२४ तुलसीमणिमालिकाप्रतिष्ठा

॥ तुलसीमणिमालिकाप्रतिष्ठा ॥

पादौ प्रक्षाल्य, ‘श्रीभगवदाज्ञया …. प्रीत्यर्थं तुलसीमणिमालिकाप्रतिष्ठां करिष्ये’ इति सङ्कल्प्य, मालिकां गृहीत्वा, पुण्याहजलेन, पञ्चगव्येन, पञ्चामृतेन च संसिच्य गोमूत्रे दिनमेकम् अधिवास्य तस्मात् ताम् उद्धृत्य श्रीदेवीपञ्चाक्षरेण, श्रीसूक्तेन, (पु.२८), भूसूक्तेन (पु.६८-८९), श्रीगायत्र्या (पु.२९) च यथाशक्ति जपन् संस्कुर्यात् । विष्णुपत्नीं तुलसीं देवीं मालिकायामावाह्य, गन्धपुष्पधूपदीपनैवेद्यादिभिः अभ्यर्च्य, वैष्णवाग्नौ श्रीमन्त्रेण, श्रीसूक्तेन, भूसूक्तेन, श्रीगायत्र्या, भूगायत्र्या च जुहुयात् । मालिकां श्रीशचरणकमलयोर्विन्यस्य प्रणम्य तां पुनरादाय श्रीबीजं शतकृत्वो जपित्वा मुमुक्षुः प्रत्यहं, विशेषेण जपकाले च धारयेत् ॥

(विष्वक्सेनसंहितायाम्)

यथा पतिव्रता साध्वी सर्वाभरणभूषिता ।
पतिशुश्रूषणं कुर्यात् सावधानेन चेतसा ॥
तद्वत् चक्रादिचिह्नैश्च चिह्नितो द्विजसत्तमः ।
पद्माक्षतुलसीमालां पवित्रं च यथाक्रमम् ॥
सन्धार्य नित्यकर्माणि विष्णोः प्रीत्यर्थमाचरेत् ।

अप्रतिष्ठितमालाधारणे महान् प्रत्यवायस्स्यात् ॥

इति विष्वक्सेनसंहितोक्ता तुलसीमणिमालिकाप्रतिष्ठा सम्पूर्णा ॥

[[102]]