पते। कक्षीवन्तं यऔशिजम्॥ शरीरं यज्ञशमलङ्कुसीदं तस्मिन्त्सीदतुयोऽर्स्माद्वेष्टि। नाभिर्शेचित्तं विज्ञानम्। पायुर्मेऽपचितीर्भसत्॥ आपान्तमन्युस्त्रि पलप्रभर्माधुनि श्शिमीवाञ्छरुमाग्ँ ऋजीषी। सोमो विश्वान्यत सावनानि नार्वागिन्द्रं प्रतिमाना निदेभुः॥ वरुणस्य स्कम्भनमसि वरुणस्य स्कम्भ सर्जनमसि प्रतियातो वरुणस्यपाशः प्रत्यस्तो वरुणस्यपाशः॥ विष्णोरराटमसि विष्णोः पृष्ठमसि विष्णोश्न्यप्रेस्थो विष्णो स्स्यूरसि विष्णो ध्रुव नमसि वैष्णवमसि विष्णवेत्वा॥ आनन्दनं दावाण्डौमे। भगप्सौभाग्यम्पनः। ऊर्वो रोजोरिष्टा विश्वान्यङ्गानि तनूस्तनुवामे सहनमस्ते अस्तुमाहिग्ँसीः॥ ऊरू अरत्निजानुनी विशोमेऽङ्गानि सर्वंशः॥ जङ्घाभ्यां पद्भ्यां धर्मोसि। विशिराजा प्रतिष्ठितः॥ चरणं पवित्रं विततं पुराणम्। येनपूतस्तरति दुष्कृतानि। तेनपवित्रेण शुद्धेन पूताः। अति पाप्मानमरातिन्तरेम॥
इदं विष्णुर्विचक्रमे त्रेधानिदधेपदम्। समूढमस्य साग्ँसुरे। त्रीणिपदा विचक्रमे विष्णुर्गोपा अदाभ्यः। ततोधर्माणि धारर्य॥ सजोषा इन्द्रनगणो मरुद्भि स्सोमम्पिब वृत्रर्ह ञ्छूरविर्द्वा। जहीशत्रूग्ँ रपमृधोनुदस्वा धाभयङ्कृणुहि विश्वतोनः॥
१३४-पुटे, पङ्क्ति-४, इति कटिमित्यनन्तरं “विष्णोरराटनुसीति पृष्ठं, वरुणस्य स्कम्भनमसी” ति मेढ्रमिति पङ्क्तिश् शुद्धा। उदुत्तमं॥ हिरण्य शृङ्गमित्यादयो मन्त्राश्श्रीरङ्गनाथमहादेशिक-प्रणीताह्निक-ग्रन्थादिषु सुस्पष्टं लिखिता द्रष्टव्याः।