०७ भागवतोपासना-पद्धतिः

English

CHAPTER VII. ON SERVING THE VIRTUOUS.

विश्वास-प्रस्तुतिः

श्रुतार्थ-संशयोच्छित्यै
बोधनाय परस्-परम् ।
साधवस् त्व् अभिगन्तव्याः
सन्तः सङ्गस्य भेषजम् ॥ १ ॥

English
  1. For the removal of doubt in what we have learnt and for mutual enlightenment, sages (sadhus) should be sought; for, the virtuous are the cure of attachment.
मूलम्

श्रुतार्थसंशयोच्छित्यै बोधनाय परस्परम् ।
साधवस्त्वभिगन्तव्याः सन्तः सङ्गस्य भेषजम् ॥ १ ॥

विश्वास-प्रस्तुतिः

यथाह भगवान् व्यासो
विषय-त्याग-भेषजम्-

‘सङ्गः सर्वात्मना त्याज्यः
स चेत् त्यक्तुं न शक्यते ॥ साधवस् त्व् अभिगन्तव्याः
सन्तः सङ्गस्य भेषजम् ।

English
  1. Bhagavan Vyasa (illustrious) says regarding the remedy for the renunciation of sense-objects as follows:- “By all means attachment is to be given up. If it is not possible to give up, sadhus should be sought after; for, the virtuous are the cure of attachment.
मूलम्

यथाह भगवान् व्यासो विषयत्यागभेषजम्-
‘सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते ॥ साधवस्त्वभिगन्तव्याः सन्तः सङ्गस्य भेषजम् ।

विश्वास-प्रस्तुतिः

विचिकित्सा यदा तु स्याद्
आत्मनः कर्म-वृत्तयोः ।
तत्र सम्मर्शिनो युक्ताः
ये विप्राः सत्पथे स्थिताः ।
तेषां समीपं विनयाद्
उपेत्यार्थं तु शिक्षयेत्

English

3-4. Whenever a doubt arises as regards one’s own conduct and action, approaching with humility such sages (vipras) as have well deliberated, and are perfect and steady in the path of virtue, one shall learn the solution. Whatever course of conduct they pursue in the particular case in view that course a virtuous man shall (in his case) adopt.

मूलम्

साधवस्त्वभिगन्तव्याः सन्तः सङ्गस्य भेषजम् ।
विचिकित्सा यदा तु स्यादात्मनः कर्मवृत्तयोः ।
तत्र सम्मर्शिनो युक्ताः ये विप्राः सत्पथे स्थिताः ।
तेषां समीपं विनयात् उपेत्यार्थं तु शिक्षयेत् ॥

विश्वास-प्रस्तुतिः

[यदि नाम ततः शिक्षां
तत्र लब्धुं न शक्नुयात् । ?]
यथा ते तत्र वर्तेरन्
तथा वर्तेत सात्त्विकः ॥ ५ ॥

मूलम्

[यदि नाम ततः शिक्षां तत्र लब्धुं न शक्नुयात् । ?]
यथा ते तत्र वर्तेरन् तथा वर्तेत सात्त्विकः ॥ ५ ॥

विश्वास-प्रस्तुतिः

अभिगन्तव्याः सन्तो
यद्य् अपि कुर्वन्ति नैकम् उपदेशम् ।
यास् तेषां स्वैर-कथाः
ता एव भवन्ति शास्त्राणि ॥ ६ ॥+++(5)+++

English
  1. Sages aught to be sought even though they do not give a single instruction. For, even what they spontaneously talk become Sastras.
मूलम्

अभिगन्तव्याः सन्तो यद्यपि कुर्वन्ति नैकमुपदेशम् ।
यास्तेषां स्वैरकथाः ता एव भवन्ति शास्त्राणि ॥ ६ ॥

विश्वास-प्रस्तुतिः

शौनकस् तु यथा प्राह
साधूनां दर्शने फलम् -

“ सुदूरम् अपि गन्तव्यं
यत्र भागवताः (तः) स्थिताः (तः) ।
प्रयत्नेनापि ****द्रष्टव्याः
तत्र सन्निहितो हरिः।"+++(5)+++

English

6-7. Saunaka says about the visiting of sadhus by virtuous men as follows:- “The place where a holy man (bhagavata) lives, even though it be a long way off, should be resorted to and the holy man seen even though with exertion, for, therein lives Hari (God).”

मूलम्

शौनकस्तु यथा प्राह साधूनां दर्शने फलम् -
“ सुदूरमपि गन्तव्यं यत्र भागवताः (तः) स्थिताः (तः) ।
प्रयत्नेनापि द्रष्टव्याः (न्यः) तत्र सन्निहितो हरिः।”

विश्वास-प्रस्तुतिः

इमम् एवार्थम् आह स्म
नारदः शौनकाय वै–

“पापावसानम् इच्छद्भिः
नित्यं विष्णु-परायणैः ।
सुदूरम् अपि गत्वा
द्रष्टव्या लोक-पावनाः ॥ ९ ॥+++(5)+++

मूलम्

इममेवार्थमाह स्म नारदः शौनकाय वै–
“पापावसानमिच्छद्भिः नित्यं विष्णुपरायणैः ।
सुदूरमपि गत्वा च द्रष्टव्या लोकपावनाः ॥ ९ ॥

विश्वास-प्रस्तुतिः

साधूनां दर्शनं पुण्यं
तीर्थ-भूता हि साधवः ।
कालेन फलते तीर्थं
सद्यः साधु-समागमः" ॥१०॥ (वि.ध।) +++(5)+++

English

“Visiting the sadhus is a meritorious act; for, are not the sadhus sacred? A holy object yields fruits in course of time but the intercourse with sadhus forthwith.”

मूलम्

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
कालेन फलते तीर्थं सद्यः साधुसमागमः" ॥१०॥ (वि.ध।)

विश्वास-प्रस्तुतिः

शुकोऽपि भगवान् आह
सतां तु गुण-कीर्तनम् ।
चिर-कालार्जितस्यैतत्
श्रुतस्यैव फलं यथा—–

English
  1. Bhagavan Suka says that praising the qualities of [[295]] the virtuous is, as it were, the fruit of knowledge long acquired, in the following terms.
मूलम्

शुकोऽपि भगवानाह " सतां तु गुणकीर्तनम् ।
चिरकालार्जितस्यैतत् श्रुतस्यैव फलं यथा—–

विश्वास-प्रस्तुतिः

श्रुतस्य पुंसां सुचिर-श्रमस्य
नन्व् अञ्जसा सूरिभिर् ईरितो ऽर्थः ।
यत् तद्-गुणानुस्मरणं मुकुन्द-
पादारविन्दं हृदयेषु येषाम्॥ (श्रीभाग)

English
  1. The No fruit has directly been proclaimed by the sages to persons whose learning is one of long labour, therefore is (advised) the constant thinking of the qualities of those in whose heart is the lotus-feet of the lord (Makanda).’
मूलम्

श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीरितोऽर्थः ।
यत् तद्गुणानुस्मरणं मुकुन्दपादारविन्दं हृदयेषु येषाम्॥ (श्रीभाग)

विश्वास-प्रस्तुतिः

सद्भिर् गृहागताः सन्तः
पूजनीया विशेषतः ।
प्रिय-वाक्यैः तथाऽर् घ्याद्यैः
भोगैर् इष्टैर् यथोचितैः ॥ १३ ॥

English
  1. By the good, the sages that have come to their house aught to be specially worshipped with kind words, with offerings of water to the hand &c., and with agreeable food in a fit way.
मूलम्

सद्भिर्गृहागताः सन्तः पूजनीया विशेषतः ।
प्रियवाक्यैः तथाऽर्घ्याद्यैः भोगैरिष्टैर्यथोचितैः ॥ १३ ॥

विश्वास-प्रस्तुतिः

“न कांस्ये धावयेत् पादाव्” (मनु)
इति स्मृत्या ऽन्यभाजने ।
मृण्मयादौ क्षालयेत
यथाह भगवान् शुकः-

English
  1. “One shall not wash the feet (of a guest) in a vessel made of bell-metal, is the injunction of the Smritis. Therefore in other vessels like the mud ones, shall one wash. And Bhagavan Suka says as follows:-
मूलम्

“ न कांस्ये/ नाकांस्ये धावयेत् पादौ” (मनु) इति स्मृत्याऽन्यभाजने ।
मृण्मयादौ क्षालयेत यथाह भगवान् शुकः-

विश्वास-प्रस्तुतिः

“’व्यालालय-द्रुमा ह्य् एते
ऽप्य् अ-रिक्ताखिल-सम्पदः ।
ये गृहास् तीर्थ-पादीय-
पाद-तीर्थ-(पादोदक)-विवर्जिताः ॥ १५ ॥

विषयः

पाद-तीर्थम्

English
  1. “Those houses that are destitute of holy water from the feet of spiritually great men, even though these be not devoid of all sorts of riches, are verily the trees (sandal) which are the abode of serpents.
मूलम्

“ ‘व्यालालयद्रुमा ह्येते ऽप्यरिक्ताखिलसम्पदः ।
ये गृहास्तीर्थपादीयपादतीर्थ(पादोदक)विवर्जिताः ॥ १५ ॥

विश्वास-प्रस्तुतिः

सर्वेषाम् एव पापानां
प्रायश्-चित्तं मनीषिभिः ।
निर्णीतं भगवद्-भक्त-
पादोदक-निषेवणम् ॥ १६ ॥

विषयः

पाद-तीर्थम्

English
  1. “The adoration of the holy-water from the feet of the devotees of God, is determined by the wise to be the atonement for all sins.
मूलम्

सर्वेषामेव पापानां प्रायश्चित्तं मनीषिभिः ।
निर्णीतं भगवद्भक्तपादोदकनिषेवणम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

तत्-तीर्थं शिरसा धार्यं
तथाङ्गैश् चक्षुर्-आदिभिः ।
पेयम् अन्तर्, यथा सोमे
तत्र नाचमन-क्रिया

विषयः

पाद-तीर्थम्

English
  1. “This water is to be received on the head, as well as on the limbs and eyes and other members of the head. It is to be taken in the same way as the soma Juice where there is not the religious ceremony of sipping (ochamana).
मूलम्

तत्तीर्थं शिरसा धार्यं तथाङ्गैश्चक्षुरादिभिः ।
पेयमन्तर्यथा सोमे तत्र नाचमनक्रिया ॥

विश्वास-प्रस्तुतिः

“पीते पादोदके (पिबेत् पादोदकं) विष्णोः
वैष्णवानां विशेषतः ।
तत्र नाचमनं कुर्यात्
यथा सोमे द्विजोत्तमः ॥” (व. पु. 45)

English
  1. “O holiest of the twice-born! if the water of the feet of Vishnu as well as of the bhaktas of Vishnu be drunk no ceremony of sipping should be practised as (is done) in the case of the soma-Juice.”
मूलम्

“ पीते पादोदके (पिबेत् पादोदकं) विष्णोः वैष्णवानां विशेषतः ।
तत्र नाचमनं कुर्यात् यथा सोमे द्विजोत्तमः ॥” (व. पु. 45)

विश्वास-प्रस्तुतिः

नारदस्यातिथेः पादौ
सर्वासां +++(गोपीनां)+++ मन्दिरे स्वयम् ।
कृष्णः प्रक्षाल्य पाणिभ्यां
पपौ पादोदकं मुनेः ॥ १९ ॥

विषयः

पाद-तीर्थम्

English
  1. Lord Krishna washing with his own hands the feet of the guest, Narada, in the houses of all his beloved (Gopis), drank the holy water of the feet of that sage.
मूलम्

नारदस्या तिथेः पादौ सर्वासां मन्दिरे स्वयम् ।
कृष्णः प्रक्षाल्य पाणिभ्यां पपौ पादोदकं मुनेः ॥ १९ ॥

विश्वास-प्रस्तुतिः

भोगैर् इष्टैश् च शास्त्रीयैः
तोषयेद् वैष्णवान् गृहे ।
+++(??→)+++त्रि-विध-ज्ञान-पूर्वं तु
शेषत्व-ज्ञान-वृद्धये ॥ २० ॥

English

[[296]] 18. For the promotion of the knowledge of one’s subserviency to God (Seshatva), in one’s house one shall, attended with the consciousness of their tripleness* (prapya; object of attainment; prapaka: the means, and Seshi: appropriator), gratify the Vaishnavas with repasts which are to their liking and are in consonance with the Sastras.

  • Trividha-Tyaga is another variant of Trividha-jnana. In that case the meaning is preceded by the threefold renunciation’, of Phala-sanga-kartri (fruits of action, attachment and the claiming of agency.)
मूलम्

भोगैरिष्टैश्च शास्त्रीयैः तोषयेद्वैष्णवान् गृहे ।
त्रिविधज्ञान (त्याग) पूर्वं तु शेषत्वज्ञानवृद्धये ॥ २० ॥

विश्वास-प्रस्तुतिः

भुक्तवत्सु तथा तेषु
शेषं भुञ्जीत सात्त्विकः ।
यद्-उच्छिष्टाशिनस् सन्तो
मुच्यन्ते सर्व-किल्बिषैः ॥

English
  1. After they have finished eating a truly pious man should eat the remnant. For those virtuous men who eat the leavings are liberated from all sins.
मूलम्

भुक्तवत्सु तथा तेषु शेषं भुञ्जीत सात्त्विकः ।
यदुच्छि (यज्ञशि) ष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥

विश्वास-प्रस्तुतिः

‘ते त्व् अघं भुञ्जते पापाः
ये पचन्त्य् आत्म-कारणात् ।’

मूलम्

‘ते त्वघं भुञ्जते पापाः ये पचन्त्यात्मकारणात् ।’

विश्वास-प्रस्तुतिः

तैश् +++(सद्भिः)+++ च सम्भाषणादीनि
भगवान् शास्त्र उक्तवान् -

English
  1. The conversation and such other intercourses with them, the Lord has mentioned in the Pancharatra-Sastra :-
मूलम्

तैश्च सम्भाषणादीनि भगवान् शास्त्र उक्तवान् -

विश्वास-प्रस्तुतिः

(त्रिषु वर्णेषु सञ्जातो
मामेव शरणं गतः ।)
नित्य-नैमितिक-परो …. …. ॥)

मूलम्

(त्रिषु वर्णेषु सञ्जातो मामेव शरणं गतः ।) नित्यनैमितिकपरो …. …. ॥)

विश्वास-प्रस्तुतिः

" वेद-शास्त्र-रथारूढाः
ज्ञान-खड्ग-धरा द्विजाः ।
कीडार्थम् अपि यद् ब्रूयुः
धर्मः परमो मतः”

English

“What the twice-born, who ride the charioty of the Vedas and wield the sword of knowledge, shall utter even in sport that is considered as the highest ethics (dharma).”

मूलम्

" वेदशास्त्ररथारूढाः ज्ञानखड्गधरा द्विजाः ।
कीडार्थमपि यद्ब्रूयुः स धर्मः परमो मतः”

विश्वास-प्रस्तुतिः

वासुदेव प्रपन्नानां
यान्य् एव चरितान्य् अपि ।
तान्य् एव धर्म-शास्त्राणीत्य्
एवं वेदविदो विदुः ॥ २४ ॥

English
  1. “The Vedic scholars know those alone to be dharma-Sastra (codes of law) that are the practices of men who have taken refuge with Vasudeva.”
मूलम्

वासुदेव प्रपन्नानां यान्येव चरितान्यपि ।
तान्येव धर्मशास्त्राणीत्येवं वेदविदो विदुः ॥ २४ ॥

विश्वास-प्रस्तुतिः

वीक्षणाद् एव शुद्ध्यन्ति
वैष्णवानां हि मानवाः ।
तथा तीर्थैश् शुध्यन्ति
शौनकस् तु यथोक्तवान्-

English
  1. Men are rendered pure by the mere sight of the Vaishnavas, but not so much by holy places. Sounaka says as follows:
मूलम्

वीक्षणादेव शुद्ध्यन्ति वैष्णवानां हि मानवाः ।
तथा न तीर्थैश्शुध्यन्ति शौनकस्तु यथोक्तवान्-

विश्वास-प्रस्तुतिः

“ न शुध्यति तथा जन्तुस्
तीर्थ-वारि-शतैर् अपि । (वि. ध ?)
लीलयैव यथा भूप !
वैष्णवानां हि वीक्षणैः ॥”

English
  1. “O King! a being is not made so holy even by thousands of holy waters as by the mere look of Vaishnavas cast as if in sport.
मूलम्

“ न शुध्यति तथा जन्तुः तीर्थवारिशतैरपि । (वि. ध ?)
लीलयैव यथा भूप ! वैष्णवानां हि वीक्षणैः ॥”

विश्वास-प्रस्तुतिः

“वरं हुत-वह-ज्वाला-
पञ्जरान्तर् व्यवस्थितिः ।
न शौरि-चिन्ता-विमुख-
जन-संवास-वैशसम्+++(=दुःखम्)+++ ॥” (वि. ध.)

English
  1. Residing within a cage of the flames of fire is Commendable and not the torment of association with men who are averse to the thought of Souri (God).
मूलम्

" वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः ।
न शौरिचिन्ताविमुखजनसंवासवैशसम् ॥” (वि. ध.)

विश्वास-प्रस्तुतिः

“ये तु भागवतान् अङ्गैः
स्पृशन्त्य् उपविशन्ति च ।
पश्यन्त्य् अपि च शृण्वन्ति
दासस् तेषां महामुने ! ॥”

English
  1. Great sage! I am the slave of those that touch the Bhagavatas (the godly) with their limbs, even sit near (them), see (them) even, and hear (them).
मूलम्

" ये तु भागवतान् अङ्गैः स्पृशन्त्युपविशन्ति च ।
पश्यन्त्यपि च शृण्वन्ति दासस्तेषां महामुने ! ॥”

विश्वास-प्रस्तुतिः

" सद्भिर् एव सहासीत
सद्भिः कुर्वीत सङ्गमम्
सद्भिर् विवादं मैत्री च
नासद्भिः किञ्चिद् आचरेत् ” (वि. ध. 2-8)

English
  1. With the good alone one should live, with the good one should associate, also with the good quarrel and make friendship; but with the wicked nothing whatever shall one have to do. [[297]]
मूलम्

" सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गमम् ।
सद्भिर्विवादं मैत्री च नासद्भिः किञ्चिदाचरेत् ” (वि. ध. 2-8)

विश्वास-प्रस्तुतिः

यथा पतित्वा सन्-मध्ये
ययातिः पुनर् आप्तवान्
स्व-पदं तत् तथा सत्सु
पतितो न विमुह्यति ॥ ३० ॥

English
  1. As Yayate having fallen among the good regained his own position from there, even so one falling among the good does not get embarassed.

The allusion is to the story of the Mahabharata. When Yayati the celebrated king of the lunar race, the son of Nahusha, was reaping the fruits of his merit in the Svargaloka, blinded with pride he one day used vile language towards the sages, which destroyed his punya and led his fall through a curse from Indra. But by the favour of the king of gods he fell among the sages called ashtakas and by their grace regained his lost position.

[[298]]

मूलम्

यथा पतित्वा सन्मध्ये ययातिः पुनराप्तवान् ।
स्वपदं तत् तथा सत्सु पतितो न विमुह्यति ॥ ३० ॥

इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते सदुपासनपद्धतिः सप्तमी