॥ यज्ञोपवीतनिर्माणविधिः ॥
तस्मात् कार्पासमादाय शुचौ देशेऽभिवर्धितम् ।
पात्रे पवित्रे संस्थाप्य प्रयतः शौचसंयुतः ॥
तस्मिन् कराभ्यां निर्मुच्य कार्पासे बीजसञ्चयम् ।
स्वाध्यायोक्ते तथा पुण्ये नक्षत्रे शुभवासरे ॥
प्राह्णे शुचिः शुचौ देशे ब्रह्मसूत्रं प्रकल्पयेत् ।
सुवर्णादिशलाकानामलाभे तन्तुकर्मणि ॥
शुद्धमृन्मणिसम्प्रोतं कुशनालं प्रशस्यते ।
पादौ प्रक्षाल्य चाचम्य प्राङ्मुखो वाऽप्युदङ्मुखः ॥
ततः प्रणवमुच्चार्य व्याहृतित्रितयं ततः ।
नवतिं षट् च गृह्णीयात् सूत्रं तच्चतुरङ्गुलम् ॥
तदेवाच्छिन्नरूपेण कुर्वीत त्रिगुणं ततः ।
तत् सम्प्रक्षालयेत् शुद्धैः अम्बुभिः प्रणवेन च ॥
व्याहृतित्रितयेनाथ कूर्चोपरि विनिक्षिपेत् ।
[[आपो??]]ओपोहिष्ठादिभिर्मन्त्रैः कुशैस्तन्मार्जयेत् त्रिभिः ॥
पश्चाद्धिरण्यवर्णाद्यैः चतुर्भिर्मार्जयेत् बुधः ।
पवमानानुवाकेन ततो मार्जनमाचरेत् ॥
उपवीतकृतौ विप्रौ शुद्धौ द्वावेव भाषितौ ।
एकोऽनुवर्तको विप्रश्चान्यो मध्यगधावकः ॥
प्राक्प्रत्यग्वदनौ चोदग्दक्षिणाभिमुखावपि ।
स्थित्वा परस्परं तुल्यं तत्सूत्रमनुवर्तयेत् ॥
एवं (?) ज्ञात्वाऽनुवर्त्याथ कुशैर्घृष्ट्वा कुशास्तृते ।
देशे प्रसार्य दर्भौ द्वौ दत्त्वा कृत्त्वा करध्वनिम् ॥
भ्रमं न वीक्षितव्यं हि पितॄणां तृप्तिदं हि तत् ।
सन्ताडयेत्करतलं देवषीर्णां [[देवर्षीणां??]] हि तृप्तिदम् ॥
पश्चात् तत्सूत्रमादाय प्रणवव्याहृतित्रयम् ।
जपन् शनैश्शनैर्ग्रन्थिं कुटिलं परिमोचयेत् ॥
शुल्बं त्रिवलयं कृत्वा तदग्राभ्यां दृढं तथा ।
आवेष्ट्य बन्धयेत् ग्रन्थिं तृतीयं चोपरि क्रमात् ॥
पलाशखदिराश्वत्थबिल्वाद्यध्वरभूरुहाम् ।
तत् क्षिपेत् एकशाखायां भूर्भवस्सुवरोमिति ॥
प्रतिष्ठाकर्म कृत्वाऽथ यथावत् धारयेत् ततः ॥
[[92]]