०१ भूमिका

प्रपन्न-धर्म-सार-समुच्चयम् – इदं किलान्वर्थ-नाम-धेयं प्रबन्ध-रत्नं श्रुत-पूर्वमप्यदृष्ट-चरमिति न पुनर् आवेदनीयमुत्तम-ग्रन्थ-पर्यवेक्षण समुत्कण्ठानाम् आस्तिक-शिरोमणीनाम्। तदिदमिदानीं दैवादधिगतम् अस्माभिः।

अयङ्किल परिभाषा अभिगमनम् उपादानम् इज्या-स्वाध्याय-योग-परिच्छेद-रूपेण षोढा विभक्तः। एकैक-परिच्छेदेष्वपि पाञ्चकालिन्धर्मानुष्ठानूपयोग्यंशा बहवः प्रतिपाद्यन्ते। पञ्च-काल-व्यवस्था, आह्निक-प्रक्रियाः, तद्-उपयुक्त-मन्त्राः, तेषाम् अर्थ-निरूपणम्, तत्-तत्-प्रमेयानुगुण-प्रमाण-प्रदर्शनम्, प्रयोगाश् चेत्यादयो बहवो विषयास् सारतमाः प्रतिपाद्यन्ते। किञ्च पारमैकान्त्य-निष्ठानां श्री-पाञ्चरात्रादि भगवच्छास्त्र-शरणानां पाञ्चकालिक-धर्मानुष्ठान तत्-पराणाम् अवश्य जिज्ञास्यास् सारतमाश् च विषयाः एकैक-परिच्छेदेषु परश् शतम् आविष्क्रियन्ते।

ईदृश-ग्रन्थ-रत्न-मुद्रणाय श्री-श्री-ब्रह्म-तन्त्र-पर-काल-महा-देशिकेन्द्र-स्थानाद् अनुगृहीतम् एकं पुस्तकं, तथा मैसूर् राजकीय-कोशागाराद् एकम्, अन्यच्छ्री-रङ्ग-पट्टणावासि श्री-निवास-रङ्ग-भट्टार्यैर् अधिगतम्, रामनाथ-पुरावासि श्री-राम-क्रतुनाथ-वंश्यैश् शठकोपाचार्यैस् सम्प्राप्तनुपरम्, एतच्छ्री-कोश-चतुष्टयावलोकन-पूर्वकं यथा मति संशोधितञ् च दासेन।

अस्य ग्रन्थस्य प्रणेतारो श्री-वङ्गि-वंशेश्वरान्वय-कलश-पयोराशिराकाश-शाङ्काः श्री-वैकुण्ठ-दीक्षिताचार्याः, अत एवास्य वैकुण्ठ-दीक्षितीयमिति च प्रसिद्धिः, एते वैदिक-सार्वभौम-कालाद् अर्वाचीना एव, तथापि शीष्टानुष्ठानयोग्यांशो बहवः प्रतिपाद्यन्त इति मैसूर् राजकीय-मुजराय् सूपरिण्टेण्डेण्ट् प्रभूणामाज्ञा-धारकेण दासेन मुद्रापितेऽस्मिन् ग्रन्थे अक्षर-विन्यास-स्खालित्यादिदोषसद्भावेऽपि “वरङ्कण्ठे नियच्छती"ति न्यायेन निर्मितृरा गुण-ग्राहिणस् तत्र भवन्तो महान्तस् सहृदयास् सादरं रक्षन्तुम् अर्हन्तीति सविनयं साञ्जलि-बन्धं प्रार्थये।

तूप्पुल् वेङ्कटाचार्य-दासः।