यज्ञोपवीतधारणक्रमः ॥
आचम्य प्राणानायम्य, “यज्ञोपवीतधारणं करिष्ये” इति सङ्कल्प्य, सात्त्विकत्यागं कृत्वा,
यज्ञोपवीतधारणमन्त्रस्य, ब्रह्मा ऋषिः, त्रिष्टुप् छन्दः त्रयीविद्या देवता
य॒ज्ञो॒प॒वीतं प॑र॒मं प॒वित्रं॑ प्र॒जाप॑ते॒र्यत्स॑ह॒जं पु॒रस्ता॑᳚त् ।
आ॒यु॒ष्य॑म॒ग्र्यं॑ प्रति॑मु॒ञ्च शु॒भ्रं य॑ज्ञोपवी॒तं बल॑मस्तु॒ तेजः॑ ॥ [[TODO:परिष्कार्यम्??]]
इति प्राङ्मुख उदङ्मुखो वा कुक्कुटासनतया उपविश्य धारयेत् । गृहस्थः पुनः सङ्कल्प्य द्वितीययज्ञोपवीतं धारयेत् । एकैकमपि यज्ञोपवीतं पृथक् प्राणान् आयम्य, सङ्कल्प्य, मन्त्रोच्चारणपूर्वकं धारयेत् ॥ आचम्य,
उपवीतं भिन्नतन्तुं जीर्णं कश्मलदूषितम् ।
विसृजामि [*] जले ब्रह्मवर्चो दीर्घायुरस्तु मे ॥
[*]:
पुनः (पा.भे)
इति जीर्णयज्ञोपवीतं शुद्धदेशे त्यजेत् । सात्त्विकत्यागं कुर्यात् ॥
[[95]]