English
PRAPANNA PARIJATA. CHAPTER V. ON THE SERVING OF GOD. (Continued from page 101)
विश्वास-प्रस्तुतिः
एवं गुरु-प्रसादेन
शेषत्व-ज्ञान-पूर्वकम् ।
देवतान्तरवन् नित्यं
शब्दादीन् +++(इन्द्रियार्थान्)+++ अपि कुत्सयन् ॥
विष्णु-प्राप्ति-फलाकाङ्क्षी
भक्त्य्-उपायो हि (ऽपि?) वैष्णवः ।
English
- Thus by the grace of the Guru attended with the knowledge of one’s subserviency to God (Seshatva),* ever despising sound and other objects of the senses, even as other deities than God, he who, desirous of the fruit of attaining Vishnu, has bhakti for his means, is a Vaishnavat (follower of Vishnu).
Sesha: One whose nature is solely towards the attribution of another’s supremacy, is the Sesha of that other and is subservient to his purposes. Seshi is one who holds everything at his own disposal and appropriates it for his own purposes. According to the Visishthadvaita system the relation between the ruler and the ruled, the Isvara and the jiva is Sesha-seshi-bhavaand it is eternal.
मूलम्
एवं गुरुप्रसादेन शेषत्वज्ञानपूर्वकम् ।
देवतान्तरवन्नित्यं शब्दादीनपि कुत्सयन् ॥
विष्णुप्राप्तिफलाकाङ्क्षी भक्त्युपायो हि (ऽपि?) वैष्णवः ।
विश्वास-प्रस्तुतिः
एकान्ती तु विनिश्चित्य
देवता-विषयान्तरैः ॥ २॥
भक्त्य्-उपायं समं +++(व्यर्थम् इति)+++, कृष्ण-
प्राप्तौ कृष्णैक-साधनः ।
English
- Having concluded that the means of bhakti is useless
equally with the worship of other deities than God, and of the physical objects of enjoyment, he who adopts Krishna (the supreme spirit) as the sole means for the attainment of Krishna, is an ekānti (i, e, one whose mind is devoted to one object).
- According to the Vaishnava theology a Prapanna is of two kinds; the ekanti or one who is devoted to one object and the Parmekanti, the supreme ekanti.
मूलम्
एकान्ती तु विनिश्चित्य देवताविषयान्तरैः ॥ २॥
भक्त्युपायं समं कृष्णप्राप्तौ कृष्णैकसाधनः ।
देवतान्तरशब्दादिभक्तिकृष्णाख्यहेतुषु ।
विश्वास-प्रस्तुतिः
देवतान्तर-शब्दादि-
भक्ति-कृष्णाख्य+++(→प्रपत्ति)+++-हेतुषु ।
साम्यकृत्, परमैकान्ती
हरौ स्वामीति बुद्धिमान् ।
English
- He is a Paramekanti (the supreme ekanti) who [[135]] holds that the several means (for moksha), the deities other than God, the objects of the senses, bhakti and prapatti known as Krishna (having Krishna as the means and end) are all equal and has also the notion of the lord and the appropriator in Hari.
▲ Paramekanti is again of two kinds: the arta, or the afflicted, and the Dripta, or the proud or contented.
मूलम्
भक्त्युपायं समं कृष्णप्राप्तौ कृष्णैकसाधनः ।
देवतान्तरशब्दादिभक्तिकृष्णाख्यहेतुषु ।
साम्यकृत् परमैकान्ती हरौ स्वामीति बुद्धिमान् ।
विश्वास-प्रस्तुतिः
“किं” कुर्वाणः सदाकालं
भगवत्-पादपद्मयोः ॥
शेषत्वम् आत्मनो जानन्
सार्थयन् कालम् आक्षिपेत् ।
English
- In knowing the subserviency of his self, and in always doing service to the lotus-feet of the lord, he shall, thus spend his time usefully.
मूलम्
किं कुर्वाणः सदाकालं भगवत्पादपद्मयोः ॥
शेषत्वमात्मनो जानन् सार्थयन् कालमाक्षिपेत् ।
विश्वास-प्रस्तुतिः
विज्ञाय मूल-मन्त्रार्थं
द्वयैकार्थतया गुरोः ॥
तद्-एक-शरणो भूत्वा
हरिं तेन समर्चयेत् ।
English
- Learning from the guru the meaning of the basic mantra (Nārāyanāya) as being of the same import as doava and having God as his sole refuge, he shall worship Hari with that (mantra).
मूलम्
विज्ञाय मूलमन्त्रार्थं द्वयैकार्थतया गुरोः ॥ तदेकशरणो भूत्वा हरिं तेन समर्चयेत् ।
विश्वास-प्रस्तुतिः
“त्रैकाल्यम् अर्चनं कुर्यात्
मूलमन्त्रेण श(भ)क्तितः ॥ ६ ॥
English
6.-7. In accordance with his ability he shall worship God with the basic mantra daily three times.
मूलम्
“त्रैकाल्यमर्चनं कुर्यात् मूलमन्त्रेण श(भ)क्तितः ॥ ६ ॥
विश्वास-प्रस्तुतिः
सर्व-वेदान्त-सारार्थः
संसारार्णव-तारणः ।
मन्त्राणां परमो मन्त्रो
गुह्यानां गुह्यम् उत्तमम् ॥
पवित्राणां पवित्रं च
मूलमन्त्रः सनातनः ।
English
This basic mantra is the essence of the teaching of the whole Vedanta. It enables one to cross the ocean of samsara. Of all the mantras it is the highest mantra; of all the secrets it s the best secret; it is the purest of the pure and is eternal.
मूलम्
सर्ववेदान्तसारार्थः संसारार्णवतारणः ।
मन्त्राणां परमो मन्त्रो गुह्यानां गुह्यमुत्तमम् ॥
पवित्राणां पवित्रं च मूलमन्त्रः सनातनः ।
विश्वास-प्रस्तुतिः
मुमुक्षूणां सदा जप्यं
भुक्ति-मुक्ति-फल-प्रदम् ॥
वैष्णवानां सदा जप्यं
भक्ति-ज्ञान-विवर्धनम् ।
English
- By those that are desirous of freedom it is worthy of silent utterance at all times as giving the fruits of worldly enjoyment (bhukti) and freedon (mukti). By the Vaishnavas it is worthy of uttarance as fostering knowledge and love (Jnāna and bhakti).
मूलम्
मुमुक्षूणां सदा जप्यं भुक्तिमुक्तिफलप्रदम् ॥
वैष्णवानां सदा जप्यं भक्तिज्ञानविवर्धनम् ।
विश्वास-प्रस्तुतिः
मन्त्राणाम् आश्रयं दिव्यं
सर्व-पाप-प्रणाशनम् ॥
समाहित-मना भूत्वा
जपं कुर्याद् अतन्द्रितः” ।
English
- It is the divine source of all the mantras, and is capable of destroying all sins. Becoming calm and collected one shall diligently utter it.
मूलम्
मन्त्राणामाश्रयं दिव्यं सर्वपापप्रणाशनम् ॥
समाहितमना भूत्वा जपं कुर्यादतन्द्रितः” ।
विश्वास-प्रस्तुतिः
इत्थं गजाननादीनां
श्रीमत्-सेनेश-शासनात् ॥
अनेन वैष्णवः कुर्यात्
हरेर् अर्चादिकं सदा ।
द्वयेन वार्चनं कुर्यात्
गुरु-वन्दन-पूर्वकम् ॥ ११ ॥
English
10.-11. As there is thus the injunction of the commander of the hosts (Senesa) to Gajanana (the elephantfaced God) and other hosts, either with this mantra shall a Vaishnava always conduct the worship &c. of Hari, or with the mantra dvaya shall he perform it preceded by salutation to his guru.
मूलम्
इत्थं गजाननादीनां श्रीमत्सेनेशशासनात् ॥
अनेन वैष्णवः कुर्यात् हरेरर्चादिकं सदा ।
द्वयेन वार्चनं कुर्यात् गुरुवन्दनपूर्वकम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
कृत-लक्षण एवायम्
अर्चयेद् वैष्णवो हरिम् ।
व्यासस् तु भगवान् आह
“वर्णैस् तु कृत-लक्षणैः ॥
अर्चनीयश् च सेव्यश् च
पूजनीयश् च माधवः ।”
English
- Only after having put on the marks of a Vaishnava shall a Vaishnava worship Hari. The sage Vyāsa [[156]] says that only (by those of) the castes who have got the marks on should Mādhava (God) be worshipped, served and adored.
मूलम्
कृतलक्षण एवायम् अर्चयेद्वैष्णवो हरिम् ।
व्यासस्तु भगवानाह “वर्णैस्तु कृतलक्षणैः ॥
अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ।”
विश्वास-प्रस्तुतिः
लक्षणं द्विविधं प्रोक्तं
बाह्यम् आभ्यन्तरं तथा ॥ १३ ॥
शङ्ख-चक्रादिकं बाह्यम्
अन्यद् रागाद्य्-अपेतता ।
English
- These marks are said to be of two kinds: external and internal. The marks like those of the conch, the disc &c., are external, and the absence of desire and other passions is the other.
मूलम्
लक्षणं द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ॥ १३ ॥
शङ्खचक्रादिकं बाह्यम् अन्यद्रागाद्यपेतता ।
विश्वास-प्रस्तुतिः
तथा च सर्वोपनिषत्-
सिद्धं चक्रादि-धारणम् ॥
अथर्वोपनिषद् व्यक्तं
विदधाति विपश्चिताम् ।
English
- So also has the Atharvopanishad clearly and specially prescribed the wearing of the disc-mark &c., to the discerning which (in general) is (also.) established in all the Upanishads.
मूलम्
तथा च सर्वोपनिषत्सिद्धं चक्रादिधारणम् ॥
अथर्वोपनिषद्व्यक्तं विदधाति विपश्चिताम् ।
विश्वास-प्रस्तुतिः
“दक्षिणे तु भुजे विप्रो
बिभृयाद् वै सुदर्शनम् ॥ १५ ॥
सव्ये तु शङ्खं बिभृयाद्
इति ब्रह्म(वेद)विदो विदुः ।”
English
- Seers of Brahman know that a Vipra shall bear on his right arm the mark of the disc and on his left that of the conch.
मूलम्
" दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ॥ १५ ॥
सव्ये तु शङ्खं बिभृयाद् इति ब्रह्म(वेद)विदो विदुः ।"
विश्वास-प्रस्तुतिः
तत्र (अत्र) श्रुतित्व-सन्देहे,
+++(अस्मत्-समाधानम् -)+++ खिल-मन्त्रोऽपि तत्-समः ॥
“+++(तत्र)+++ महत्-परिग्रहान् नास्ति
सन्देह” इति चेत्- +++(अत्रापि)+++ समम् ।
English
16.-17. If the authorities above mentioned are to be doubted as being Vedic, we say that, even the whole lot of mantras are equally to be so. If On account of their acceptance by great men as being Vedic, there is doubted no doubt (on that score).
मूलम्
तत्र (अत्र) श्रुतित्वसन्देहे खिलमन्त्रोऽपि तत्समः ॥
महत्परिग्रहान्नास्ति सन्देह इति चेत् समम् ।
विश्वास-प्रस्तुतिः
तथा पुराणम् आग्नेयं
क्रोशत्य् उद्बाहु चाप्य् उत(?) ।
“पञ्चायुधानि धार्याणि
भक्ति-श्रद्धोपबृंहितैः ।
ललाटे मूर्ध्नि हृद्-बाह्वोः
एकत्रैकं पृथक् पृथक् ॥
English
(If doubt arises again) the Pādma and Agneya-Puranas with raised hands do, indeed, proclaim aloud their authoritativeness. 18. By those that are advanced in love and faith (bhakti and Sraddha) the five weapons (of God) are to be worn separately each on one place; on the forehead, on the head, on the chest and on the two arms.
मूलम्
महत्परिग्रहान्नास्ति सन्देह इति चेत्-समम् ।
तथा पुराणमाग्नेयं क्रोशत्युद्बाहु चाप्युत(?) ।
“पञ्चायुधानि धार्याणि भक्तिश्रद्धोपबृंहितैः ।
ललाटे मूर्ध्नि हृद्बाह्वोः एकत्रैकं पृथक् पृथक् ॥
विश्वास-प्रस्तुतिः
ललाटे तु गदा धार्या
मूर्ध्नि चापं ततः परम् ।
नन्दकं चैव हृन्-मध्ये
शङ्ख-चक्रे भुज-द्वये ॥ १९ ॥+++(5)+++
English
- On the forehead the mace is to be worn; on the head the bow (Saranga), on the middle of the chest the sword (Nandaka), and on the two arms the conch and the disc.
मूलम्
ललाटे तु गदा धार्या मूर्ध्नि चापं ततः परम् ।
नन्दकं चैव हृन्मध्ये शङ्खचक्रे भुजद्वये ॥ १९ ॥
विश्वास-प्रस्तुतिः
लोहैर् अनल-सन्तप्तैस्
तत्-तन्-मन्त्राधिवासितैः ।
अङ्कयेत् ," वृद्ध-मनुर् अप्य्
एतद् आहा ऽऽदराद् यथा ॥
English
- With metallic models which have been heated in fire and over which their respective mantras have been pronounced, shall one be marked. Even Vriddha-Manu has said this with care.
मूलम्
लोहैरनलसन्तप्तैः तत्तन्मन्त्राधिवासितैः ।
अङ्कयेत् ," वृद्धमनुरप्येतदाहाऽऽदराद्यथा ॥
विश्वास-प्रस्तुतिः
“ऊर्ध्वपुण्ड्रं तथा चक्रं
नित्यं धारयते नरः ।
शुभानि तस्य वर्धन्ते
त्व् अशुभं तु प्रणश्यति” ॥ २१ ॥
English
- To that man who daily wears the vertical marks (ūrdhvapuudra) and the disc mark (chakra) good ever incréases and evil disappears. [[157]]
मूलम्
“ऊर्ध्वपुण्ड्रं तथा चक्रं नित्यं धारयते नरः ।
शुभानि तस्य वर्धन्ते त्वशुभं तु प्रणश्यति” ॥ २१ ॥
विश्वास-प्रस्तुतिः
काल उक्तो भगवता
शास्त्रे चक्रादि-धारणे ।
उत्तमः षोडशाद् अर्वाक्
पञ्चविंशात् तु मध्यमः ॥
अतः परं वै ह्यधम
इति काल-व्यवस्थितिः ।
English
22.-33. The time for wearing the disc and other marks has been mentioned by Bhagavan in the Pancharatra-sastra. Under sixteen years is the best time, till the fiftieth middling and after that bad. Such is the determination of time.
मूलम्
काल उक्तो भगवता शास्त्रे चक्रादिधारणे ।
उत्तमः षोडशादर्वाक् पञ्चविंशात् तु मध्यमः ॥
अतः परं वै ह्यधम इति कालव्यवस्थितिः ।
विश्वास-प्रस्तुतिः
विना तु वार्षिकान् मासान्
सर्वे मासाः शुभावहाः ॥ २३ ॥
English
All the months of the year excepting the winter ones (Varshika) are also auspicious.
मूलम्
अतः परं वै ह्यधम इति कालव्यवस्थितिः ।
विना तु वार्षिकान् मासान् सर्वे मासाः शुभावहाः ॥ २३ ॥
विश्वास-प्रस्तुतिः
स्थानं प्रमाणं द्रव्यं च
पाञ्चरात्रे विशेषतः ।
विहितं तत्-प्रकारेण
धारयेद् ऊर्ध्व-पुण्ड्रकम् ॥
English
In the Pancharatra are prescribed in extenso, the place, measurement, and the material of urdhvapundra. One shall wear it according to that (prescription.)
मूलम्
स्थानं प्रमाणं द्रव्यं च पाञ्चरात्रे विशेषतः ।
विहितं तत्प्रकारेण धारयेदूर्ध्वपुण्ड्रकम् ॥
विश्वास-प्रस्तुतिः
प्रशस्ते पर्वताग्रादौ
जातया श्वेत-मृत्स्नया ।
ऊर्ध्व-पुण्ड्रं द्विजैः कार्यं
वैष्णवैस् तु विशेषतः ॥ २५ ॥
English
- Then shall urdhvapundra be painted with white mud, produced on the top of a sacred mountain and such other holy places, especially by the Vaishnavas.
मूलम्
प्रशस्ते पर्वताग्रादौ जातया श्वेतमृत्स्नया ।
ऊर्ध्वपुण्ड्रं द्विजैः कार्यं वैष्णवैस्तु विशेषतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
विमलान्य् ऊर्ध्व-पुण्ड्राणि
सान्तरालानि यो नरः ।
करोति विमलं तेषु
मन्दिरं मे करोति सः ॥ २६ ॥
English
- He who wears a pure and white urdhvapundra with interspaces, builds Me with it a clean temple.
मूलम्
विमलान्यूर्ध्वपुण्ड्राणि सान्तरालानि यो नरः ।
करोति विमलं तेषु मन्दिरं मे करोति सः ॥ २६ ॥
विश्वास-प्रस्तुतिः
रागाद्य्-अपेतं हृदयं,
वाग् अ-दुष्टा ऽनृतादिना ।
हिंसादि-रहितः कायः,
केशवाराधनं त्रयम् ॥+++(4)+++
English
- A heart untouched by desire and other passions, a speech unsullied by lies and other faults, a body unimpairel by torture and other injuries, these are the three kinds of worship in relation to Kesava (God).
मूलम्
रागाद्यपेतं हृदयं वागदुष्टाऽनृतादिना ।
हिंसादिरहितः कायः केशवाराधनं त्रयम् ॥
विश्वास-प्रस्तुतिः
“अहिंसा प्रथमं पुष्पं
पुष्पम् इन्द्रिय-निग्रहः ।
सर्व-भूत-दया पुष्पं
क्षमा पुष्पं विशेषतः ॥
English
28-29. Non-injury, the first flower; control of the senses, another; kindness to all beings, a flower; forgiveness preeminently a flower;
मूलम्
“अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः ॥
विश्वास-प्रस्तुतिः
ज्ञानं पुष्पं, तपः पुष्पं
ध्यानं पुष्पं तथैव च ।
सत्यम् अष्टविधं पुष्पं
विष्णोः प्रीतिकरं भवेत् " ॥ २९ ॥
English
knowledge, a flower; austerities, a flower; meditation, again the seventh flower; and truth, (one more);-these eight kinds of flowers are dear to Vishnu (God).
मूलम्
ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च ।
सत्यमष्टविधं पुष्पं विष्णोः प्रीतिकरं भवेत् " ॥ २९ ॥
विश्वास-प्रस्तुतिः
एवम् आभ्यन्तरैर् बाह्यैः
चिह्नैर् भूषित-विग्रहः ।
स्नातस् तीर्थेषु विधिवत्
कृत-देवादि-तर्पणः ॥
English
30-32. Thus with body adorned with the marks, external and internal, having bathed in holy waters and offered libations of water to the Devas, the manes, and other deities as ordained in the săstras,
मूलम्
एवमाभ्यन्तरैर्बाह्यैः चिह्नैर्भूषितविग्रहः ।
स्नातस्तीर्थेषु विधिवत् कृतदेवादितर्पणः ॥
विश्वास-प्रस्तुतिः
अष्टोत्तरशतं जप्त्वा
मूल-मन्त्रम् अतन्द्रितः ।
सांस्पर्शिकं द्रव्य-जातं
तथैवा ऽऽभ्यवहारिकम् ॥
English
having diligently muttered hundred and eight times the basic mantra (mūlamantra) and making ready all the articles for sweet smearing, as also articles of food
मूलम्
अष्टोत्तरशतं जप्त्वा मूलमन्त्रमतन्द्रितः ।
सांस्पर्शिकं द्रव्यजातं तथैवाऽऽभ्यवहारिकम् ॥
विश्वास-प्रस्तुतिः
अप्य् औपचारिकं +++(सिद्धं)+++ कृत्वा
याग-भूमेर् अलङ्कृतिम् ।
यतीन्द्रोदित-नित्योक्त-
क्रमेणैव यजेद् +धरिम् ॥ ३२ ॥
English
and of divine service, and having finished the decoration of the yoga-bhumi (the place of worship) [[158]] one shall worship Hari in accordance with the routine t established by the prince of sannyasins (yatindra).
* yogabhumi: Literally means the place for meditation, hence the place of worship of any kind. The idea is that when a man sits for meditation or worship, he should on no account get distracted and leave his seat, but should remain comfortably seated till everything is finished,
- The reference here is to the Nitya-karma or daily liturgy of the Sri-Vaishnavas as arranged by Sri Ramanuja.
मूलम्
अप्यौपचारिकं कृत्वा यागभूमेरलङ्कृतिम् ।
यतीन्द्रोदितनित्योक्तक्रमेणैव यजेद्धरिम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
प्रदक्षिण-नमस्-कारैः
स्तोत्रैर् एकान्ति-सम्मतैः।
यथा भृत्यो महाराजं
प्रीणयेत् प्रेम-विह्वलः,
तथा ऽऽत्म-स्वामिनं देवं
प्रीणयेद् उपधिं विना।
English
- Just as a servant overcome with love pleases the king, his master, in the same way, shall one please the Lord of one’s self, God, free from subterfuge, by going round the object of worship, placing it always to the right (pradakshina), and by prostrations and praises approved of by the ekantis.
मूलम्
प्रदक्षिणनमस्कारैः स्तोत्रैरेकान्तिसम्मतैः।
यथा भृत्यो महाराजं प्रीणयेत् प्रेमविह्वलः,
तथाऽऽत्मस्वामिनं देवं प्रीणयेदुपधिं विना।
विश्वास-प्रस्तुतिः
महा-वराहो भगवान्
अगस्त्याय यद् उक्तवान्
भक्त्य्-अङ्ग-जातं तत् कुर्यात्
यथा-कालं समाहितः-
English
- The whole aggregate of the angas of bhakti, which Vishnu in the shape of the mighty Varaha has said to Agastya, shall one diligently practice, in due time.
मूलम्
महावराहो भगवान् अगस्त्याय यदुक्तवान्
भक्त्यङ्गजातं तत् कुर्यात् यथाकालं समाहितः-
विश्वास-प्रस्तुतिः
“ मद्-भक्त-जन-वात्सल्यं
पूजायां चानुमोदनम् । (गारु, पु. 219)
स्वयम् अभ्यर्चनं चैव
मद्-अर्थे दम्भ-वर्जनम् ।
मत्-कथा-श्रवणे भक्तिः
स्वर-नेत्राङ्ग-विक्रिया
ममानुस्मरणं नित्यं,
यच् च मां नोपजीवति +++(लौकिकलाभाय)+++
भक्तिर् अष्ट-विधा ह्य् एषा
यस्मिन् म्लेच्छेऽपि वर्तते ।
स विप्रेन्द्रो मुनिः श्रीमान्
स यतिः, स च पण्डितः ।
तस्मै देयं ततो ग्राह्यं,
स च पूज्यो यथा ह्य् अहम् ॥ ३८ ॥
English
35-37. “Affection for My devotees, rejoicing in their worships, worship by one’s self, avoidance of pomp in My affairs, devotion to the hearing of My deeds, agitation (or change in the expression) in the voice, eyes and limbs (when so hearing), constant remembering of Me daily, and the (consciousness of) the fact that one depends not on Me for any worldly advantage, these are the eight kinds of bhakti. Even in a mlechcha* (Barbarian) if this bhakti exists, he is to be taken as the holiest of Brahmins; he is the greatest of sages; he is a yati (one who has renounced the world and controlled the passions); and he is a savant (pandit); to him ought to be given (gifts) and from him ought it to be received; even as I am is he worthy of worship.”
Mlechcha: is from mlechch, to talk confusedly. i e. a barbarian or non-Aryan who does not conform to the Aryan institution and does not speak the Sanskrit language but speaks a barbarous tongue.
मूलम्
“ मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । (गारु, पु. 219)
स्वयमभ्यर्चनं चैव मदर्थे दम्भवर्जनम् ।
मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया
ममानुस्मरणं नित्यं यच्च मां नोपजीवति
भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते ।
स विप्रेन्द्रो मुनिः श्रीमान् स यतिः स च पण्डितः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
एवम् अर्चावतारं तु
यजेच् छौनक-वाक्यतः-,
“ सुरूपां प्रतिमां विष्णोः
प्रसन्न-वदनेक्षणाम् । (वि. ध. 103)
कृत्वा ऽऽत्मनः प्रीति-करीं
सुवर्ण-रजतादिभिः ।
English
[[159]] 38.-39. On the authority of Saunaka even the incarnation in images for the purpose of worship (archavatara) shall one worship. Having made with gold, silver or any other metals a beautiful image of Vishnu with gracious face and eyes which shall excite one’s own love, and
मूलम्
एवमर्चावतारं तु यजेच्छौनकवाक्यतः-,
“ सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । (वि. ध. 103)
कृत्वाऽऽत्मनः प्रीतिकरीं सुवर्णरजतादिभिः ।
विश्वास-प्रस्तुतिः
तस्यां ब्रह्म समारोप्य
मनसा तन्मयो भवेत् ।
ताम् अर्चयेत्, तां प्रणमेत्
तां यजेत् तां विचिन्तयेत् ।
विशत्य् अपास्त-दोषस् तु
ताम् एव ब्रह्म-रूपिणीम् ॥" (41)
English
embodying in it the Brahman, one shall become mentally absorbed in it. 40. It, one shall worship; it, one shall salute; it, one shall serve ; it, one shall contemplate; and casting away all impurities, it alone which is the image (visible) of Brahman, one enters.
मूलम्
तस्यां ब्रह्म समारोप्य मनसा तन्मयो भवेत् ।
तामर्चयेत् तां प्रणमेत् तां यजेत् तां विचिन्तयेत् ।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥" (41)
विश्वास-प्रस्तुतिः
न किञ्चिद् अप्य् (यत्किञ्चिदपि) अकुर्वाणो
विष्णोर् आयतने वसेत् ।
विष्ण्व्-आलये वसेन् नित्यं
कुर्यात् तत्-कर्म भक्तितः (शक्तितः) ।
यद् बलं (कर्म) मन्दिरं (रे ?) विष्णोः
यद् अलङ्कारकं प्रियम् ।
भोगोपयुक्तं वा किञ्चित्
कुर्यान् नोपाय-बुद्धितः ॥ ४३ ॥
English
- Doing even a mere trifle one shall live in a temple of Vishnu. Ever living in a temple of Vishnu one shall do the service of God as much as it lies in his power.
- What might be a mighty temple, or a dear ornament, or a suitable enjoyment to Vishnu, that shall not be meddled with even in the least with the idea of its being the means (to a desired end).
मूलम्
न किञ्चिदप्य (यत्किञ्चिदपि) कुर्वाणो विष्णोरायतने वसेत् ।
विष्ण्वालये वसेन्नित्यं कुर्यात्तत्कर्म भक्तितः (शक्तितः) ।
यद्बलं (कर्म) मन्दिरं (रे ?) विष्णोः यदलङ्कारकं प्रियम् ।
भोगोपयुक्तं वा किञ्चित् कुर्यान्नोपायबुद्धितः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
“यन् मुहूर्तं क्षणं वाऽपि
वासुदेवो न चिन्त्यते । (व. पु.)
सा हानिः तन् महच् छिद्रं
सा भ्रान्तिः सा च विक्रिया" ॥४४॥
English
- That hour or even moment when Vasudeva (God) is not thought of,—that itself is a loss; that is a huge opening to disaster; that is an aberration of the mind; that is a mental disorder.
मूलम्
“ यन्मुहूर्त क्षणं वाऽपि वासुदेवो न चिन्त्यते । (व. पु.)
सा हानिः तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया" ॥४४॥
विश्वास-प्रस्तुतिः
" एकस्मिन्न् अप्य् अतिक्रान्ते
मुहूर्ते ध्यान-वर्जिते ।
दस्युभिर् मुषितेनेव
युक्तम् आक्रन्दितुं भृशम् ” ॥ ४५ ॥
English
- If even a single hour were to be passed away without meditation (by any person) it is fit to be wept over very much as when he is robbed by a thief.
मूलम्
" एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते ।
दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् ” ॥ ४५ ॥
विश्वास-प्रस्तुतिः
“आलोड्य सर्व-शास्त्राणि
विचार्य च पुनः पुनः। (भा.अनु.185-178)
इदम् एकं सुनिष्पन्नं
ध्येयो नारायणः सदा” ॥ ४६ ॥
English
- Having churned (i. e. entered into) all the sastras and examined them again and again, we find this one ultimate clear conclusion viz., that Narayana ought to be ever meditated upon.
मूलम्
“आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः। (भा.अनु.185-178)
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा” ॥ ४६ ॥
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते भगवत्परिचर्यापद्धतिः पञ्चमी