०२ स्वरूपपद्धतिः

English

CHAPTER II. ON THE NATURE OF PRAPATTI.

(†). Of the several names mentioned in this chapter for prapatti Prapatti and Saranagati are allied in import; similarly Nikshepa and Nyasa, and Tyaga and Sannyasa.

विश्वास-प्रस्तुतिः

बुद्धिर् अध्यवसायात्मा,
याच्ञा पर्यवसायिनी ।
प्राप्येच्छोर् अनुपायस्य
प्रपत्ते रूपम् इष्यते ॥+++(4)+++

English

The mental state consisting of determination which results in prayer, of a person who has a desire to attain but no means, is the nature of Prapatti.

मूलम्

बुद्धिरध्यवसायात्मा याच्ञापर्यवसायिनी ।
प्राप्येच्छोरनुपायस्य प्रपत्ते रूपमिष्यते ॥

विश्वास-प्रस्तुतिः

“अनन्य-साध्ये स्वाभीष्टे
महा-विश्वास-पूर्वकम् ।
तद्-एकोपायता-याच्ञा
प्रपत्तिः शरणागतिः” ॥
(भरत-मुनिः)

English
  1. The prayer which with great faith, regards, that (God) alone as the only means for the attainment of a desire incapable of being attained by any other means, is the Prapatti known as saranaguti (seeking refuge with God).
मूलम्

“अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।
तदेकोपायतायाच्ञा प्रपत्तिः शरणागतिः” ॥ (भरतमुनि)

विश्वास-प्रस्तुतिः

शरणागति-शब्देन
प्रपत्तिस् तु विशेषिता ।
“प्रपत्तिं संश्रयेद् भक्त्या
शरणागतिलक्षणाम् ” (वि. सं)

English
  1. By the word saranagati, prapatti is specified. Therefore seek with bhakti (love and devotion) this Prapatti which is characterised as saranagati.
मूलम्

शरणागतिशब्देन प्रपत्तिस्तु विशेषिता ।
“प्रपत्तिं संश्रयेद्भक्त्या शरणागतिलक्षणाम् ” (वि. सं)

विश्वास-प्रस्तुतिः

इति ह्युक्तं भगवता
विष्वक्सेनाय सादरम् (शृण्वते)
आर्त-प्रपत्तिर् इत्य् उक्ता
सैषा पञ्चाङ्ग-संयुता । (4)

English
  1. This which with love has been declared by Bhagavan Vishnu to Vishvaksena is known as Arta-prapatti (the propatti of the miserable); and it has five accessories (angas).
मूलम्

इति ह्युक्तं भगवता विष्वक्सेनाय सादरम् (शृण्वते)
आर्तप्रपत्तिरित्युक्ता सैषा पञ्चाङ्गसंयुता । (4)

विश्वास-प्रस्तुतिः

“अहम् अस्म्य् अपराधानाम्
आलयो ऽकिञ्चनोऽगतिः। (अ.बु-सं37-30)
त्वम् एवोपाय-भूतो मे
भवे“ति प्रार्थना मतिः ।
शरणागतिर् इत्य् उक्ता
सा देवेऽस्मिन् प्रयुज्यताम् । "

English
  1. I am the abode of all sins, utterly incapable and helpless, Thou alone O Lord become my means?’ Such a condition of the mind is called saranagati. Let this (Saranagat) be directed towards the Lord.
मूलम्

अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः।(अ.बु-सं37-30)
त्वमेवोपायभूतो मे भवेति प्रार्थना मतिः ।
शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् । "

विश्वास-प्रस्तुतिः

“आत्मनो दुर्दशापत्तिं
विमृश्य च हरेर् गुणान् ।
तद्-एकोपाय-संवित्तिः,
तं प्रपन्नो विमुच्यते “।

English
  1. That prapanna is released from the bonds of samsara* who considering well the bad lot that has befallen him and the (attractive) qualities of Hari and being fully conscious that God is the only means, seeks refuge with Him.

*Samsara, is from Samari, to flow continuously; the course of circuit of worldly life. Hence, transmigration or succession of births and deaths.

मूलम्

“आत्मनो दुर्दशापत्तिं विमृश्य च हरेर्गुणान् ।
तदेकोपायसंवित्तिः तं प्रपन्नो विमुच्यते “।

विश्वास-प्रस्तुतिः

वाक्येष्व् एतेषु पञ्चाङ्गा
प्रपत्तिर् लक्ष्यते यथा(7)
“निक्षेपापर-पर्यायो न्यासः
पञ्चाङ्ग-संयुतः ।
सन्न्यासस् त्याग इत्य् उक्तः
शरणागतिर् इत्य् अपि” ॥ (ल. तं. 17.75)

English

7–8. In the above sentences the Prapatti of five angus (accessories) is mentioned. For (this Prapatti is also) synonymous with Nikshepu (self-resignation to the care of God) Nyas the five-membered’ (Panchangalukshana) Sannyasa ‘(self-resignation), Tyaga (giving up ones self to God), and Sarunayati (seeking refuge with God).

मूलम्

वाक्येष्वेतेषु पञ्चाङ्गा प्रपत्तिर्लक्ष्यते यथा(7)
“निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः ।
सन्न्यासस्त्याग इत्युक्तः शरणागतिरित्यपि” ॥ (ल. तं. 17.75)

विश्वास-प्रस्तुतिः

अङ्गानां लक्ष्यते रूपं
लक्ष्मी-तन्त्रे प्रकारतः ।
तेषाम् अङ्गि-फलत्वं च
तद्-रूपं च विभागशः-

English
  1. According to the Lakshmitantra, by (the two angas (viz) the resolution to preserve conformity to his will and the abandoning of opposition to it-are (in a way) predicated the nature of the (other three) angas; moreover to these anyas the same fruit as that of their principal (prapatti) (is attributed) and their several natures (are also pointed out).
मूलम्

अङ्गानां लक्ष्यते रूपं लक्ष्मीतन्त्रे प्रकारतः ।
तेषामङ्गिफलत्वं च तद्रूपं च विभागशः-

विश्वास-प्रस्तुतिः

आनुकूल्यम् इति प्रोक्तं
सर्व-भूतानुकूलता । (ल. तं. 17.66)
अन्तःस्थिता ऽहं सर्वेषां
भावानाम् इति निश्चयात् ।"+++(4)+++

English
  1. Owing to the certainty of feeling that I abide inside all beings, kindness to all beings is said to be this ‘Conformity (to me)’
मूलम्

आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता । (ल. तं. 17.66)
अन्तःस्थिताऽहं सर्वेषां भावानामिति निश्चयात् ।”

विश्वास-प्रस्तुतिः

एतेन व्याप्ति-विज्ञानात्
प्रपत्तव्यस्य सर्वशः ।
आनुकूल्यस्य सङ्कल्पात्
प्रातिकूल्यस्य वर्जनम् ।
हिंसाद्य्-अपाय-विरतिः
उक्ता सर्वेषु जन्तुषु ॥

English

11-12. By this, through a knowledge of the universal pervasiveness of Him who is saught after in Prapatti and the resolution to observe conformity to God’, giving up of non-conformity to His will, the refraining from cruelties and other injuries to all beings (is meant).

मूलम्

एतेन व्याप्तिविज्ञानात् प्रपत्तव्यस्य सर्वशः ।
आनुकूल्यस्य सङ्कल्पात् प्रातिकूल्यस्य वर्जनम् ।
हिंसाद्यपायविरतिः उक्ता सर्वेषु जन्तुषु ॥

विश्वास-प्रस्तुतिः

“अङ्ग-सामग्र्य्-अ-सम्पत्तेः
अ-शक्तेश् चापि कर्मणाम् ।
अधिकारस्य चासिद्धेः
देश-काल-गुण-क्षयात् ॥
उपाया नैव सिध्यन्ति
ह्य् अपायाः बहुलास् तथा ।
इति या गर्व-हानिस् तद्
दैन्यं कार्पण्यम् उच्यते " (ल.तं. 17.69)

English

13-14. From the thought that the several means (for the attainment of moksha) are sure to fail and there are also many dangers owing to the want of completeness in the constituent angus, the incapacity for the performance of karma and other yogus, and the non-vestment of right in some to the practice of them, and the decay of the qualities of place, and time, relinquishing pride and being low spirited is known as karpanya (wretchedness or poorness of spirit).

मूलम्

" अङ्गसामग्र्यसम्पत्तेः अशक्तेश्चापि कर्मणाम् ।
अधिकारस्य चासिद्धेः देशकालगुणक्षयात् ॥
उपाया नैव सिध्यन्ति ह्यपायाः बहुलास्तथा ।
इति या गर्वहानिस्तत् दैन्यं कार्पण्यमुच्यते " (ल.तं. 17.69)

विश्वास-प्रस्तुतिः

उपायान्तर-दौष्कर्यात्
तन्-निवृत्तिर् हि सूचिता । (14)
अ-किञ्चनाधिकारित्वं
प्रपत्तेर् अपि सूचितम्

English
  1. By the difficulty of performance of the other means is indicated the renouncing of them and also the vestment of right to Prapatti in one who is devoid of (other) means.
मूलम्

उपायान्तरदौष्कर्यात् तन्निवृत्तिर्हि सूचिता । (14)
अकिञ्चनाधिकारित्वं प्रपत्तेरपि सूचितम् ॥

विश्वास-प्रस्तुतिः

“शक्तेः सूपसदत्वाच्+++(=सौलभ्याच्)+++ च
कृपा-योगाच् च शाश्वतात् ।
ईशेशितव्य-सम्बन्धात्
अन्-इदम्-प्रथमाद् अपि ।
रक्षिष्यत्य् अनुकूलान् न
इति या सुदृढा मतिः ।
विश्वासो भवेच् छक्र!
सर्व-दुष्-कृत-नाशनः ॥ " (ल.त. 17.71)

English

16-17. By reason of His ability, easy accessibility, [[92]] eternal union with mercy, and by reason of the relation of the Lord (Isa) and the dependent (Isatovya)—(a relation) which is not of to day (but has been existing) even from the beginning, the firm belief that He will protect us who are conformable to him is what is known as Visvasa (faith) destructive of all sins.

मूलम्

" शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात् ।
ईशेशितव्यसम्बन्धात् अनिदम्प्रथमादपि ।
रक्षिष्यत्यनुकूलान् नः इति या सुदृढा मतिः ।
स विश्वासो भवेच्छक! सर्वदुष्कृतनाशनः ॥ " (ल.त. 17.71)

विश्वास-प्रस्तुतिः

स्व-रक्षा-योग्यतां ज्ञात्वा
प्रपत्तव्यस्य युक्तितः ।
रक्षिष्यतीति विश्वासाद्
अभीष्टोपाय-कल्पनम्

English
  1. Discerning with skill the capability of the object of refuge to protect one’s self and with the (firm) belief that God will protect, one should make Him the means for his desired end.
मूलम्

स्वरक्षायोग्यतां ज्ञात्वा प्रपत्तव्यस्य युक्तितः ।
रक्षिष्यतीति विश्वासात् अभीष्टोपायकल्पनम् ॥

विश्वास-प्रस्तुतिः

“करुणावान् अपि व्यक्तं
शक्तः स्वाम्य् अपि देहिनाम् ।
अ-प्रार्थितो न गोपायेद्
इति तत्-प्रार्थना-मतिः ।

English
  1. Even though He be manifestly merciful, able and the Lord of all beings, yet, unsolicited He will not protect, therefore direct the mind to prayer.
मूलम्

“करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् ।
अप्रार्थितो न गोपायेत् इति तत्प्रार्थना मतिः ।

विश्वास-प्रस्तुतिः

गोपायिता भवे“त्य् एवं
गोप्तृत्व-वरणं स्मृतम् “। (ल.तं. 17.73)
याच्ञा-पर्यवसायित्वं
प्रपत्तेर् अत इष्यते
प्रपत्तेस् तु प्रपत्तव्य-
प्रसाद-द्वारता तथा । (20)

English
  1. But to Prapatti (belongs), the quality of being the means to the grace of the object of refuge (God)
  2. To say ‘Lord Thou shalt be my protector’ is what is known as choosing one’s protector. Therefore is mentioned the ending in prayer of Prapatti.
मूलम्

गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् “। (ल.तं. 17.73)
याच्ञापर्यवसायित्वं प्रपत्तेरत इष्यते ॥
प्रपत्तेस्तु प्रपत्तव्यप्रसादद्वारता तथा । (20)

विश्वास-प्रस्तुतिः

" तेन संरक्ष्यमाणस्य
फले स्वाम्य्-अ-वियुक्तता।
केशवार्पण-पर्यन्ता
ह्य् आत्म-निक्षेप उच्यते “। (ल. ते. 17.74)

English

and by him who is to be protected by God (so realised through Prapatti) the disclaiming of proprietory right to the fruit of action which has its termination in the resignation to Kesuva (God), is said to be Atmanikshepa (self-resignation to the care of God).

मूलम्

" तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता।
केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते “। (ल. ते. 17.74)

विश्वास-प्रस्तुतिः

उपाये च फले चैवं
स्व-प्रयत्न-निवर्तनम् ।
स्वाम्य्-आयत्तम् इति व्यक्तम् ; निक्षेपस्याङ्गिता तथा ।

English
  1. It is evident that eschewing self-exertion in both the means (Upaya) and the fruit (phala) belongs to the (province of the) Lord (Swamyayatta); (and it is) also (plain) that Nikshepa has accessories.
मूलम्

उपाये च फले चैवं स्वप्रयत्ननिवर्तनम् ।
स्वाम्यायत्तमिति व्यक्तम् ; निक्षेपस्याङ्गिता तथा ।

विश्वास-प्रस्तुतिः

आर्त-प्रपत्ताव् इत्य् एषाम्
अङ्गानां सन्निधिः तथा ।
दृप्त-प्रपत्ताव् एतानि
भविष्यन्त्य् उत्तरोत्तरम् ॥

English
  1. In Artaprapatti (the prapatti of the miserable) is the combined manifestation of all the above angus. But in Dripta-prapatti (the propatti of the proud or contented) these manifest themselves in succession.
मूलम्

आर्तप्रपत्तावित्येषाम् अङ्गानां सन्निधिः तथा ।
दृप्तप्रपत्तावेतानि भविष्यन्त्युत्तरोत्तरम् ॥

विश्वास-प्रस्तुतिः

आर्त-दृप्त-विभागस् तु
श्रीमद्-रामायणोदितः-
“आर्तो वा यदि वा दृप्तः
परेषां शरणागतः ।
अरिः प्राणान् परित्यज्य
रक्षितव्यः कृतात्मना” (रा.यु.)

English

24.-25. The divison of Prapannas into Arta and Dripta is mentioned in Srimad Ramayana : “Even an enemy, who takes refuge with another

93 whether he be an arta or a dripta, nught to be protected by a self-knowing person by giving up his own life.”

मूलम्

आर्तदृप्तविभागस्तु श्रीमद्रामायणोदितः-
“आर्तो वा यदि वा दृप्तः परेषां शरणागतः ।
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना” (रा.यु.)

विश्वास-प्रस्तुतिः

यस्य देहान्तर-कृते शोको
दृप्तः स उच्यते । (25)
यस् तु प्रारब्ध-देहे ऽपि
शोचत्य् आर्तः स उच्यते।
आर्त-दृप्त-विभागेन
प्रपत्तिर् इयम् उच्यते ॥

English

He, whose misery is in taking another body, is called a Dripta (the proud or contented). He who grieves even at this body which is the result of his past Karmas is called an Arta (the miserable). * 27. Prapatti also is therefore, mentioned as divided into Art and Iripte.

• Dripta’s contentment arises not out of any physical happiness which he discards but out of realising the working of lis will in everything; so a Dripta is not dissatified with this body because it is given by God and is ever ready to do the duties of this life, but longs for the union with God after death. An Artas misery is not out of any physical suffering which is nothing to him. He feels miserable even at a moments separation from God; and consequently grieves at this body which keeps him from the Divine Union.

मूलम्

यस्य देहान्तरकृते शोको दृप्तः स उच्यते । (25)
यस्तु प्रारब्धदेहेऽपि शोचत्यार्तः स उच्यते।
आर्तदृप्तविभागेन प्रपत्तिरियमुच्यते ॥

विश्वास-प्रस्तुतिः

साधनं भगवत्-प्राप्तौ
+++(→भगवान्)+++ एवेति स्थितिर् दृढा ।
साध्य-भक्तिः स्मृता सैव
प्रपत्तिर् इति गीयते ॥ (27)

English

However the conviction that the means for the attainment of God is He alone aught to be firm. 28. That which is known as Sudhya-bhakti (love as the end) is declared as Prapatti.

मूलम्

साधनं भगवत्प्राप्तौ स एवेति स्थितिः दृढा ।
साध्यभक्तिः स्मृता सैव प्रपत्तिरिति गीयते ॥ (27)

विश्वास-प्रस्तुतिः

इमं चार्थम् अभिप्रेत्य
वचो भागवते यथा-

“प्रपन्नश् +++(वृष्टि-बिन्दु-काङ्क्षी)+++ चातको यद्-वत्
प्रपत्तव्यः +++(व्याधानुकम्पी)+++ कपोतवत् ।”
रक्ष्य-रक्षकयोर् एतत्
लक्षणं लक्ष्यम् एतयोः ।

English

The words of Bhagavata conveying this import are as follow:- 29. A Prapanna (one who has sought refuge) is like the chataka bird, prapattavya (one who is to be sanght after) is like the pigeon. These functions of the protected and the protector are indicated by the characteristics of these birds.

The allusion here is to the chataka bird which is supposed to live solely on rain-drops and to the pigeon of a story in Srimad Bhagavata. As the chataka-bird expectantly waits on the clouds alone for its food, a prapanna should wait on God for the attainment of moksha. And God is like unto the pigeon of the story which, after kindling tire for the warming of a weatherbeaten, worn out, luckless hunter who has taken shelter under the tree inhabited by the bird, burnt itself to appease his hunger.

मूलम्

इमं चार्थमभिप्रेत्य वचो भागवते यथा-
“प्रपन्नश्चातको यद्वत् प्रपत्तव्यः कपोतवत् ।”
रक्ष्यरक्षकयोरेतत् लक्षणं लक्ष्यमेतयोः ।

विश्वास-प्रस्तुतिः

प्रपत्तिर् अपि सामान्यात्
शास्त्रेऽन्यत्र प्रपञ्चिता ।
“यद् येन काम-कामेन
न साध्यं साधनान्तरैः ।
मुमुक्षुणा यत् साङ्ख्येन
योगेन (कर्मणा) न च भक्तितः । (30)
प्राप्यते परमं धाम
यतो नावर्तते पुनः ॥ तेन तेनाप्यते तत् तत्
न्यासेनैव महामुने ! ।”

English

30–32. Prapatti is also explained elsewhere in general treatises. Whatever desire cannot be attained through any other means by a person desirous of them and what cannot be attained by a person desirous of freedom, either with Sankhya (knowledge), or yoga non-attachment to work) or Bhakti (love), namely that supreme abode of bliss from which there is no return-all those are attained by him, great sage! solely by Nyasa; and by means of it alone is also attained the Supreme Soul (Purushottama).

मूलम्

प्रपत्तिरपि सामान्यात् शास्त्रेऽन्यत्र प्रपञ्चिता ।
“यत् येन कामकामेन न साध्यं साधनान्तरैः ।
मुमुक्षुणा यत् साङ्ख्येन योगेन (कर्मणा) न च भक्तितः । (30)
प्राप्यते परमं धाम यतो नावर्तते पुनः ॥ तेन तेनाप्यते तत्तत् न्यासेनैव महामुने ! ।”

विश्वास-प्रस्तुतिः

साधनान्तर-दुस्-साधं
प्राप्य यल् लोक-वेदयोः ।
सुखेन प्राप्यते (साध्यते) येन
सा प्रपतिर् इति स्थितिः ॥ (32)

English
  1. That by which is procured with case the goal held out by (the lower sciences of) the world and the Vedas, which is hard to reach by any other means, is to be understood as Prapattı.†
मूलम्

तेन तेनाप्यते तत्तत् न्यासेनैव महामुने ! ।”
साधनान्तरदुस्साधं प्राप्य यल्लोकवेदयोः ।
सुखेन प्राप्यते (साध्यते) येन सा प्रपतिरिति स्थितिः ॥ (32)

इति श्रीगुरुवरवात्स्यवरदाचार्य विरचिते
प्रपन्नपारिजाते स्वरूपपद्धतिः द्वितीया