वात्स्य-वरद-परमार्थ-श्लोक-द्वयम्

विस्तारः (द्रष्टुं नोद्यम्)

परमार्थश्लोकद्वयम्
श्रीवात्स्यवरदगुरुभिरनुगृहीतं
श्रीरस्तु ।
श्रीमते हयग्रीवायनमः ।
श्रीमते रामानुजाय नमः ॥

वन्देऽहं वरदार्यं तं
वत्साभिजन-भूषणम् ।
भाष्यामृत-प्रदानाद् यः
सञ्जीवयति माम् अपि ॥

विश्वास-प्रस्तुतिः

सत्सङ्गाद् भव निस्पृहो गुरु-मुखाच् छ्रीशं प्रपद्यात्मवान्
प्रारब्धं परिभुज्य कर्म-शकलं प्रक्षीण-कर्मान्तरः ।
न्यासाद् एव निरङ्कुशेश्वर-दया–निर्लून-मायान्वयो
हार्दानुग्रह-लब्ध-मध्य-धमनि-द्वारा बहिर् निर्गतः ॥ १॥

मूलम्

सत्सङ्गाद्भवनिःस्पृहो गुरुमुखाच्छ्रीशं प्रपद्यात्मवान्
प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः ।
न्यासादेव निरङ्कुशेश्वरदयानिर्लूनमायान्वयः
हार्दानुग्रहलब्धमध्यधमनिद्वारा बहिर्निर्गतः ॥ १॥

विश्वास-प्रस्तुतिः

मुक्तो ऽर्चिर्–दिन–पूर्व-पक्ष–षड्-उदङ्-मासाब्द-वातांशुमद्-
ग्लौ-विद्युद्-वरुणेन्द्र-धातृ-महितस् सीमान्त-सिन्ध्व्-आप्लुतः
श्री-वैकुण्ठम् उपेत्य नित्यम् अ-जडं, तस्मिन् पर-ब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥

मूलम्

मुक्तोऽर्चिर्दिनपूर्वपक्षषडुदङ्मासाब्दवातांशुम-
द्ग्लौविद्युद्वरुणेन्द्रधातृमहितस्सीमान्तसिन्ध्वाप्लुतः ।
श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मणः
सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥ २॥

आह्निकार्थप्रकाशिका

सत्-सङ्गादित्यादि-वरद-गुरु-निर्मित-श्लोक-द्वय-कीर्तनं मुमुक्षुत्व-निबन्धनम् ।

प्रातर् नित्यानुसन्धेयं
परमार्थं मुमुक्षुभिः ।
श्लोकद्वयेन संक्षिप्तं
सुव्यक्तं वरदोऽब्रवीत् ॥

इति वरद-गुरूक्तेः ।

[[३७]]

विश्वास-प्रस्तुतिः

प्रातर्-नित्यानुसन्धेयं
परमार्थं मुमुक्षुभिः ।
श्लोकद्वयेन संक्षिप्तं
सुव्यक्तं वरदो ऽब्रवीत् ॥ ३॥

मूलम्

प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः ।
श्लोकद्वयेन सङ्क्षिप्तं सुव्यक्तं वरदोऽब्रवीत् ॥ ३॥

इति परमार्थ-श्लोक-द्वयं समाप्तम् ।