॥ यज्ञोपवीतप्रतिष्ठा ॥
पादौ प्रक्षाल्य, आचम्य, प्राणानायम्य, ‘श्रीमान् वेङ्कट ……….सदा हृदि’ । अस्यां शुभतिथौ भगवत्(श्रीमन् नारायण)प्रीत्यर्थं, ‘यज्ञोपवीतप्रतिष्ठां करिष्ये’ इति सङ्कल्प्य, सात्त्विकत्यागं कृत्वा, शुचौ देशे जलपूर्णं सकूर्चयाज्ञियशाखं कुम्भं निधाय, तस्मिन् यज्ञोपवीतं निधाय, यज्ञोपवीतं स्पृशन्,
भास्करोक्त-विनियोगः
1चतस्रस् स्वयमातृण्णा दिक्षूपदधाति -
विश्वास-प्रस्तुतिः
भूर्! अ॒ग्निञ् च॑ पृथि॒वीञ् च॒ माञ् च॑ ।
त्रीँश् च॑ लो॒कान्त् सव्ँ॑वत्स॒रञ् च॑ ।
प्र॒जाप॑तिस् त्वा +++(स्वयम्-आतृण्णे!)+++ सादयतु ।
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥
भट्टभास्कर-टीका
भूर्व्याहृतिः, अग्निर्देवता, पृथिवी लोकः, अहम् उपधाता,
त्रिलोकवासिनो जनाः, संवत्सरस् सर्वानुग्राही कालः,
सर्वमिदं त्वद्-उपधान-लब्धात्मकं, तस्माद्भूराद्यात्मिकां त्वां प्रजापतिस्सादयतु,
त्वं च तया देवतया सह
अङ्गिरसाम् इव स्थिरा सीद ।
एवं सर्वासु दिक्षु योज्यम् ॥
मूलम्
भूर॒ग्निञ्च॑ पृथि॒वीञ्च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त्सव्ँ॑ वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥
विश्वास-प्रस्तुतिः
भुवो॑ वा॒युञ् चा॒न्तरि॑क्षञ् च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त् सव्ँ॑वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥
मूलम्
भुवो॑ वा॒युञ्चा॒न्तरि॑क्षञ्च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त्सव्ँ॑ वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥
विश्वास-प्रस्तुतिः
स्व॑र् आदि॒त्यञ् च॒ दिव॑ञ् च॒ माञ् च॑ ।
त्रीँश्च॑ लो॒कान्त् सव्ँ॑वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस् त्वा सादयतु ।
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥
मूलम्
स्व॑रादि॒त्यञ्च॒ दिव॑ञ्च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त्सव्ँ॑ वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥
विश्वास-प्रस्तुतिः
भूर् भुव॒स् स्व॑श् च॒न्द्रम॑सञ् च॒ दिश॑श् च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त् सव्ँ॑वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस् त्वा सादयतु ।
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥ 5 ॥
मूलम्
भूर्भुव॒स्स्व॑श्च॒न्द्रम॑सञ्च॒ दिश॑श्च॒ माञ्च॑ ।
त्रीँश्च॑ लो॒कान्त्सव्ँ॑ वत्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 5 ॥
इत्यभिमन्त्र्य,
‘ओं भूः’ यज्ञोपवीतं प्रतिष्ठापयामि । ‘ओं भुवः’ यज्ञोपवीतं प्रतिष्ठापयामि । ‘ओँसुवः’ यज्ञोपवीतं प्रतिष्ठापयामि । ‘ओं भूर्भुवस्सुवः’ यज्ञोपवीतं प्रतिष्ठापयामि । इति प्रतिष्ठाप्य - प्रथमतन्तुदेवतां ‘पृथिवीम्’ आवाहयामि । द्वितीयतन्तुदेवताम् ‘अप’ आवाहयामि । तृतीयतन्तुदेवतां ‘तेज’ आवाहयामि । चतुर्थतन्तुदेवतां ‘वायुम्’ आवाहयामि । पञ्चमतन्तुदेवताम् ‘आकाशम्’ आवाहयामि । षष्ठतन्तुदेवतां ‘प्राणम्’ आवाहयामि । सप्तमतन्तुदेवताम् ‘आत्मानं’ आवाहयामि । अष्टमतन्तुदेवताम् ‘अन्तरात्मानम्’ आवाहयामि । नवमतन्तुदेवतां ‘परमात्मानम्’ आवाहयामि ।
[[93]]
इति नवतन्तुदेवताः अक्षतैरावाह्य, आसनादिषोडशोपचारैरभ्यर्च्य, प्रथमग्रन्थिदेवतां ब्रह्माणम् आवाहयामि । द्वितीयग्रन्थिदेवतां विष्णुम् आवाहयामि । तृतीयग्रन्थिदेवतां गिरीशम् आवाहयामि । इति ग्रन्थित्रयदेवताः अभ्यर्च्य, यज्ञोपवीताधिष्ठातृदेवतां श्रियःपतिम् आवाहयामि इति श्रियः पतिं च आवाह्य, अभ्यर्च्य, यज्ञोपवीतसहितं कूर्चं पाणिना गृहीत्वा,
आ᳓ सत्ये᳓न र᳓जसा व᳓र्तमानो
निवेश᳓यन्न् अमृ᳓तं म᳓र्त्यं च ।
हिरण्य᳓येन सविता᳓ र᳓थेन+
+आ᳓ऽऽदेवो᳓ याति भु᳓वना विप᳓श्यन् ॥
उ᳓द् वयं᳓ त᳓मसस् प᳓रि
ज्यो᳓तिष् प᳓श्यन्त उ᳓त्तरम् ।
देवं᳓ देवत्रा᳓ सू᳓र्यम्
अ᳓गन्म ज्यो᳓तिर् उत्तम᳓म् +++(←“उत्तमशश्वत्तमौ सर्वत्र” इत्य् अन्तोदात्तः)+++ ॥
उ᳓दु त्यं᳓ जात᳓वेदसं
देवं᳓ वहन्ति केत᳓वः+++(→रश्मयः)+++ ।
दृशे᳓ वि᳓श्वाय सू᳓र्यम् ॥
चित्रं᳓ देवा᳓नाम् उ᳓दगाद् अ᳓नीकं
च᳓क्षुर् मित्र᳓स्य व᳓रुणस्याग्नेः᳓ ।
आ᳓-प्रा+++(←पूरणे)+++ द्या᳓वा-पृथिवी᳓ अन्त᳓रिक्षं
सू᳓र्य आत्मा᳓ ज᳓गतस् तस्थु᳓षश् च ॥
इत्यन्तम् उक्त्वा, सूर्याय प्रदर्श्य, पूर्ववत् निधाय, यज्ञोपवीतं स्पृशन्,
१२ त्र्यम्बकं यजामहे …{Loading}…
त्रि᳓यम्बकं यजामहे
सुग᳓न्धिम् पुष्टि-व᳓र्धनम् +++(<“गतिकारकोपपदात् कृत्”)+++।
उर्वारुक᳓म् +++(स्थूलफलम्)+++ [इ]व ब᳓न्धनान्
मृत्यो᳓र् मुक्षीय, मा᳓ ऽमृ᳓तात्॥
इति मन्त्रम् अष्टोत्तरशतसङ्ख्यया अष्टाविंशतिसङ्ख्यया वा गायत्रीं च जपित्वा, आचम्य, सात्त्विकत्यागं कुर्यात् ॥ (सर्वत्र पृथिव्यादिशरीरकश्रियःपतिमेव ध्यात्वा आराधयेत् ॥)
॥ यज्ञोपवीतप्रतिष्ठाविधिः समाप्तः ॥
[[94]]