पद्माक्षमालिकाप्रतिष्ठा ॥
सुप्रक्षालितपाणिपादः स्वाचान्तः सोर्ध्वपुण्ड्रः पवित्रपाणिः सदस्यान् प्रणम्योत्थाय, दक्षिणासहितं ताम्बूलं गृहीत्वा ‘ओं नमस्सदसे … स्वामिनः … स्वीकृत्य - पद्माक्षमालिकाप्रतिष्ठां कर्तुं योग्यतासिद्धिरस्त्विति भवन्तो महान्तोऽनुगृह्णन्तु । (तथास्तु - योग्यता सिद्धिरस्तु, इति प्रतिवचनं) दर्भेष्वासीनः, दर्भान् धारयमाणः, प्राणानायम्य, ….शुभतिथौ ‘श्रीभगवदाज्ञया … प्रीत्यर्थं पद्मालिकाप्रतिष्ठां करिष्ये’ इति सङ्कल्प्य, मालिकां गृहीत्वा, मूलमन्त्रेण मार्जयेत् । पञ्चगव्यैः, पुण्याहजलैः पवित्रमन्त्रेण, मूलमन्त्रेण, द्वादशाक्षरेण, षडक्षरेण, द्वयेन च सिञ्चेत् । ततः पुरुषसूक्तेन (पु. ७१) तद्विष्णोरिति मन्त्रेण (पु. ३४) विष्णुगायत्र्या (पु. २९) ‘विष्णो रराटमसि’ इति सप्तवैष्णवमन्त्रेण च (पु. ३३) अभिमन्त्र्य, निशामेकां गोमूत्रे निक्षिप्य, प्रभाते पुनरादाय शुद्धोदकैः प्रक्षाल्य, गन्धपुष्पधूपदीपनैवेद्यादिभिः अभ्यर्च्य वैष्णवाग्नौ पूर्वोक्तैः एतैः मन्त्रैः आज्येन जुहुयात् । मालिकां स्पृशन् शतकृत्वः मूलमन्त्रं जपेत् । ततः श्रीचरणनलिनयोः न्यस्येत् । तां पुनरादाय भक्तियुक्तस्सन् तुलसीमणिमालिकया सार्धं कण्ठे सदा धारयेत् ॥ आशौचाद्यशुचिसमये मालां न धारयेत् ॥
॥ विष्वक्सेनसंहितोक्तपद्मक्षमालिकाप्रतिष्ठा सम्पूर्णा ॥
[[101]]