२१ घण्टाप्रतिष्ठाक्रमः

॥ घण्टाप्रतिष्ठाक्रमः ॥

घण्टां च पञ्चगव्येन स्नापयित्वा यथोचितैः ।
पञ्चवारुणकैर्मन्त्रैः नववस्त्रेण वेष्टयेत् ॥
स्थण्डिले शालिभारं च निक्षिप्य तिलतण्डुलान् ।
तदूर्ध्वं नववस्त्रं च सदर्भं न्यस्य तत्र च ॥
कुम्भमेकं समभ्यर्च्य कुण्डे वा स्थण्डिलेऽपि वा ।
घण्टामन्त्रेण जुहुयात् आचार्यः समिदादिभिः ॥
शोषणादीनि कार्याणि तां यथोक्तां विचिन्तयेत् ।
शान्तिहोमावसाने च स्पृशेत् तां होमसर्पिषा ॥
प्रभाते कुम्भतोयेन तामुक्षेन्मन्त्रपूर्वकम् ।
एवं तु संस्कृतां घण्टां चालयेत् सर्वकर्मसु ॥
उद्घाटने कवाटस्य, प्रस्तुते पूजने तथा ।
आवाहनेऽर्घ्यस्नपने पुष्पे धूपे च दीपके ॥
नीराजने यवनिकासमुद्धारे निवेदने ।
होमे भूतबलौ कर्मण्युद्वाहे चालनं मणेः ॥
उत्सादनं पिशाचादेः प्रीणनं च हरेः परम् ।
सन्निधाने त्वमर्त्यानां घण्टायाः चालनं भवेत् ॥
असंस्कृतायाः चलने ग्रामादेः चलनं भवेत् ।
निष्फला चापि पूजा स्यात् परस्य परमात्मनः ॥
घण्टां प्रयोजयेत् यस्तु जायते कीर्तिमान् नरः ।
घण्टासंस्कारवत् धूपदीपादेः संस्कृतिर्भवेत् ॥

॥ इति घण्टाप्रतिष्ठाविधिः समाप्तः ॥

[[99]]