॥ श्रीचूर्णप्रतिष्ठाक्रमः ॥
पादौ प्रक्षाल्य,
द्विराचम्य,
त्रिः प्राणानायम्य,
‘श्रीभगवदाज्ञया, भगवत्प्रीत्यर्थं, श्रीचूर्ण-प्रतिष्ठां करिष्ये’
इति सङ्कल्प्य,
‘कृतं च…’ इत्यादि-भगवच्छास्त्रोक्त-सङ्कल्पं कृत्वा
‘भगवतो बलेन………’ इति बल-मन्त्रं जपित्वा,
‘भगवानेव……’ इति सात्त्विक-त्यागं च कृत्वा,
हरिद्रा-चूर्णानि, तण्डुल-चूर्ण–तुलसी-कर्पूर-गन्ध-कुङ्कुम-पुष्पैः मिश्रीकृत्य,
श्रियं॑ दे॒वीम् उप॑ह्वये॒
श्रीर् मां॑ दे॒वी जु॑षताम् ।
कां॒ सो॒स्मि॒तां हिर॑ण्य-प्राकाराम्
आ॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ॥
इति श्रीचूर्णं प्रोक्ष्य,
“श्रीम्’’ इति ‘श्रीबीजेन’,
‘श्रीगायत्र्या’ (पु. २९) च अष्टोत्तर-सहस्रं (-शतं) जपित्वा,
लक्ष्मीम् आवाह्य,
‘भगवान् एव…’ इति +++(उत्तरं)+++ सात्त्विक-त्यागं कुर्यात् ॥
तद् अभिषिक्तं, श्री-गल-स्थितं +++(वा)+++ श्रीचूर्णं धारयेत् ॥
विस्तारः (द्रष्टुं नोद्यम्)
बिम्बानां जलेनाभिषेकात् परं
किञ्चिद् इव श्रीचूर्णं गृहीत्वा ऽभिषिच्य
गलस्याधो श्रीचूर्णपिष्टं स्थापयन्तीति दृश्यते ।
असंस्कृतां हरिद्रां तु
मुखे लिम्पन् नराधमः ।
तन्मुखं न निरीक्षेत
चण्डालम् इव न स्पृशेत् ॥
॥ श्रीचूर्णप्रतिष्ठाक्रमः समाप्तः ॥
[[100]]