English
CHAPTER X. ON THE DAWN OF FRUITION.
विश्वास-प्रस्तुतिः
एवं प्रपन्ना विष्णोस् तु
पादौ, तत्-प्राण-सञ्ज्ञितान् (ताः ?)
अनुव्रजति तान् विष्णुर्
अत्यर्थ-प्रेम-विह्वलः ॥ १ ॥
English
- Vishnu overcome with intense love goes after those that have thus taken refuge with the feet of Vishnu and are disignated His life (Prana).
मूलम्
एवं प्रपन्ना विष्णोस्तु पादौ तत्प्राणसञ्ज्ञितान् (ताः ?)
अनुव्रजति तान् विष्णुः अत्यर्थप्रेमविह्वलः ॥ १ ॥
विश्वास-प्रस्तुतिः
एतद् गीतं भगवता,
“ज्ञानी त्व् आत्मैव मे मतम् ” ।
बहु-जन्म-सहस्रान्ते
दिष्ट्या यस्तु प्रपद्यते ॥
वासुदेवः सर्वम् इति,
स महात्मा सुदुर्लभः ।
English
- That the wise man is myself, is my creed’. So has been said by the Lord Himself. The high-souled person who, at the end of many deaths and births, by good fortune resorts to Vishnu knowing that he is the all, is very difficult to be met with.
मूलम्
एतद् गीतं भगवता, “ज्ञानी त्वात्मैव मे मतम् ” ।
बहुजन्मसहस्रान्ते दिष्ट्या यस्तु प्रपद्यते ॥
वासुदेवः सर्वमिति, स महात्मा सुदुर्लभः ।
विश्वास-प्रस्तुतिः
उक्ता शास्त्रे भगवता
प्रपन्ने कृत-कृत्यता ॥
तस्मिंश् चानुत्तमा प्रीतिः
तस्याऽशेष-विशिष्टता ।
English
- It has been said by Bhagavan Vishnu in the Pancharatra Sastra that the satisfaction of a Prapanna in having achieved his object is unsurpassed love to God and the consciousness of His distinction from all.
मूलम्
उक्ता शास्त्रे भगवता प्रपन्ने कृतकृत्यता ॥
तस्मिंश्चानुत्तमा प्रीतिः तस्याऽशेषविशिष्टता ।
विश्वास-प्रस्तुतिः
“विष्णूपायो योऽन्य-फलः
सोऽधमः परिकीर्तितः
अन्योपायो विष्णु-फलः
मध्यमः परिकीर्तितः ।
English
4-5. He who adopting Vishnu as the means accomplishes another object is said to be the lowest. He who adopting other means aims at the attainment of Vishnu is said to be mediocre.
मूलम्
तस्मिंश्चानुत्तमा प्रीतिः तस्याऽशेषविशिष्टता ।
“ विष्णूपायो योऽन्यफलः सोऽधमः परिकीर्तितः
अन्योपायो विष्णुफलः मध्यमः परिकीर्तितः ।
विश्वास-प्रस्तुतिः
माधवाङ्घ्रि-द्वयोपायो
माधवाङ्घ्रिप्-रयोजनः ॥
स उत्तमाधिकारी स्यात्
कृतकृत्योऽद्य जन्मनि । (सा. तं.)
English
He who adopting the pair of Madhava’s feet as the means attains the feet of Madhava (God) is the best qualified, and has here, in this birth accomplished his object.
मूलम्
माधवाङ्घ्रिद्वयोपायो माधवाङ्घ्रिप्रयोजनः ॥
स उत्तमाधिकारी स्यात् कृतकृत्योऽद्य जन्मनि । (सा. तं.)
विश्वास-प्रस्तुतिः
139.’याः क्रियाः सम्प्रयुक्ताः स्युः
एकान्त-गत-बुद्धिभिः ॥
ताः सर्वाः शिरसा देवः
प्रतिगृह्णाति वै स्वयम् । (भा. शां.358)
English
- God of his own accord receives on His head all the worship which are made by men whose minds are devoted to one object.
मूलम्
139.’याः क्रियाः सम्प्रयुक्ताः स्युः एकान्तगतबुद्धिभिः ॥ ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् । (भा. शां.358)
विश्वास-प्रस्तुतिः
“भक्तैर् अण्व् अप्य् उपानीतं
प्रेम्णा भूर्येव मे भवेत् ॥
भूर्य् अप्य् अ-भक्तोपहृतं
न मे तोषाय कल्पते “। (भाग. 10, 81-3)
English
- Even an atom of offering given with love by the bhaktas becomes very great to me, and that offered by a [[380]] non-bhakta, however much it be, does not bring about my satisfaction.
मूलम्
“भक्तैरण्वप्युपानीतं प्रेम्णा भूर्येव मे भवेत् ॥ भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते “। (भाग. 10, 81-3)
विश्वास-प्रस्तुतिः
भक्तशब्दस् तु मुख्योक्त्या
प्रपन्ने पर्यवस्यति ॥
आत्मीय-संहितायां तु
यथा सेनेश उक्तवान्-
English
- Here.the word bhakta in its chief significance ultimately points to a Prapanna. In his own samhita (Vishvaksenasamhita) the leader of the hosts (senesa) has said as follows:–
मूलम्
भक्तशब्दस्तु मुख्योक्त्या प्रपन्ने पर्यवस्यति ॥ आत्मीयसंहितायां तु यथा सेनेश उक्तवान्-
विश्वास-प्रस्तुतिः
“सेवा तु प्रोच्यते सद्भिः
भक्ति-शब्देन भूयसी” ॥ ९॥
सेवा चात्यन्त-नीचत्वा-
-पत्तिर्हि स्वामिनं प्रति ।
तस्मात् परस्य दास्यैक-
रसता भक्तिर् उच्यते ॥ १० ॥
English
9-10. By the word bhakti copious seva (devoted service) is mentioned by the sages; and seva is entering into a state of utter lowliness towards one’s Lord. Therefore the act of taking pleasure solely in the service of the Supreme is called Bhakti.
मूलम्
“ सेवा तु प्रोच्यते सद्भिः भक्तिशब्देन भूयसी” ॥ ९॥
सेवा चात्यन्तनीचत्वापत्तिर्हि स्वामिनं प्रति ।
तस्मात् परस्य दास्यैकरसता भक्तिरुच्यते ॥ १० ॥
विश्वास-प्रस्तुतिः
“ आकिञ्चन्यैकशरणाः
केचिद्-भाग्याधिकाः पुनः । (वि. सं.)
लक्ष्मीं पुरुष-कारेण
वृतवन्तो नरोत्तमाः ॥
English
11-12. Some good men who have their sole refuge in destitution of means, but again are highly fortunate and have chosen Lakshmi as the mediatrix
मूलम्
“ आकिञ्चन्यैकशरणाः केचिद्भाग्याधिकाः पुनः । (वि. सं.)
लक्ष्मीं पुरुषकारेण वृतवन्तो नरोत्तमाः ॥
विश्वास-प्रस्तुतिः
श्रिया समेतं माम् एव
शरणं प्राप्तुम् इच्छवः ।
माम् एकं शरणं प्राप्य
माम् एकं प्राप्नुवन्ति ते” ॥ १२ ॥
English
and are desirous of attaining Me alone who is united with Sri, having thus taken shelter with Me, reach me alone.
मूलम्
श्रिया समेतं मामेव शरणं प्राप्तुमिच्छवः ।
मामेकं शरणं प्राप्य मामेकं प्राप्नुवन्ति ते” ॥ १२ ॥
विश्वास-प्रस्तुतिः
“ एवं मां शरणं प्राप्य
वीत-शोक-भय-क्लमः । (ल. सं. 17-60)
निरारम्भो निराशश् च
निर्ममो निर्-अहङ्कृतिः ॥
मामेव शरणं प्राप्य
तरेत् संसारसागरम् ।
English
- He who does My werk, who has no being higher than me, who is free from sorrow, fear and fatigue and who is without any support, without any desire, without any attachment to the external world and without egotism, having taken refuge with Me alone shall cross the ocean of samsara.
मूलम्
“ एवं मां शरणं प्राप्य वीतशोकभयक्लमः । (ल. सं. 17-60)
निरारम्भो निराशश्च निर्ममो निरहङ्कृतिः ॥
मामेव शरणं प्राप्य तरेत् संसारसागरम् ।
विश्वास-प्रस्तुतिः
सत्-कर्म-निरताः शुद्धाः
साङ्ख्य-योग-विदस्-तथा ॥
नार्हन्ति शरण-स्थस्य
कलां कोटितमीम् अपि”।
English
- Those that are devoted to good works, that are pure and learned in sankhyayoga (the path of knowledge), are not worth even a tenmillomth part of him who is staid in refuge-seeking.
मूलम्
सत्कर्मनिरताः शुद्धाः साङ्ख्ययोगविदस्तथा ॥
नार्हन्ति शरणस्थस्य कलां कोटितमीमपि”।
विश्वास-प्रस्तुतिः
उपायाधिकृतस्यापि
भवेद् उत्तर-पूर्वयोः ॥
अश्लेषश् च विनाशश् च
पुण्य-पाप-मयाघयोः ।
English
- And-te a person who has acquired the means (of Prapatti), the non-clinging and destruction of subsequent and antecedent aghas (actions of bondage) which are of the nature of merit (punya) and demerit (papa), shall happen.
मूलम्
उपायाधिकृतस्यापि भवेदुत्तरपूर्वयोः ॥
अश्लेषश्च विनाशश्च पुण्यपापमयाघयोः ।
विश्वास-प्रस्तुतिः
प्रारब्ध-देह-भोग्यं तु
विना, दृप्तस्य नश्यति ॥ १६ ॥
पूर्वाघम्, उत्तराघं तु
मति-पूर्वं महत्तरम् ।
आदेह-पतनावृत्तम्
अनुताप-विवर्जितम् ॥
यत् तद् विनैवाश्लेषः स्यात्
अन्यस्याघस्य +++(अमतिपूर्वकस्योत्तरस्य)+++ युक्तितः ।
English
16-17. Properly, all other antecedent aghas of a proud prapanna (dripta),
except those that are fit to be enjoyed in the body already begun, desist;
and there shall be no clinging of all other aghas except those only that are [[381]] intentional, principal, persisting till the decay of the body and are devoid of repentence.
मूलम्
प्रारब्धदेहभोग्यं तु विना दृप्तस्य नश्यति ॥ १६ ॥
पूर्वाघमुत्तराघं तु मतिपूर्वं महत्तरम् ।
आदेहपतनावृत्तम् अनुतापविवर्जितम् ॥
यत् , तद्विनैवाश्लेषः स्यात् अन्यस्याघस्य युक्तितः ।
विश्वास-प्रस्तुतिः
अयमर्थो भगवता
सविशेषम् उदीरितः-
" उपाय-भक्तिः प्रारब्ध-
व्यतिरिक्ताघ-नाशिनी ॥ (सा. त!)
साध्य-भक्तिस्तु सा हन्त्री
प्रारब्धस्यापि भूयसी" ॥ १९
English
18-19. This import has been specially declared by Bhagavan Vishnu.
“Bhakti as the means of accomplishing one’s desired object (upayabhakti) is the destroyer of all aghas excepting those that have begun to work (prārabdha) ;
but bhakti as the end to reach (sadhya-bhakti) which is greater, is the destroyer even of the aghas that have commenced to work.
मूलम्
अयमर्थो भगवता सविशेषमुदीरितः-
" उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ॥ (सा. त!)
साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी” ॥ १९
विश्वास-प्रस्तुतिः
उपाय-भक्तिर् इत्य् उक्तो
भक्ति-योगो हि साङ्गकः ।
बहु-देह-निमित्तं हि
प्रारब्धं न स नाशयेत् ॥ २० ॥
English
- Bhakti-yoga with all its auxiliary parts is here called upaya-bhakti (bhakti as a means). It shall not destroy the aghas begun (prarabdha) which is verily the cause of many births.
मूलम्
उपायभक्तिरित्युक्तो भक्तियोगो हि साङ्गकः ।
बहुदेहनिमित्तं हि प्रारब्धं न स नाशयेत् ॥ २० ॥
विश्वास-प्रस्तुतिः
साध्य-भक्तिर् इति प्रोक्ता
प्रपत्तिर् मोक्ष-रूपिणी ।
आर्तानां भूयसी सा तु
प्रारब्धम् अपि नाशयेत् ॥ २१ ॥
प्रारब्ध-देह-भोग्यं तु
दृप्तस्याघं न नाशयेत् ।
English
- Prapatti which is of the nature of moksha is called sadhya-bhakti (bhakti as an end). This one too which is higher, shall destroy even the aghas already begun of the afflicted Prapannas (artas), but it shall not destroy the aglas of a proad Prapanna which are to be enjoyed in the body already possessed.
मूलम्
साध्यभक्तिरिति प्रोक्ता प्रपत्तिर्मोक्षरूपिणी ।
आर्तानां भूयसी सा तु प्रारब्धमपि नाशयेत् ॥ २१ ॥
प्रारब्धदेहभोग्यं तु दृप्तस्याघं न नाशयेत् ।
विश्वास-प्रस्तुतिः
एतद् उक्तं भवत्य् अत्र-
भक्ति-योगाद् विमुच्यते।
प्रारब्ध-कर्म-निर्मोके
बहु-जन्मोपभोगतः ।
English
- This is what has been said here :-If there is liberation from prarabdhakarma owing to the enjoyment of births, then with the help of bhakti-yoga shall one be freed.
मूलम्
एतदुक्तं भवत्यत्र-भक्तियोगाद्विमुच्यते।
प्रारब्धकर्मनिर्मोके बहुजन्मोपभोगतः ।
विश्वास-प्रस्तुतिः
कर्मणः शोक-हेतोस् त्वां
“मोक्षयिष्यामि मा शुचः" ।
एवं भगवतोक्तत्वाद्
एतद्-देहेऽपि शोचनात् ।
आर्तस्य सद्यो मुक्तिः स्यात्
प्रपत्तिर् भूयसी यतः ।
English
23-24. “From karma which is the root of sorrow I shall liberate you, grieve not.” As it has been thus said by the Lord, also on account of the feeling of grief for the body, there shall be liberation forthwith to an arta-prapanna (the afflicted or the unhappy prapanna); for prapatti is higher (than Bhakti-yoga).
मूलम्
कर्मणः शोकहेतोस्त्वां “मोक्षयिष्यामि मा शुचः" ।
एवं भगवतोक्तत्वादेतद्देहेऽपि शोचनात् ।
आर्तस्य सद्यो मुक्तिः स्यात् प्रपत्तिर्भूयसी यतः ।
विश्वास-प्रस्तुतिः
दृप्तः प्रारब्ध-देहात् तु
न शोचति यतः, ततः ।
देहान्ते मुच्यते ; सैषा
मोक्ष-काल-व्यवस्थितिः ॥ २५ ॥
English
- But a dripta (a proud-prapanna), as he of his own accord does not feel grief on account of the body possessed (prarabdha), is liberated at the end of the body. This is the determination of their time of liberation. grace
मूलम्
दृप्तः प्रारब्धदेहात्तु न शोचति यतः, ततः ।
देहान्ते मुच्यते ; सैषा मोक्षकालव्यवस्थितिः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सोऽयं श्रियः-पत्युर् अन्तर्-
हृदयाम्भोज-वासिनः ।
प्रसादेनैव सुसुखं
नाडीं भित्त्वा शताधिकाम्+++(=सुषुम्नां)+++ ॥
English
26-30. This Prapanna, therefore, solely through the of the Lord of Sri who resides within the lotus of the [[382]] heart, with ease bursting open the hundred and oneth tubular organ of the body (sushumna)
मूलम्
सोऽयं श्रियःपत्युरन्तर्हृदयाम्भोजवासिनः ।
प्रसादेनैव सुसुखं नाडीं भित्त्वा शताधिकाम् ॥
विश्वास-प्रस्तुतिः
सद्यस् तयोर्ध्वम् उत्क्रम्य
गत्वा तान् आतिवाहिकान् ।
अर्चिरादीन् स (दींश्च ?) तैर् नीतः
प्रीति-युक्तैः पदे-पदे ॥
English
and through it immediately rising above, reaching those employed to convey to the other world (ātivåhikas) being conducted by them who have kindness to show at every step, through the different stages of the path of light (archirādi),
मूलम्
सद्यस्तयोर्ध्वमुत्क्रम्य गत्वा तान् आतिवाहिकान् ।
अर्चिरादीन् स (दींश्च ?) तैर्नीतः प्रीतियुक्तैः पदेपदे ॥
विश्वास-प्रस्तुतिः
अ-मानव-कर-स्पर्शात्
सूक्ष्म-देहं विसृज्य च ।
विरजां मनसा तीर्त्वा
ब्रह्म-गन्धादि-लाञ्छितः ॥
English
and owing to the contact of the hand of the superhuman being (amānava) leaving the subtle body (Sūkskmadeha), mentally crossing the river Viraja (devoid of passion) and marked with holy sandal and other perfumes of Brahman,
मूलम्
अमानवकरस्पर्शात् सूक्ष्मदेहं विसृज्य च ।
विरजां मनसा तीर्त्वा ब्रह्मगन्धादिलाञ्छितः ॥
विश्वास-प्रस्तुतिः
सालोक्यम् अथ सारूप्यं
सामीप्यं च क्रमाद् व्रजेत् ।
सायुज्यं चाधिगच्छेत् स
ब्रह्मणा सह सर्वशः ॥
English
shall attain, in order, (the several states of assimilation with God), living in the same heaven (Salokya), then having the sameness of form (Sarupya) and living in proximity (Samipya) and finally shall completely obtain intimate union with Brahman (Sayujya),
मूलम्
सालोक्यमथ सारूप्यं सामीप्यं च क्रमाद्व्रजेत् ।
सायुज्यं चाधिगच्छेत् स ब्रह्मणा सह सर्वशः ॥
विश्वास-प्रस्तुतिः
अनुसञ्चरन्न् इमान् लोकान्
कामान्नी, कामरूप्य् अपि ।
(?) इमान् लोकांश् च कामानी
काम-रूप्य् अनुसञ्चरन् ।
साम गायन् किङ्कुरुते
सूरिभिस् सह सर्वदा ।
English
moving about from world to world and pursuing all desires taking form at will, along with the eternals (Suris) he always does the service of chanting Samaveda.
मूलम्
अधिक पा०–अनुसञ्चरन्निमान् लोकान् कामान्नी कामरूप्यपि ।
(?) इमान् लोकांश्च कामानी कामरूप्यनुसञ्चरन् ।
साम गायन् किङ्कुरुते सूरिभिस्सह सर्वदा ।
विश्वास-प्रस्तुतिः
यद् वा ऽर्चिरादि-मार्गादि-
विलम्बम् असहन्न् इव ॥
प्रपन्नं हरति क्षिप्रं
यथेष्टम् इति च (अपि च) श्रुतम् ।
English
- Or else, as if not brooking the delay caused by the regular path (archiradimarga), that God speedily takes away at will a Prapanna is also taught by the Srutis.
मूलम्
यद्वाऽर्चिरादिमार्गादिविलम्बमसहन्निव ॥
प्रपन्नं हरति क्षिप्रं यथेष्टमिति च (अपि च) श्रुतम् ।
विश्वास-प्रस्तुतिः
महावराहो भगवान्
एतत् संवादकं वचः ॥
यद् आह देव्यां शृण्वन्त्यां
भूम्यां प्रवदतां वरः-
English
- The Lord in the shape of the great Varaha who is eminent among the mighty, has spoken to His attentive consort, Bhumi, words bearing on this subject as follows:-
मूलम्
महावराहो भगवानेतत्संवादकं वचः ॥
यदाह देव्यां शृण्वन्त्यां भूम्यां प्रवदतां वरः-
विश्वास-प्रस्तुतिः
“स्थिते मनसि सुस्वस्थे
शरीरे सति यो नरः ।
धातु-साम्ये स्थिते स्मर्ता
विश्वरूपं च माम् अजम् ।
ततस् तं म्रियमाणं तु
काष्ठ-पाषाण-सन्निभम् ।
अहं स्मरामि मद्-भक्तं
नयामि परमां गतिम् ।"
English
33-34. “That person who thinks of me, the omnipresent and the unborn, when his mind is in a state of calmness, his body in a state of harmony of the humours, him, I afterwards think of; my devotee (bhakta) who is at the point of death like a stock or stone and lead him to the final goal.”
मूलम्
“ स्थिते मनसि सुस्वस्थे शरीरे सति यो नरः ।
धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजम् ।
ततस्तं म्रियमाणं तु काष्ठपाषाणसन्निभम् ।
अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ।”
विश्वास-प्रस्तुतिः
यदा कदाचित् वातादि-
धातु-साम्याद् अरोगतः ।
मनस्-स्थितिः सम्भवति,
यः कश्चित् तु तदा नरः ।
स्मरेत् स्वामित्व-सौशील्य-
वात्सल्यादि-महोदधिम् ॥
English
35-43. At any time whatever on account of the harmony of wind and other humours of the body due to the absence of disease when calmness of mind exists, if any man whatever thinks of me who am the great ocean of lordship, excellence of disposition, affection and other good qualities [[383]]
मूलम्
यदा कदाचित् वातादिधातुसाम्यादरोगतः ।
मनस्स्थितिः सम्भवति, यः कश्चित्तु तदा नरः ।
स्मरेत् स्वामित्व-सौशील्य-वात्सल्यादिमहोदधिम् ॥
विश्वास-प्रस्तुतिः
अवतीर्णं वराहं मां
श्रिया दीप्त-गुणैर् युतम् ।
नारायणं विश्व-रूपम्
अजम् इच्छात्त-विग्रहम् ॥ ३६ ॥
English
kindled by Lakshmi, and who am Narayana, the Omnipresent, the unborn and the possessor of body at will,-Me,
मूलम्
अवतीर्णं वराहं मां श्रिया दीप्तगुणैर्युतम् ।
नारायणं विश्वरूपमजमिच्छात्तविग्रहम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
" श्रीमन्-नारायण ! स्वामिन् !
अनन्य-शरणस् तव ।
चरणौ शरणं यात"
इति मां यः स्मरेत् सकृत् ॥
English
if he thinks of even once saying ‘O Narayana, than whom there is no other resort, I have taken refuge with Thy feet’,
मूलम्
" श्रीमन्नारायण ! स्वामिन् ! अनन्यशरणस्तव ।
चरणौ शरणं यातः" इति मां यः स्मरेत् सकृत् ॥
विश्वास-प्रस्तुतिः
ततस् तम् इतरोपाय-
व्यवधान-विवर्जितम् ।
तद्-अवस्थं मृति-प्राप्तौ
काष्ठ-पाषाण-सन्निभम् ॥
English
Of my own accord I then think of him who is free from obstruction by other means, who remains steady in that state and who, when death approaches, is like a block of wood or stone,
मूलम्
ततस्तमितरोपायव्यवधानविवर्जितम् ।
तदवस्थं मृतिप्राप्तौ काष्ठपाषाणसन्निभम् ॥
विश्वास-प्रस्तुतिः
काष्ठवत् तु स्वतो देहे
मनश्-चेष्टा-विवर्जितम् ।
पर-प्रबोधासञ्ज्ञं तु
विलुप्त-हृदयं ततः ॥
English
that is, like wood is devoid of the activity of mind in his own body, who has consciousness only when awakened by others but afterwards has an impaired mind,
मूलम्
काष्ठवत्तु स्वतो देहे मनश्चेष्टाविवर्जितम् ।
परप्रबोधासञ्ज्ञं तु विलुप्तहृदयं ततः ॥
विश्वास-प्रस्तुतिः
अश्मवत्, स्वयम् अन्यैश् च
हित-स्मरण-वर्जितम् ।
आश्रितेषु प्रसुप्तेषु
पुरुषो यो व्यवस्थितः ॥
English
who himself is devoid of the thought of his own good and like his own self by others also-I, the soul of support of my followers, am that Purusha (Person) who, while his dependents are asleep,
मूलम्
अश्मवत् स्वयमन्यैश्च हितस्मरणवर्जितम् ।
आश्रितेषु प्रसुप्तेषु पुरुषो यो व्यवस्थितः ॥
विश्वास-प्रस्तुतिः
+++(तदीयं)+++ कामं कामं निर्मिमाणः
तेषां जागर्ति-सिद्धये ।
सो ऽहम् आश्रित-तन्त्रात्मा
स्मरामि च तदा स्वयम् ॥
English
remaining steady and bringing into existence all the objects of their desire, is awake for the fulfilment of them.
मूलम्
कामं कामं निर्मिमाणः तेषां जागर्तिसिद्धये ।
सोऽहमाश्रिततन्त्रात्मा स्मरामि च तदा स्वयम् ॥
विश्वास-प्रस्तुतिः
इमं मद्-भोग-योग्यं तु
कृपा-पूर-प्रकाशनात् ।
नयामि परमं स्थानम्
अर्चिरादि-गतिं विना ।
गरुड-स्कन्धम् आरोप्य
यथेष्टम् अनिवारितः ।
English
And by way of making known the flow of my grace, without the path of the light (archiradi) I shall take this person who is worthy of enjoying my enjoyments, to the highest region, mounting him without any hindrance as much as desired on the shoulder of Garutman."
मूलम्
इमं मद्भोगयोग्यं तु कृपापूरप्रकाशनात् ।
नयामि परमं स्थानम् अर्चिरादिगतिं विना ।
गरुडस्कन्धमारोप्य यथेष्टमनिवारितः ।
विश्वास-प्रस्तुतिः
एतत्-प्रभाव-युक्तस्य
प्रपन्नस्य तु पार्श्वतः ॥
अपयान्ति द्रुतं भीताः
पाशिनो यमकिङ्कराः ॥
English
- The servents of Yama with their nooses, being afraid, speedily fall off from the side of a Prapanna who is possessed of such glory.
मूलम्
एतत्प्रभावयुक्तस्य प्रपन्नस्य तु पार्श्वतः ॥ अपयान्ति द्रुतं भीताः पाशिनो यमकिङ्कराः ॥
विश्वास-प्रस्तुतिः
अयं न कस्यचिद् भृत्यः
पराशर-शुकौ यथा ॥ ४४ ॥
“स्व-पुरुषम् अभिवीक्ष्य पाश-हस्तं
वदति यमः किल तस्य कर्ण-मूले ॥
परिहर मधु-सूदन-प्रपन्नान्
प्रभुर् अहम् अन्य-नृणां न वैष्णवानाम् । (वि. पु. 3-7-14)
English
- As has been said by Parasara and Suka this man is the servant of none whatever :- “Seeing his own functionary noose in hand, Yama, indeed, whispers in his ear, shun those that have taken refuge with Madhusudana, for I am the master only of other men and not of the Vishnavas.”
मूलम्
अयं न कस्यचिद् भृत्यः पराशरशुकौ यथा ॥ ४४ ॥
“ स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ॥
परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् । (वि. पु. 3-7-14)
विश्वास-प्रस्तुतिः
“देवर्षि-भूतात्म-नृणां पितॄणां
न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
नारायणं लोकगुरुं प्रपन्नः ॥१६॥"+++(5)+++
English
- “O King! that person who has completely sought refuge with the Teacher of the world (Lokaguru), Narayana, the worthy object of resort, is neither a servant nor a debtor of the gods, the sages, the elementals, men and the divine manes (Pitris).”
मूलम्
" देवर्षिभूतात्मनृणां पितॄणां न किङ्करो नायमृणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ॥१६॥”
उपसंहारः
विश्वास-प्रस्तुतिः
(भाग. 11-5-41)
त्रय्य्-अन्त-स्मृति-मुख्य–सन्-मुनि-वचः–श्रीपाञ्चरात्राचल-
क्षोदैः+++(←सम्पेषणे)+++ सङ्घटितः प्रपन्न-चरित-क्षीराब्धि-(द्धि ?)सेतुर् महान्।
ये वाञ्छन्त्य् अमुना पथा ऽऽप्तुम् अचिरात् पारं भवाम्भोनिधेः
ते पूर्वोत्तर-पाप-कर्म-निचयैर् मुक्ता विमुक्ता ध्रुवम् ॥ ४७॥
English
[[334]]
47. A great bridge over the milky ocean of the practices of Prapannas has been built by bringing together the the poundings of the mountains of Vedanta, Smriti, and such important teachings of great sages and the Pancharatra. Those that wish to reach quick the extremity of the ocean of Samsara by this route, being released by the store of antecedent and subsequent (Purvottara) sinful Karmas, they are considered to be completely freed.
मूलम्
(भाग. 11-5-41)
त्रय्यन्त-स्मृतिमुख्यसन्मुनिवचः-श्रीपाञ्चरात्राचल-
क्षोदैः सङ्घटितः प्रपन्नचरितक्षीराब्धि (द्धि ?) (?) सेतुर्महान्
ये वाञ्छन्त्यमुना पथाऽऽप्तुमचिरात् पारं भवाम्भोनिधेः
ते पूर्वोत्तरपापकर्मनिचयैः मुक्ताः विमुक्ताः ध्रुवम् ॥ ४७॥
विश्वास-प्रस्तुतिः
कार्पण्यातत-बद्ध-मूल-फलका,, विश्वास-कीलाचिता
+++(देव-गत-)+++याच्ञा-बन्धन-रज्जु-कृष्टि-वशगा निक्षेप-सत्-क्षेपणिः+++(=नौका-पट-दण्डः)+++ ।
संसारार्णव-तारिणी तनु-भृतां न्यासात्म-नौः ; ताम् इमाम्
अच्छिद्राम् अथ पारयिष्णुम् अभयाः सद्यो ऽधिरूढा जनाः ॥४८॥
English
- Wise men who are fearless therefore get into the boat of Nyasa (self-surrender) which is without any hole and is able to go to the end,
which has for the base-plank the consciousness arising out of the feeling of wretchedness,
which is fastened by the nail of faith,
which obeys the pull of the tether (Bandanarajyu) of prayer,
which has the mast of self-surrender (Nekshepa) and which enables embodied beings to cross the ocean of Samsara.
मूलम्
कार्पण्याततबद्धमूलफलका विश्वासकीलाचिता
याच्चाबन्धनरज्जुकृष्टिवशगा निक्षेपसत्क्षेपणिः ।
संसारार्णवतारिणी तनुभृतां न्यासात्मनौः ; तामिमाम्
अच्छिद्रामथ पारयिष्णुमभयाः सद्योऽधिरूढा जनाः ॥४८॥
विश्वास-प्रस्तुतिः
अशेषापेक्षितं यत्र
परितो जायते सताम् ।
प्रपन्न-पारिजाताख्यः
प्रबन्धः क(प्र?)थितो भुवि ॥ ४९ ॥
English
- The work known as Prapannaparijata has beer proclaimed on earth-a work where the desires of the virtuous are met with from all sides.
मूलम्
अशेषापेक्षितं यत्र परितो जायते सताम् ।
प्रपन्नपारिजाताख्यः प्रबन्धः क(प्र?)थितो भुवि ॥ ४९ ॥
विश्वास-प्रस्तुतिः
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते फलोदयपद्धतिः दशमी
। प्रपन्नपारिजातः सम्पूर्णः ॥
मूलम्
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते फलोदयपद्धतिः दशमी
। प्रपन्नपारिजातः सम्पूर्णः ॥
विश्वास-प्रस्तुतिः
श्रीमते वात्स्यवरदार्यमहागुरवे नमः
‘गुरवे वरदार्याय कुर्वीमहि नमस्क्रियाम् ।
यत्पदाम्भोजसेवा नः सूते वेदान्तसम्पदम् ॥”
मूलम्
श्रीमते वात्स्यवरदार्यमहागुरवे नमः
‘गुरवे वरदार्याय कुर्वीमहि नमस्क्रियाम् ।
यत्पदाम्भोजसेवा नः सूते वेदान्तसम्पदम् ॥"