English
CHAPTER III. ON THE RIGHT OF PRACTICE.
विश्वास-प्रस्तुतिः
अनन्योपाय-शक्तस्य
प्राप्येच्छोर् अधिकारिता।
प्रपत्तौ सर्व-वर्णस्य
सात्त्विकत्वादि-योगतः (गिनः) ।
English
The nature of one who is entitled to this Prapatti is stated:-
- To men of all castes who are unable to adopt any other means and have desires to fulfil there is a right to Prafatti by being united with the qualities of goodness and the like.
मूलम्
अनन्योपायशक्तस्य प्राप्येच्छोरधिकारिता।
प्रपत्तौ सर्ववर्णस्य सात्त्विकत्वादियोगतः (गिनः) ।
विश्वास-प्रस्तुतिः
“सा हि सर्वत्र सर्वेषां
सर्व-काम-फल-प्रदा” (सन. सं)
इति सर्व-फल-प्राप्तौ
सर्वेषां विहिता यतः ॥
English
- As prapatti yields the fruits of all desires to all persons in all places, it is prescribed to all persons for the fulfilment of their desires.
मूलम्
“सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा” (सन. सं)
इति सर्वफलप्राप्तौ सर्वेषां विहिता यतः ॥
विश्वास-प्रस्तुतिः
प्रपत्तेर् वाचको मन्त्रः
कठ-वल्ल्य्-आदिषु श्रुतः ।
अर्थः पुराणे पाद्मे तु
पराशर-वसिष्ठयोः
संवादे प्रणवैकार्थः
+++(द्वय-मन्त्र-रूपेण)+++ पञ्च-विंशति-वर्णकः॥
ऋष्यादिसहितः साङ्गः
भूयो भूयः प्रपञ्च्यते ॥ ४ ॥
English
3-4. The mantra which is declaratory of Prapatti is heard in Kathavalli and other texts. And in Padmapurana [[95]] in the discourse between Parasara and Vasishtha, it is detailed with all its angas over and again, with the name of the sage (Rishi) (its seer), its metre &c., as being composed of twenty-five letters and of the same import as Pranava.
मूलम्
प्रपत्तेर्वाचको मन्त्रः कठवल्ल्यादिषु श्रुतः ।
अर्थ पुराणे पाद्मे तु पराशरवसिष्ठयोः
संवादे प्रणवैकार्थः पञ्चविंशतिवर्णकः॥
ऋष्यादिसहितः साङ्गः भूयोभूयः प्रपञ्च्यते ॥ ४ ॥
विश्वास-प्रस्तुतिः
तत्र सर्वाधिकारत्वं
सकृद्-उच्चार्यता तथा।
विधीयते तथा ऽन्यत्र
शास्त्रे भगवता ऽपि च ।
English
- Therein is prescribed the right of all to it and the pronouncing of it only once. So also elsewhere in the Pancharatra Sastra it is ordained by Bhagavan Vishnu.
मूलम्
तत्र सर्वाधिकारत्वं सकृदुच्चार्यता तथा।
विधीयते तथाऽन्यत्र शास्त्रे भगवताऽपि च ।
विश्वास-प्रस्तुतिः
त्रैवर्णिकेतरस्यापि
द्वये तस्माद् अधिक्रिया।
धर्मि-ग्राहक-मानेन
सिद्धेयं लोक-वेदयोः ।
English
- Even to those that are other than the three castes there is. therefore, right to the mantra, dvaya, and it is valid according to the lower sciences of the world and the higher Vedas (by treating as accoording to the subject of special law mentioned therein) and on the authority of taking those that follow a practice (to indicate the practice).
मूलम्
त्रैवर्णिकेतरस्यापि द्वये तस्मादधिक्रिया।
धर्मिग्राहकमानेन सिद्धेयं लोकवेदयोः ।
विश्वास-प्रस्तुतिः
यथा हि रथकारादेर्
अग्न्याधानादि-वैदिके ।
यथा ऽऽज्यावेक्षणादौ तु
मन्त्रे पत्न्याः प्रमाणतः ।
यद्वाऽऽधीत-क्रमापायात्
स्वरादेर् वा विलोपतः ।
द्वयस्य सर्वाधिकृतिः ;
सर्वेषां तान्त्रिकं तु वा ॥ ८ ॥
English
For example, from the authority of the right of carpenters and others to conscerating the fire (agnyādhāna) and such other vedic rituals and of the wife of the sacrificer to the mantra in the ceremony of looking at clarified butter (ajvāvekshana) and others of the kind. Or on account of the danger arising to the proper order of chanting, or on account of the defects of pronunciation &c. the right of all others than the three castes, to dvaya, may be taken as Tantric, or to all alike Tantric.
मूलम्
यथा हि रथकारादेः अग्न्याधानादिवैदिके ।
यथाऽऽज्यावेक्षणादौ तु मन्त्रे पत्न्याः प्रमाणतः ।
यद्वाऽऽधीतक्रमापायात् स्वरादेर्वा विलोपतः ।
द्वयस्य सर्वाधिकृतिः ; सर्वेषां तान्त्रिकं तु वा ॥ ८ ॥
विश्वास-प्रस्तुतिः
अ-ज्ञ+++(→कर्मयोगि)+++–सर्व-ज्ञ+++(=ज्ञान-योगि)+++–भक्तानां
प्रपत्ताव् अधिकारिता ॥
उपायान्तर-विज्ञान+
+अशक्तेर् अ-ज्ञस्य युज्यते
सदृशोपाय-वैधुर्यं
साक्षाद् भगवतो विदन् ।
सर्वज्ञः शरणं याति
योगमार्ग-पराङ्मुखः ।
सर्वकालं प्रेम-वशाद्
भजन् भक्तो ऽप्य् अनन्यधीः ।
उपायं वाऽप्य् उपेयं वा
क्षमोऽन्यं नावलम्बितुम् ।
English
- To the ignorant (Karmayogin), the wise (juanın) and the Bhaktas, there is the right to Prapatti. To the ignorant it is proper on account of their inability to know any other means.
(Bhakti-yaga: The method of Bhakti or Devotion and love to God as the means of attaining final emancipation and eternal bliss. A search after God beginning, continuing and ending in love. )
- The wise clearly,knowing the voidness of means like unto God (directly from Him,) turning away from the path of Yoga seek refuge with him.
[[96]]
- Also the Bhakta, always meditating on God with intense love and with his mind not directed to any other object, finds it not possible to depend upon any other means or end.
मूलम्
अज्ञसर्वज्ञभक्तानां प्रपत्तावधिकारिता ॥
उपायान्तरविज्ञानाशक्तेरज्ञस्य युज्यते
सदृशोपायवैधुर्यं साक्षाद्भगवतो विदन् ।
सर्वज्ञः शरणं याति योगमार्गपराङ्मुखः ।
सर्वकालं प्रेमवशात् भजन् भक्तोऽप्यनन्यधीः ।
उपायं वाऽप्युपेयं वा क्षमोऽन्यं नावलम्बितुम् ।
विश्वास-प्रस्तुतिः
जितन्ता-मन्त्र-विवृतौ
शौनकेन यद् ईरितम् ।
“अज्ञ-सर्वज्ञ-भक्तानां
गतिर् गम्यो भवेद् +हरिः”
English
- That Hari shall be the means and the end to the ignorant (ajna), the wise (Sarvajña) and the Bhaktas, is what has been said by Saunaka in his comment on the mantra, Jitanta" (Victory to Thee, O Lord!):
मूलम्
जितन्तामन्त्रविवृतौ शौनकेन यदीरितम् ।
अज्ञसर्वज्ञभक्तानां गतिर्गम्यो भवेद्धरिः"
विश्वास-प्रस्तुतिः
“इदं शरणम् अ-ज्ञानाम्
इदम् एव विजानताम् । (ल. तं17.100)
इदं तितीर्षतां पारम्
इदम् आनन्त्यम् इच्छताम् "
इति लक्ष्म्या स्वतन्त्रेऽपि
प्रपत्तावनुवर्णितम् ।
आस्तिक्यादिगुणोपेतं
शास्त्रं वक्त्य् अधिकारिणम् ॥ १४ ॥
English
“This Prapatti is the refuge of the ignorant, this alone is the refuge of the wise; this is of those that wish to cross the ocean of samsara, and this of them that desire to attain immortality.” 14. Also in the Lakshmitantra under Prapatti it is described that the sastras mention of him who has the qualities of faith &c., as having right, to it.
मूलम्
“इदं शरणमज्ञानाम् इदमेव विजानताम् । (ल. तं17.100)
इदं तितीर्षतां पारम् इदमानन्त्यमिच्छताम् "
इति लक्ष्म्या स्वतन्त्रेऽपि प्रपत्तावनुवर्णितम् ।
आस्तिक्यादिगुणोपेतं शास्त्रं वक्त्यधिकारिणम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
यथाऽऽह भगवान् शास्त्रे
विष्वक्सेनाय शृण्वते ।
“य एवं शरणं गच्छेत्
कृतकृत्यो भविष्यति ।
English
- In the Pancharatra-Sastra Bhagavan says to the attentive Vishvaksena that
he who takes refuge in this way has accomplished the object of his pursuit.
मूलम्
यथाऽऽह भगवान् शास्त्रे विष्वक्सेनाय शृण्वते ।
य एवं शरणं गच्छेत् कृतकृत्यो भविष्यति ।
विश्वास-प्रस्तुतिः
एतद्रहस्यं वेदानां
पुराणानां च सम्मतम् ।
गुह्याद् गुह्यं मया प्रोक्तं
निगमान्तेषु कीर्तितम्
English
- This secret doctrine is in accordance with the teaching of the Vedas and the Puranas and in the Vedanta it is praised and declared as the most secret of esoteric doc- trines.
मूलम्
एतद्रहस्यं वेदानां पुराणानां च सम्मतम् ।
गुह्याद्गुह्यं मया प्रोक्तं निगमान्तेषु कीर्तितम्
विश्वास-प्रस्तुतिः
नादीक्षिताय वक्तव्यं
नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं
नास्तिकाय कदाचन ।
गुरुभक्तिर् न यस्यास्ति,
बीज-पिण्ड-पदादिषु
नोपदेशस्तु यस्यास्ति,
न वक्तव्यं हितार्थिना ।
English
- It ought not to be divulged to the uninitiated and not at all to an unbeliever (athiest) and not to any who has no faith in guru (guru-bhakti), and in the essential syllable (bija), the collocation of the letters (pinda) and the words (pada,) and such other elements (of his mantra).*
* Another reading of the second part means ‘who has no respect for the Guru’s race and his abode.”
- To him who has no initiation this ought not to be divulged by one who wishes him well.
मूलम्
नादीक्षिताय वक्तव्यं नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं नास्तिकाय कदाचन ।
गुरुभक्तिर्न यस्यास्ति, बीजपिण्डपदादिषु
नोपदेशस्तु यस्यास्ति, न वक्तव्यं हितार्थिना ।
विश्वास-प्रस्तुतिः
इत्युक्तवान् जगन्नाथो
द्विरदानन ! मां प्रति ।
मयाऽपि तव भक्तस्य
कथितं यच्छ्रुतं पुरा” ॥ १९ ॥
English
So has Dviradanana! the Lord of the unive told me. By me too has been mentioned too, a bhakta, what was heard before.
मूलम्
इत्युक्तवान् जगन्नाथो द्विरदानन ! मां प्रति ।
मयाऽपि तव भक्तस्य कथितं यच्छ्रुतं पुरा” ॥ १९ ॥
इति श्रीगुरुवरवात्स्यवरदाचार्यविरचिते
प्रपन्नपारिजाते अधिकारिपद्धतिः तृतीया