०४ गुरूपासन-पद्धतिः

English

CHAPTER. IV. ON THE SERVING OF GURU.

विश्वास-प्रस्तुतिः

संसारोद्विग्न-मनसा
ताप-त्रितय-भीरुणा।
विरक्तेनेह चामुत्र
फले गम्यो गुरुर् महान् ॥ १ ॥

English
  1. A great guru ought to be resorted to by one whose mind is afflicted by samsara, who is afraid of the three miseries of life (adhyatmika pertaining to the sonl; adhibhoutiko pertaining to the external world; adhidaivika: pertaining to God) and who has renounced the fruits either of this world or of the world to come.
मूलम्

संसारोद्विग्नमनसा तापत्रितयभीरुणा।
विरक्तेनेह चामुत्र फले गम्यो गुरुर्महान् ॥ १ ॥

विश्वास-प्रस्तुतिः

परीक्ष्य लोकान् कर्माप्यान्
विप्रो निर्विण्णमानसः ।
कृतेन मोक्षो नास्तीति
तज्-ज्ञानार्थे गुरुं व्रजेत् ।

English
  1. Having examined the worlds won by karma, the sage (vipra) with a desponding mind knowing that there will be no moksha by action, for the fruit of knowledge (the knowing of Brahman) shall seek a guru spiritual preceptor).
मूलम्

परीक्ष्य लोकान् कर्माप्यान् विप्रो निर्विण्णमानसः ।
कृतेन मोक्षो नास्तीति तज्ज्ञानार्थे गुरुं व्रजेत् ।

विश्वास-प्रस्तुतिः

श्रोत्रियं ब्रह्मनिष्ठं तं
प्रीणयेद् वस्तुभिः प्रियैः ।
तस्मै प्रशान्त-चित्ताय
शिष्याय प्रणताय च
दद्याद् अष्टाक्षरं सत्यं
ब्रह्म नारायणं परम् ।
तां ब्रह्मविद्यां प्रवदेद्
इत्य् एवं श्रुतिराह हि ॥ ४ ॥

English

8-4. He should please the guru who is proficient in the Vedas and conversant with Brahman with articles that are dear to him. The guru should teach the disciple whose mind has become calm and who is submissive, that Brahmavidya (knowledge of Brakman) by which he might learn, the Changeless, the True, the Supreme Brahman, Narayana. This is verily the idea, the srutis teach.

मूलम्

श्रोत्रियं ब्रह्मनिष्ठं तं प्रीणयेद्वस्तुभिः प्रियैः ।
तस्मै प्रशान्तचित्ताय शिष्याय प्रणताय च
दद्यादष्टाक्षरं सत्यं ब्रह्म नारायणं परम् ।
तां ब्रह्मविद्यां प्रवदेदित्येवं श्रुतिराह हि ॥ ४ ॥

विश्वास-प्रस्तुतिः

गुरोश् शिष्यस्य विद्याया
लक्षणं कालम् एव च ।
सामान्यतो विशेषाच् च
भगवान् शास्त्र उक्तवान् ।

English
  1. Bhagavan has said in the Agama-Šastra both in general and in particular the nature of a guru, of a disciple, and of the knowledge (vidva), and of the time (of initiation).
मूलम्

गुरोश्शिष्यस्य विद्याया लक्षण कालमेव च ।
सामान्यतो विशेषाच्च भगवान् शास्त्र उक्तवान् ।

विश्वास-प्रस्तुतिः

“त्रिषु वर्णेषु सम्भूतो
माम् एव शरणं गतः । (सा. तं)
नित्य-नैमित्तिक-परो
मदीयाराधने रतः ॥
आत्मीय-परकीयेषु
समो देशिक उच्यते।+++(5)+++

English
  1. He is called a Desika (spiritual teacher) who is torn of (any of) the three castes, who, with Me alone has taken refuge, who is devoted to the observance of daily and occassional duties, who takes pleasure in serving those that are Mine and is the same towards both what is his and what is others?
मूलम्

“त्रिषु वर्णेषु सम्भूतो मामेव शरणं गतः । (सा. तं)
नित्यनैमित्तिकपरो मदीयाराधने रतः ॥ आत्मीयपरकीयेषु समो देशिक उच्यते।

विश्वास-प्रस्तुतिः

आस्तिको धर्मशीलश् च
शीलवान् वैष्णवार्चकः ॥
गम्भीरश् चतुरो धीरः
शिष्य इत्य् अभिधीयते।

English
  1. “He is called a disciple who is a believer in God [[98]] and the other world, who is righteous, good-natured, who is a worshipper of Vishnu and who is pure, deep, clever, bold and strong or determined.
मूलम्

आस्तिको धर्मशीलश्च शीलवान् वैष्णवार्चकः ॥
गम्भीरश्चतुरो धीरः शिष्य इत्यभिधीयते।

विश्वास-प्रस्तुतिः

नानुकूल्यं न नक्षत्रं
न तीर्थादि-निषेवणम् ॥ ८ ॥
न पुरश्-चरणं नित्यं
जपं वाऽपेक्षते ह्य् अयम् +++(द्वयमन्त्रः)+++ ।

English
  1. This mantra (dvava) needs no favourable circumstances (of time and place), no auspicious star, no worshipping of holy objects and the like, and no (contant) repetition or daily utterance.
मूलम्

नानुकूल्यं न नक्षत्रं न तीर्थादिनिषेवणम् ॥ ८ ॥
न पुरश्चरणं नित्यं जपं वाऽपेक्षते ह्ययम् ।

विश्वास-प्रस्तुतिः

नमस्कृत्य गुरून् दीर्धैः
प्रणामैस् त्रिभिर् आदृतः ॥
गृह्णीयान् मन्त्र-राजानं (राजं तं)
निधि-काङ्क्षीव निर्धनः ।

English

Saluting the guru with any of the full prostrations commencing with that of the three limbs of the body, the disciple shall receive the king of mantras, even like the penniless person who is eager to possess a treasure.

मूलम्

नमस्कृत्य गुरून् दीर्धैः प्रणामैस्त्रिभिरादृतः ॥
गृह्णीयात् मन्त्रराजानं (राजं तं) निधिकाङ्क्षीव निर्धनः ।

-
विश्वास-प्रस्तुतिः

परम्पराम् उपदिशेत्
गुरूणां प्रथमं गुरुः ॥
वाचयित्वा द्वयं साङ्गां
प्रपत्तिं मानसीं दिशेत् ॥

English
  1. The guru shall first teach him the lineage of gurus (guruparampara), and having made him pronounce the mantra, dvaya, with all its angas (limbs) shall teach him the mental form of Prapatti.
मूलम्

परम्परामुपदिशेत् गुरूणां प्रथमं गुरुः ॥
वाचयित्वा द्वयं साङ्गां प्रपत्तिं मानसीं दिशेत् ॥

विश्वास-प्रस्तुतिः

अनुकाङ्क्षन् सदा शिष्यं
गुरुर् औरस-पुत्रवत् ॥ ११ ॥ विद्वान् (विद्यां) समाहितो भूत्वा
ग्राहयेद् उपधिं विना ।

English
  1. Always loving the disciple as his own son, the guru becoming learned and collected shall teach him without any subterfuge (upadhi).
मूलम्

अनुकाङ्क्षन् सदा शिष्यं गुरुरौरसपुत्रवत् ॥ ११ ॥ विद्वान् (विद्यां) समाहितो भूत्वा ग्राहयेदुपधिं विना ।

विश्वास-प्रस्तुतिः

तथौपनिषदीं विद्यां
विश्वास-ज्ञान-वर्धिनीम् ॥ अन्याम् आध्यात्मिकीं विद्यां
शिष्यावस्थानुरूप्यतः ।
तस्मै प्रशान्तचित्ताय
कृपया निस्पृहो वदेत् ॥ १३ ॥

English

12.-13. “So also shall he, with compassion and without the hope of reward, teach the disciple who is unruffled in mind, the knowledge of the Upanishads which forster bhakti (viśvāsa) and knowledge (jana) and other knowledge of the self suitable to the condition of the disciple.

मूलम्

तथौपनिषदीं विद्यां विश्वासज्ञानवर्धिनीम् ॥ अन्यामाध्यात्मिकीं विद्यां शिष्यावस्थानुरूप्यतः ।
तस्मै प्रशान्तचित्ताय कृपया निस्पृहो वदेत् ॥ १३ ॥

विश्वास-प्रस्तुतिः

दत्त्वा तु दक्षिणां तस्मै
यथाशक्ति यथाविधि ।
तम् अर्चयेद् यथा-कालं
हितं (प्राध्वं) चास्य समाचरेत् " ॥ १४ ॥

English
  1. The disciple having delivered presents to the teacher as much as lies in his power and as is ordained by the Sastras, shall worship him at suitable times and dc what is beneficial to him
मूलम्

दत्त्वा तु दक्षिणां तस्मै यथाशक्ति यथाविधि ।
तमर्चयेद्यथाकालं हितं (प्राध्वं) चास्य समाचरेत् " ॥ १४ ॥

विश्वास-प्रस्तुतिः

गुरोर् वैभवम् आख्याति
जयाख्या(तथान्या ?)ऽपि च संहिता-
“गुरुर् एव परं ब्रह्म
गुरुर् एव परं धनम् ॥

English

15-16. Also the treatise known as jayasamhita proclaims the glory of guru as ollows: Guru alone is the Supreme Brahman; guru alone is the highest riches;

मूलम्

गुरोर्वैभवमाख्याति जयाख्या(तथान्या ?)ऽपि च संहिता-
“गुरुरेव परं ब्रह्म गुरुरेव परं धनम् ॥

विश्वास-प्रस्तुतिः

गुरुर् एव परा विद्या
गुरुर् एव परायणम् ।
गुरुरेव परः कामो
गुरुर् एव परा गतिः ॥

English

guru alone is the highest knowledge; gru alone is the highest object of devotion; guru alone is the highest desire; guru alone is the highest God.

मूलम्

गुरुरेव परा विद्या गुरुरेव परायणम् ।
गुरुरेव परः कामो गुरुरेव परा गतिः ॥

विश्वास-प्रस्तुतिः

यस्मात् तद्-उपदेष्टाऽसौ
तस्माद् गुरुतरो गुरुः ।
अर्चनीयश् च वन्द्यश् च
कीर्तनीयश् च सर्वदा ॥

English

“Because he is the teacher of Brahman, theretore he is [[99]] the highest of all teachers. He should always be worshipped, revered and praised.

मूलम्

यस्मात्तदुपदेष्टाऽसौ तस्माद् गुरुतरो गुरुः ।
अर्चनीयश्च वन्द्यश्च कीर्तनीयश्च सर्वदा ॥

विश्वास-प्रस्तुतिः

ध्यायेज् जपेन् नमेद् भक्त्या
भजेद् अभ्यर्चयेन् मुदा ।
उपायोपेय-भावेन
तम् एव शरणं व्रजेत्

English

“with love one shall meditate on him, internally repeat his name and bow to him in obeisance; with pleasure serve and worship him; with the thought that he is both the means and the end, take refuge with him solely.”

मूलम्

ध्यायेज्जपेन्नमेद्भक्त्या भजेदभ्यर्चयेन्मुदा ।
उपायोपेयभावेन तमेव शरणं व्रजेत् ॥

विश्वास-प्रस्तुतिः

इति सर्वेषु वेदेषु
सर्व-शास्त्रेषु सम्मतम्
एवं द्वयोपदेष्टारं
भावयेद् बुद्धिमान् धिया ॥

English

This is approved of by all the Vedas and by all the sastras. An intelligent man should think of the teacher of draya in this light.”

मूलम्

इति सर्वेषु वेदेषु सर्वशास्त्रेषु सम्मतम् ।
एवं द्वयोपदेष्टारं भावयेद् बुद्धिमान् धिया ॥

विश्वास-प्रस्तुतिः

शरीरं वसु विज्ञानं
वासः कर्म गुणान् असून् ।
गुर्व्-अर्थं धारयेत् यस्तु
स शिष्यो, नेतरः स्मृतः ॥ २० ॥

English
  1. He alone and none else is considered a disciple who for the sake of his guru shall bear his body, wealth, knowledge, clothes, actions, qualities and vital energies.
मूलम्

शरीरं वसु विज्ञानं वासः कर्म गुणानसून् ।
गुर्वर्थं धारयेत् यस्तु स शिष्यो नेतरः स्मृतः ॥ २० ॥

विश्वास-प्रस्तुतिः

नारायणोऽपि विकृतिं
याति गुरोः +++(सकाशात्)+++ प्रच्युतस्य दुर्-बुद्धेः ।
कमलं जलाद् अपेतं
शोषयति रविर् न तोषयति ॥ २१ ॥+++(4)+++

English
  1. With the evil minded who have swerved from duty to guru, even Narayana (God) gets displeased. (Even as) the lotus which is taken out of water the sun nourishes not but withers. "
मूलम्

नारायणोऽपि विकृतिं याति गुरोः प्रच्युतस्य दुर्बुद्धेः ।
कमलं जलादपेतं शोषयति रविर्न तोषयति ॥ २१ ॥

विश्वास-प्रस्तुतिः

यो विष्णोः प्रतिमाकारे
लोह-भावं करोति च ।
यो गुरौ मानुषं भावम्
उभौ नरक-पातिनौ ॥ २२ ॥

English
  1. He who harbours the notion of metal in the image-form of God and he who harbours the notion of man in his guru, both these fall into hell. 66
मूलम्

यो विष्णोः प्रतिमाकारे लोहभावं करोति च ।
यो गुरौ मानुषं भावम् उभौ नरकपातिनौ ॥ २२ ॥

विश्वास-प्रस्तुतिः

सामान्यतो विशेषाच्च
यस्मात् (यस्तु) धर्मान् सनातनान् ।
आचिनोति स आचार्यस्
तस्मै द्रुह्येन् न किञ्चन ॥ २३ ॥

English
  1. That person from whom one acquires generally and specially the ancient dharmas is the Acharya (spiritual preceptor). In nothing shall one deceive him.
मूलम्

सामान्यतो विशेषाच्च यस्मात् (यस्तु) धर्मान् सनातनान् ।
आचिनोति स आचार्यः तस्मै द्रुह्येन्न किञ्चन ॥ २३ ॥

विश्वास-प्रस्तुतिः

‘गु’-शब्दस् त्व् अन्ध-काराख्यो
‘रु’-शब्दस् तन्-निरोधकः ।
अन्ध-कार-निरोधित्वाद्
गुरुर् इत्य् अभिधीयते” ॥ २४ ॥

English
  1. “The syllable ga is indicative of darkness and ru the dispelling of it. By being the dispeller of darkness he is known as guru.”
मूलम्

‘गु’ शब्दस्त्वन्धकाराख्यो ‘रु’ शब्दस्तन्निरोधकः ।
अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते” ॥ २४ ॥

विश्वास-प्रस्तुतिः

मनुर् अप्य् आह भगवान्
‘वन्द्यो बालोऽपि मन्त्र-दः’ ।
ज्यैष्ठ्यं वेदार्थ-विज्ञानात्
विप्राणाम् इति चोदितम् ॥+++(5)+++

English
  1. The sage Manu also says that the giver of mantra should be worshiped even though he be a youth, and it is also laid down that among the Vipras seniority arises from the knowledge of the Vedanta.
मूलम्

मनुरप्याह भगवान् ‘वन्द्यो बालोऽपि मन्त्रदः’ ।
ज्यैष्ठ्यं वेदार्थविज्ञानात् विप्राणामिति चोदितम् ॥

विश्वास-प्रस्तुतिः

“अध्यापयाम् आस पितॄन्
शिशुर् आङ्गिरसः कविः ।
पुत्रका इति होवाच
ज्ञानेन परिगृह्य तान् ॥ (म. 2. 151)

English
  1. The child Sukracharya, the son of Angiras taught his fathers (the Vedic lore). Judging from knowledge he addressed them as ‘children.’
मूलम्

“अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ (म. 2. 151)

विश्वास-प्रस्तुतिः

ते तम् अर्थम् अपृच्छन्त
देवान् आगत-मन्यवः ।
देवाश् चैतान् समेत्योचुः,
न्याय्यं वश् शिशुर् उक्तवान्

English
  1. They getting angry asked the devas the meaning of it and the devas came and told them that their child had [[100]] told them what was just.
मूलम्

ते तमर्थमपृच्छन्त देवान् आगतमन्यवः ।
देवाश्चैतान् समेत्योचुः, न्याय्यं वश्शिशुरुक्तवान् ।

विश्वास-प्रस्तुतिः

बालोऽपि विप्रो वृद्धस्य
पिता भवति मन्त्र-दः ।
अज्ञं हि बालम् इत्य् आहुः
पितेत्य् एव च मन्त्र-दम् ॥

English
  1. Even though he be a child, a vipra has the privilege of age; and after giving mantra, he becomes a father. Only the ignorant person is called a child’ and the giver of mantra a ‘father.’
मूलम्

बालोऽपि विप्रो वृद्धस्य पिता भवति मन्त्रदः ।
अज्ञं हि बालमित्याहुः पितेत्येव च मन्त्रदम् ॥

विश्वास-प्रस्तुतिः

न हायनैर्, न पलितैर्,
न च वित्तैर् (न वित्तेन) न बन्धुभिः ।
ऋषयश् चक्रिरे धर्मं
यो ऽनूचानः स नो महान् ॥+++(5)+++

English
  1. Not by advanced years, nor by grey hairs, nor by wealth, nor by relations, the rishis have made the dharmas. He who has learned the Sastras from an unbroken line of teachers (anichana) is our guru.
मूलम्

न हायनैर्न पलितैः न च वित्तैः (न वित्तेन) न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥

विश्वास-प्रस्तुतिः

विप्राणां ज्ञानतो ज्यैष्ठ्यं
क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धनतो ज्यैष्ठ्यं
शुद्राणाम् एव जन्मतः " ॥ ३ ॥

English
  1. “Among the Vipras (Brahmins) the seniority is from knowledge, among the kshatriyas from volour, among the Vaisyas the seniority is from wealth and among the Sudras alone it is from birth.”
मूलम्

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धनतो ज्यैष्ठ्यं शुद्राणामेव जन्मतः " ॥ ३ ॥

विश्वास-प्रस्तुतिः

गुरोश् च गुरवः सर्वे
पूजनीया विशेषतः ।
गुरु-दार-सुतादौ तु
गुरु-वद् वृत्तिम् आचरेत् ॥ ३१ ॥

English
  1. All the gurus of the guru ought to be worshipped specially. Towards the wife, sons and other relations of a guru one shall adopt the same behaviour as towards the guru.
मूलम्

गुरोश्च गुरवः सर्वे पूजनीया विशेषतः ।
गुरुदारसुतादौ तु गुरुवद्वृत्तिमाचरेत् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

धर्म-व्यतिक्रमः (नियमातिक्रमः) स्याच् चेत्
गुरुर् बोध्यो रहस्य् अपि ।
पतनीयं गुरोः कर्म
यद्य् अशक्यम् अपमपोहितुम्
बोधनाद् दैव-भजनात्
सत्-सङ्ग-परिषेवणात्
सद्-गुरून् उपसेवेत
हित्वा तद्-अनुवर्तनम् ॥
तस्यापि हितम् आकाङ्क्षन्
मुच्यते नात्र संशयः ।

English

32.-33. If the guru swerves from the path of dharma (virtue) he ought to be advised in private. If a degrading act of a guru is incapable of being removed either by means of advice or devotion (to God on his behalf), or service in the society of good men, one shall, abandoning his company, serve a virtuous teacher.

(If he) wishes even (then) the welfare of his quondam teacher, he is freed and there is no doubt about this.

मूलम्

धर्मव्यतिक्रमः (नियमातिक्रमः) स्याच्चेत् गुरुर्बोध्यो रहस्यपि ।
पतनीयं गुरोः कर्म यद्यशक्यमपमपोहितुम्
बोधनाद्दैवभजनात् सत्सङ्गपरिषेवणात्
सद्गुरूनुपसेवेत हित्वा तदनुवर्तनम् ॥
तस्यापि हितमाकाङ्क्षन् मुच्यते नात्र संशयः ।

विश्वास-प्रस्तुतिः

यदि शिष्यः पतेन् मार्गात्
तं प्रयत्नेन वारयेत्
श्रियः पत्युः पदाम्भोजे
गुरुर् याचेत तद्-धितम् ।

English
  1. If the disciple strays from the path of duty, the guru shall prevent him with effort. He shall pray to the lotus-feet of the Lord of Sri (Vishnu) for the benefit of the disciple.
मूलम्

यदि शिष्यः पतेन्मार्गात् तं प्रयत्नेन वारयेत् ॥
श्रियः पत्युः पदाम्भोजे गुरुर्याचेत तद्धितम् ।

विश्वास-प्रस्तुतिः

प्रसादयेद् भागवतान्
आत्मना ऽपि तम् उद्धरेत्
तेन सम्भाषणादीनि
वर्जयेद् अनिवर्तने ।

English
  1. He shall cause the bhagavatas (devotees of God) bestow their grace on him, himself shall also try to lift him. up. In case he is not reclaimed he shall give up conversation and such other intercourses with him.
मूलम्

प्रसादयेद्भागवतान् आत्मनापि तमुद्धरेत् ॥
तेन सम्भाषणादीनि वर्जयेदनिवर्तने ।

विश्वास-प्रस्तुतिः

न निश्वासम् अपि व्यक्तं
विसृजेद् गुरु-सन्निधौ ॥ ३६ ॥

English

36.-97. In the presence of a guru one shall not express’ [[101]] manifestly his visvasa (love) (for him).

मूलम्

न निश्वासमपि व्यक्तं विसृजेद्गुरुसन्निधौ ॥ ३६ ॥

विश्वास-प्रस्तुतिः

‘गुरोर् यत्र परीवादो
निन्दा वाऽपि प्रवर्तते । (मनु. 2 201)
कर्णौ तत्र पिधातव्यौ
गन्तव्यं वा ततोऽन्यतः” ॥ ३७ ॥

English

Wherever detraction or dispragement of the guru is heard, there a disciple shall either close his ears or quit the place for some other.

मूलम्

‘गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते । (मनु. 2 201)
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः" ॥ ३७ ॥

विश्वास-प्रस्तुतिः

आचार्यस्य प्रसादेन
मम सर्वम् अभीप्सितम् ।
प्राप्नुयाम् इति विश्वासो
यस्यास्ति स सुखी भवेत् ॥ ३८ ॥

English

He shall be happy in whom there is the faith “By the grace of guru I shall attain all my desires.”

मूलम्

आचार्यस्य प्रसादेन मम सर्वमभीप्सितम् ।
प्राप्नुयामिति विश्वासो यस्यास्ति स सुखी भवेत् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

येनैव गुरुणा यस्य
न्यास-विद्या प्रदीयते ।
तस्य वैकुण्ठ-दुग्धाब्धि-
द्वारकाः सर्व एव सः ॥ ३९ ॥

English
  1. To whomsoever by a guru is given the knowledge of self-resignation, to him is that guru alone the Vaikuntha (empyrean of Vishnu), the milky ocean, Dvaraka and all.
मूलम्

येनैव गुरुणा यस्य न्यासविद्या प्रदीयते ।
तस्य वैकुण्ठदुग्धाब्धिद्वारकाः सर्व एव सः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

ऐहिकामुष्मिकं सर्वं
गुरुर् अष्टाक्षर-प्रदः ।
इत्येवं ये न मन्यन्ते
त्यक्तव्यास् ते मनीषिभिः ॥ ४० ॥

English
  1. The all of this world and of the other, is that guru who gives the eight lettered mantra (ashtakshara). Those that do not think so are, by the wise, fit to be forsaken.
मूलम्

ऐहिकामुष्मिकं सर्वं गुरुरष्टाक्षरप्रदः ।
इत्येवं ये न मन्यन्ते त्यक्तव्यास्ते मनीषिभिः ॥ ४० ॥

विश्वास-प्रस्तुतिः

“एकाक्षर-प्रदातारम्
आचार्यं योऽवमन्यते । (अत्रि सं.)
श्वान-योनि-शतं प्राप्य
चण्डालेष्व् अभिजायते " ॥ ४१ ॥

English

He, who insults the teacher, who gives one syllable of mantra, say Pranava, after being born a hundred times in the womb of a bitch, shall be born among the chandalas."

मूलम्

“एकाक्षरप्रदातारमाचार्यं योऽवमन्यते । (अत्रि सं.)
श्वानयोनिशतं प्राप्य चण्डालेष्वभिजायते " ॥ ४१ ॥

विश्वास-प्रस्तुतिः

महावराहो भगवान्
आह जन्माब्धि-तारणे ।
नावं नृ-तनुम् , आत्मानम्
अनुकूलानिलं, गुरुम् …।
कर्ण+++(→rudder)+++-धारम् ; अतो देही
गुरुणा संसृति तरेत् ॥ ४३ ॥+++(5)+++

English
  1. Bhagavan Vishnu in the shape of the mighty Varaha has proclaimed for crossing the ocean of births, man’s body as the boat, His Self (Atman) as the favourable wind, the guru as the pilot. Therefore, with the help of a guru shall an embodied being cross the ocean of Samsara.
मूलम्

महावराहो भगवानाह जन्माब्धितारणे ।
नावं नृतनुम् , आत्मानम् अनुकूलानिलं, गुरुम् ।
कर्णधारम् ; अतो देही गुरुणा संसृति तरेत् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

नृ-देहम् आद्यं प्रतिलभ्य दुर्लभं
प्लवं सुकल्यं, गुरु-कर्ण-धारकम् ।
मया ऽनुकूलेन नभस्वतेरितं,
पुमान् भवाब्धि न तरेत्, स हात्महा ॥"

English

That man is tha destroyer of self (ātma) who first having secured the boat of human body which is difficult to attain, then the dextrous pilot of a guru, crosses not the ocean of Samsara which is blown by the favourable wind, Myself (God). (To be Continued.)

मूलम्

नृदेहमाद्यं प्रतिलभ्य दुर्लभं प्लवं सुकल्यं गुरुकर्णधारकम् ।
मयाऽनुकूलेन नभस्वतेरितं पुमान् भवाब्धि न तरेत् , स
हात्महा ॥"

इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते प्रपन्नपारिजाते गुरूपासनपद्धतिः चतुर्थी